SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः १७७ तद्धिता ध्वाङक्षरावीन्दुमखीत्याद्याश्च वृत्तयः । स्पर्धते जयति द्वेष्ट्यनुकरोत्यादिकाः क्रियाः ।। १५ ।। यत्कर्माधिकरणयोरायिः कर्मसमुद्भवः । कर्मकोंर्णमित्याद्या उपमावाचकाः स्मृताः ॥ १६ ।। राजादीनां शिवब्रह्मविष्णुशेषसुरेश्वरान् । सूर्येन्दुजलदोदन्वदग्निसिंहाद्रिहस्तिनः ॥१७ । . भूभूरुहनभोऽम्भोजमरालगरुडानिलान् । पुरारामसरोमुख्यान्युपमानानि कल्पयेत् ।। भजन्ति भावाः सर्वेऽपि भावानामुपमानताम् ॥षट्पदी। वेण्या: सर्पासिभृङ्गाल्यः केशपाशस्य चामरः । नीलकण्ठकलापोऽपि धम्मिल्लस्य विधुन्तुदः ।। १९ ।। सीमन्तस्याध्वदण्डौ च ललाटस्थाष्टमीविधुः । फलकं च कपोलस्य चन्द्रमा मुकुरस्थलम् ।। २० ।। भ्र वोः खड्गधनुर्यष्टिरेखापल्लववल्लयः । दृशोश्चकोरहरिणमदिराः खञ्जनोऽम्बुजम् ।। २१ ।। नीलोत्पलं च कुमुदं श्रुतेर्दोला च पाशकः । नासाया वंशोऽधोमुखतूणीरशुकचञ्चवः ।।२२।। तिलप्रसूनदण्डौ चाधरस्य नवपल्लवः । बिम्बीफलं प्रवालं च दन्तानां मौक्तिकावलिः ।। २३ ।। कुन्ददाडिमबीजानि हीरकाश्च, स्मितस्य तु । ज्योत्स्ना पुष्पाणि पीयूषं श्वासस्याम्भोजसौरभम् ।। २४ ।। जिह्वायास्त्वञ्चलो दोला वाण्या भृङ्गीपिकीरवौ। सुधा मधु च वक्त्रस्य शशी पङकजदर्पणौ ।। २५ ॥ कण्ठस्य कम्बुरंसस्य कुम्भौ, बाह्वोश्च वल्लरी । मृणाललहरीशाखापाशाः, पाणिपदस्य तु ।। २६ ॥ .. पल्लवोऽम्बुजमङ्गल्याः पल्लवो, नखपद्धतेः । रत्नताराप्रसूनानि, स्तनयोः स्तबकौ घटौ ।। २७ ॥ कुम्भिकुम्भी गिरी चक्रौ स्तम्बौ, मध्यस्य वेदिका । सिंहशक्ती च, रोमाल्या रेखामृणालवल्लयः ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy