________________
काव्यकल्पलतावृत्तिः
अथ चतुर्विधं गूढमिति क्रियागुप्तम् १ कर्तृ कर्मादिगुप्तं २ सम्बन्धगुप्तं ३ पादगुप्तं ४ च । तत्र क्रियागुप्तोदाहरणमाह-यथा यथेति मे मम अद्य ते रोहितश्रीः । पक्षे त्रिमिदाच् स्नेहने मेद्यति स्निह्यति । महोदधेः समुद्रस्य । पक्षे महस्तेजोदधे । द्वयं च सुगमं । पादगुप्तं यथा
१७४
त्वं दोर्बला दरौ देव सोद्रेकदरशङखकृत् ।
त्वद्य शोरं मुदं दत्ते
इति श्री जिनदत्तसूरिशिष्यपण्डितवर श्रीमदमररचितायां काव्यकल्पलताकविशिक्षावृत्ती श्लेषसिद्धिप्रताने तृतीये चित्रस्तबकः पञ्चमः सम्पूर्ण: । सम्पूर्णश्च श्लेषसिद्धिप्रतानस्तृतीयः ।
अत्र पादत्रये चतुर्थपादो गुप्तो ज्ञेयः । कुमुदोदरसोदरं इति । व्याख्या - अत्रोक्तिद्वयं यथा हे देव ! त्वद्यश अरमत्यर्थ, मुदं हर्ष दत्ते । यशः कथम्भूतं ? कुमुदोदरसोदरं । हे देव ! त्वं दोर्बलात् अरौ सोद्रेको यो दरो भय, तदेव शङ्कुः कीलकस्तं करोतीति सोद्रेकशङ्कुकृत् वर्तसे । वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा । परं चित्रं शब्दस्यालङ्काराः श्लेषोऽर्थस्यापि सोऽन्यस्तु । शेषं सुगमम् ।। छ । ।
इति श्री तपागच्छाधिनायक पातसाहि श्रीअकब्बरप्रतिबोधदायक श्रीशत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री४ श्रीहीरविजयसूरीश्वरशिष्य पं. श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे श्लेषसिद्धिप्रतानप्राप्त चित्रस्तबकोद्योतकः पञ्चमप्रसरः समाप्तः, तत्समाप्तौ च समाप्तोऽयं तृतीयश्लेषसिद्धिप्रतानः ||छ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org