________________
१७३
काव्यकल्पलतावृत्तिः
व्याख्या । हे वीर ! ते तव बेरं शरीरं वसुधायां पृथिव्यां शुशुभे ति सण्टकः । कथम्भूतं बेरं ? ततभा :कलधौतरुक् । तता विस्तीर्णा भाः कान्तिर्यस्य तत् ततभा:; ततभाश्च तत् कलधौतं च ततभा: कलधौतं; तद्वद् रुक् कान्तिर्यस्य तत् तथा । कलधौत्वं रूप्यं सुमानि च कुसुमानि तद्वत् श्लोको यशो यस्य स तथा । तस्य सम्बोधनं हे कलधौत सुमश्लोक तथा । नमन्तो नरा मनुष्या यस्य स तथा । तस्य सम्बोधनं हे नमन्नर इति । शंखबन्धचित्र
स्थापना यथा-
इत्यादि बहुचित्राणि ग्रन्थान्तरेभ्यो ज्ञेयानीति । क्रमाच्चतुर्विधं च्युतमिति-मात्राच्युतकमर्द्धमात्राच्युतकं बिन्दुघ्युतकमेकादिवर्णच्युतकं च । तत्र मात्राच्युतकं यथा
देशान्तरावृतान् भावान् कालातीतानपि स्फुटम् । केवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ।।१।। देशकालकेवलैर्मात्राच्युतकम् । देश इत्येकारच्युतेन काल इत्याकारच्युतेन केवल इत्येकारच्युतेन पूर्वश्लोको यथादेशान्तरावृतान् भावान् कालातीतानपि स्फुटम् । केवलज्ञानतो योगी प्रत्यक्षानिव वीक्षते ॥ १ ॥
व्याख्या-योगी भावान् पदार्थान् केवलज्ञानात् प्रत्यक्षानिव वीक्षते । कथम्भूतान् ? देशान्तरैरावृतान् । पुनः कथम्भूतान् ? कालातीतान् बहुकालभवान् । पक्षे दशान्तरावृतान् अवस्थान्तराच्छादितान्, कलातीतान् कला तैः पञ्चदशभिरिति वचनात् अल्पकालातीतान् । अतः केवलज्ञानकं परमब्रह्म, तस्य बलेन ज्ञायन्ते इति केवलज्ञास्तान् इति । अर्थमात्राच्युतकं यथा -
मध्ये सूरिसभं भूरि स्वीकृतानङ्गसङ्गमाः । न लभन्ते नराः शोभां भातीव रविभानुषु ॥ १ ॥
व्याख्या—पण्डितपर्षदि भूरिस्वीकृतानङ्गसङ्गमा नरा शोभां न लभन्ते न प्राप्नुवन्ति इव । यथा सूर्यकिरणेषु भानि नक्षत्राणि । पक्षे अनङ्ग इत्यत्र व्यञ्जनं चार्द्धमात्रकं । स्वरहीनं व्यञ्जनमिति वचनात् ङकारव्यञ्जनच्युतेन भूरिस्वीकृतानगसङ्गमानरा आ सामस्त्येन, नगसङ्गमः पर्वतसङ्गमः, स्वीकृतो आनगसङ्गमो यैस्ते तथा । भिल्ला अर्थान्मूर्खा इति । बिन्दुच्युतकं यथा
साहं सेनाश्रिता पद्मालयेन जलदात्यये । अर्णवस्थाभिसरणे रहो मुञ्चति वाहिनी ॥ १ ॥
व्या. वाहिता नदी, अर्णवस्याभिसरणे समुद्रस्य मिलने, जलदात्यये मेघविरामे च सति रंहो वेगं मुञ्चति चेत्यध्याहार्यम् । वाहिनी कथम्भूता ? सा प्रसिद्धा । पुनः कथम्भूता ? हंसेन आश्रिता । हंसेन कथम्भूतेन ? पद्मालयेन । पक्षे बिन्दुविहीनत्वेन वाहिनी सेना, रह एकान्तं गुह्यप्रवृत्तिमिति यावत् मुञ्चति । कथम्भूता ? आश्रिता । केन ? साहसेन सत्त्वेनेति । एकाक्षरच्युतकं यथा पार्वतीतिदानवो देवभाप्रदः दानवोऽसुरो देवभयप्रदः । पक्षे दालोपेन वो देवभीप्रदः । अत्र चतुर्थपादे दाच्युते सप्ताक्षरा भवन्तीति द्व्यक्षरच्युतकं यथा-
नत नाकि मौलिमणिमण्डली विभाभरभासुरांहिसरसीरुहा सताम् । शिवशर्मणे भवतु भारती भृशं दृढजाड्यखण्डनदिनेशभा ततिः ॥ १ ॥
अत्र सजसा जगौ यदि तदा तु नन्दिनीति नन्दिनीछन्दः । शेषं स्पष्टार्थम् । आद्याक्षरद्वयपाते यथा-नाकमौलिमणिमण्डली विभा भासुरांहि सरसीरुहा सताम् । शर्मणे भवतु भारती भृशं जाड्यखण्डनदिनेशभातति ।। १ ।। अत्र रो नराविहरथोद्धतालगाविति रथोद्धताछन्दः । अन्त्याक्षरद्वयपाते यथा-
नतनाकि मौलिमणिमण्डली भरभासुरांहि सरसीरुहा । शिवशर्मणे भवतु भारती दृढजाड्यखण्डनदिनेशभा || १ || अत्र रोनरी भवति भद्रिकेति भद्रिकाछन्द: । भारती स्तुतिः सर्वत्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org