________________
१७२
काव्यकल्पलतावृत्तिः
व्याख्या--प्रमदा: पार्षदागणा इतिवचनात् । गणानामीशो गणेश ईश्वरो वर्तते । कथम्भतः ? चङ्गा चासो गङ्गा च चङ्गगङ्गा , गलन्ती चासौ चङ्गगङ्गा च गलच्चङ्गगङ्गा । अङ्गात् गलच्चङ्गगङ्गा अङ्गगलच्चङ्गगङ्गा । तस्य सङ्गो मिलनं यस्य स तथा । गले उरगो यस्य स तथा । अङ्गगलच्चङ्गगङ्गासङ्गश्वासौ गलोरगश्च स तथा । पुनः कथम्भूत: ? गरभुग गरं विषं भुक्ते इत्येवंशीलो गरभुग । पुनः कथम्भृत: ? गगनाभोगगति: गगनस्याभोगो विस्तार, स्तत्र गतिर्यस्य स तथा । पुनः कथम्भूतः ? तुङ्गगणानुगः तुङ्गा उच्चा ये गणास्ते अनुगा: सेवका यस्येत्यर्थः । स्थापना यथा
अत्र श्लोकद्वये बहुचित्रसिद्धिर्जेया । अथ पूर्वोक्तगोमुत्रिकाश्लोकस्य षोडशदलकमलबन्धेन चित्रं, तत्स्थापना यथा । मुरजबन्धचित्र यथा
या दमा नवमानन्द पदमाननमानदा । दान मान क्षमानित्य धनमानवमानिता ॥१॥
व्याख्या । दमे नेन्द्रियजयेन न अवमो नंद्यो । नवमः उत्तमो य आनन्दस्तस्य पदं या विद्या वर्तते । विद्यया हि शमसुखलाभः । कथम्भता ? आननमानदा मुखस्य मानं पूजां ददातीति । निरपभ्रंशभाषणाद विमखं पूज्यं भवति । पुनः कथम्भूता ? दानमानक्षमा नित्यं धनमानमानिता । दानमानक्षमा एव । शाश्वतं धनं येषां तैर्मानवैः पुरुषैर्मानिता प्रजिता । मानं ज्ञानमिति । मरजबन्धरीतिर्यथा--पादचतुष्टयेन पडिक्तचतुष्टये कृते प्रमादिपादेभ्य: प्रथमाद्यक्षराणि चत्वारि, चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वार्यक्षराणि गृहीत्वा प्रथमः पादः स्थाप्य: । द्वितीय पादात् प्रथममक्षरं प्रथमपादाद् द्वितीय तृतीये अक्षरे, द्वितीयतृतीयपादाभ्यां चतुर्थे अक्षरे, चतुर्थात् तृतीये द्वितीयेऽक्षरे, तृतीयात् पादात् प्रथममक्षरं च गृहीत्वा द्वितीय: पाद: स्थापनीयः। द्वितीयादष्टमं प्रथमात् सप्तम षष्ठे, द्वितीय तृतीयाभ्यां पञ्चमे, चतुर्थाद् षष्ठसप्तमे, तृतीयादष्टममक्षरं च गृहीत्वा तृतीयः पादः स्थाप्यः । चतुर्थादिभ्यः प्रथमादीन्यक्षराणि प्रथमादिपादेभ्यः पञ्चमादीन्यक्षराणि च गृहीत्वा चतुर्थः पादः स्थापनीय इति । स्थापना
सुरासुरनराधीशनतं यमविधायकम् । नमामि जिननेतारं श्रीदातारं जिनान्तिमम् ।।१।।
व्याख्या । अहं जिनान्तिमं नौमि । जिनेषु अन्तिमो जिनान्तिमस्तं जिनान्तिमं वीरं । कथम्भूतं ? सुराश्चासुराश्च नराश्च तेषामधीशास्तैर्नतः प्रणतस्तं । पुनः कथम्भूतं ? यमस्य नियमस्य विधायकस्तं । पुनः कथम्भूतं ? जिनाः सामान्यकेवलिन, स्तेषां नितान्तं । पुनः कथम्भूतं ? श्रियो लक्ष्म्या दाता तमिति । स्थापना यथा--
वर्धमानयशोवादवर्धमानजिनोत्तम । महानन्दपदस्थायिन महामहकरो भव ॥११॥
व्याख्या । हे वर्द्धमान ! त्वं महामहकरो भवेति क्रियासम्बन्धः महांश्चासौ मह उत्सवश्च महामहस्तं करोतीति महामहकरः । अत्र महशब्दोऽकारान्तो ज्ञेयः । यशसां वादो यशोवादो, बर्द्धमानो वृद्धिमान यशोवादो यस्य स तथा, तस्य सम्बोधनं । जिनेषु उत्तमः प्रधानो जिनोत्तमस्तस्य सम्बोधनं तथा । महानन्दपदे मोक्षपदे तिष्ठति इत्येवंशीलो महानन्दपदस्थायी, तस्य सम्बोधनमिति । तत्स्थापना यथा--आदिशब्दाबाणादिचित्रं यथा--
दद्यान्मम सुखं वीरो यस्याननमतिप्रभम् । रेजे राजीववन्नित्य दधतो विविधक्षणम् ॥१॥
व्याख्या । स वीरो वीरजिनः सुखं दद्यात् । कस्य? मम । स कः? यस्याननं मुखं, राजीववत् कमलवद्, नित्यं सदा, रेजे शुशुभे । कथम्भतं? अतिप्रभं-अति अतिशयेन प्रभा कान्तिर्यत्र तत्तथा । तस्य किं कुर्वतः? दधतः । कं? कर्मतापन्नं विविधक्षणं विविधोत्सवमिति । शरबन्धचित्रस्थापना यथा--
शुशुभे वीर ते बेर ततभाः कलधौतरुक् । कलधौतसुमाश्लोक वसुधायां नमन्नर ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org