________________
१७०
काव्यकल्पलतावृत्ति:
नतनाकिमौलिमणिमण्डलीविभाभरभासुराडिघ्रसरसीरुहा सताम्
शिवशर्मणे भवतु भारती भृशं दृढजाड्यखण्डनदिनेशभाततिः ।। अत्र नन्दिनीच्छन्दसि प्रतिपादमाद्याक्षरद्वयपाते रथोद्धतावत्तेन, तथा-न्त्याक्षरद्वयपाते च भद्रिकावत्तेन भारतीस्तुतिः । अयं वर्णच्युतप्रकारः छन्दो मर्माणि ज्ञात्वा साधारणशब्दैः साध्यः ।।
अथ चतुर्विधं गढम् । क्रियागढं भङगश्लेषाद्यपायैरेकाक्षरादिकाः क्रियाः प्रयोज्याः । यथायथायथा त्रस्तकुरङगनेत्रा प्रिया पुरो मेऽद्य तिरोहितश्रीः।
महोदधे स्फारतरङगभङग्या तथा तथा प्रेममय मदाहम् ।। अत्र मेध्यति दधे च क्रिये। क्रिया यथा--अस्ति स्तः (सन्ति); अस्मि स्व: स्मः । प्राणितिगेहितः । एवं भवन, यक्षति, प्रभतिभ्यो रोहितः प्रभूतयः ।।
कर्तृकर्मादिगुप्तानि भङ्गश्लेषेण साधयेत् ।।१८८।।
यथा
मानकोपभृते पुंसि शाश्वती स्थितिमाश्रयेत् । शङखेभ्यो नाप्नुयात्कोऽपि देशः प्राप्नोति कङकणैः ।। पूर्वाध कर्तृगप्तं । मा न लक्ष्मीनम् । उत्तरार्धे कर्मगुप्तम् । खेभ्यः इन्द्रियेभ्यः शं सुखम् । कंकणैः कं सुखम् । सम्बन्धगढमपि भङगश्लेषेण साध्यम् । यथा-- बालया पृथ्विगोपाल व्यलोक्यत तयाननम् । तदाप्रभृति तां निन्ये स्मरः स्वशरवेध्यताम् ।। पादगृढे चतुर्थपादवर्णाः पादत्रये क्षेप्याः । यथा-- त्वं दोर्बलादरौ देव सोद्रेकदरशं कुकृत । त्वद्यशोऽरयं मुदं दत्ते................। अत्र पादत्रये चतुर्थः पादो गुप्तः-- 'कुमदोदरसोदरम्' इति ।
द्वात्रिंशत्कोष्टकेष श्लोककरणविधिः
प्राक्कोष्टकेषु न श्लोकाः करणीया विचक्षणः ।
केवलं प्रश्नवेलायां पादः कार्यो नवो नवः ।।१८९।। म. टी. पादगतप्रत्यागतचित्रं यथा-का रता निजहावेन नवेहाजनितारका । चारुमारपराधीन न धीरा परमा रुचा ।।१।।
व्याख्या--हे चारुमारपराधीन चारुर्मनोज्ञो, मारः कन्दर्पस्तेन पराधीनः परायत्तस्तस्य सम्बोधनम् । निजहावेन स्वाभिलाषविकारेण, का स्त्री इह भर्तरि रता रक्ता रतोत्सुका तत्परेति यावत् । नवेत्यव्ययस्य निषेधार्थवाचकत्वान्न वाऽजनि, किन्तु सर्वा अपि। का कथम्भूता ? तारका मनोज्ञा । पुनः कथम्भूता ? धीरा गम्भीरा सत्त्ववती वा न। पुनः कथम्भूता ? परमा प्रकृष्टा कया रुचा कान्त्या इति । स्थापना यथा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org