________________
१६०
काव्य कल्पलतावृत्तिः
मोक्षेऽन्तभावेऽधोभागे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुनयेऽतीतार्थं विकल्पवितर्कयोः ।।१६०।। नीषदर्थे सादृश्ये तद्विरुद्ध तदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥१६१।। वा समुच्चय एवार्थे उपमानविकल्पयोः । विशिष्टेऽतीते नानार्थे वै हतौ पादपूरणे ।।१६२।। शं कल्याणे सुखे संप्रकृष्टार्थसङ्गमार्थयोः । शोभनार्थे समार्थे ह सम्बुद्धौ पादपूरणे ॥१६३।। हा शुग्दुःखविषादेषु हि हेताववधारणे । विशेषे पादपूर्ती च ही विस्मयविषादयोः ॥१६४।। दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुँ तर्के प्रश्नेऽङ्ग पुनरर्थे सम्बोधने मुदि ॥१६५।। अति प्रोक्तः प्रकर्षार्थे लङ्घनार्थभृशार्थयोः । स्तुतावसंप्रतिक्षेपे आराद् दूरसमीपयोः ॥१६६।। इति स्वरूपे सान्निध्ये विवक्षानियमे मते । हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे ॥१६७।। एवमर्थे समाप्ते स्यादुत प्रश्नवितर्कयोः । समुच्चये विकल्प चाऽथोऽथ स्याच्च समुच्चये ।।१६८।। मङगले संशयारम्भाधिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां प्रश्नसङ्कल्पयोरपि ॥१६९।। अनुर्लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥१७०।। नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽनुनयेऽप्यामन्त्रणानुज्ञयोरपि ।।१७१।। नाना विनोभयानेकार्थेष्वपस्तेयहर्षयोः । अप्रकृष्ट वर्जने च विपर्ययवियोगयोः ।।१७२।। निर्देशार्थे विकृत्यर्थे विबुधैः परिकीर्त्यते । अपिः सम्भावनाशङकागहणासु समुच्चये ।।१७३।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org