________________
काव्यकल्पलतावृत्तिः
१५९
आशा ककुभि तृष्णायामाशुस्तु ब्रीहिशीघ्रयोः । ईशः स्वामिनि रुद्रे च स्यादीषा हलदण्डके ॥१४६।। उषा स्याद्बाणदैत्येन्द्रनन्दिन्यां रजनावपि । आगः स्यादेनोवदघे मन्तावाशी हितैषणे ॥१४७।। उरगस्य च दंष्ट्रायामुषःसन्ध्याप्रभातयोः । उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ॥१४८।। अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि । ओकस्त्वाश्रयमानेऽहिभुजङ्गे वृत्रवप्रयोः ॥ ईहोद्यमस्पृहेत्येते द्विस्वरैकाक्षरा मताः ।।१४९॥ षट्पदी । अथाऽव्ययानि कथ्यन्ते प्राग्वदेव स्वरक्रमात् । अः स्वल्पार्थेऽप्यभावेऽपि स्यादा स्मरण वाक्ययोः ।।१५०॥ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । आ स्यादवधतिस्मृत्योराः सन्तापप्रकोपयोः ॥१५१॥ इः स्यात् खेदे प्रकोपोक्तावी: क्रोधे दुःख भावने । प्रत्यक्षे सन्निधौ चाप्युरोषोक्त्यामन्त्रणार्थयोः ॥१५२।। उः प्राधान्ये प्रकाशे च प्राबल्यस्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षे भावे लोभोर्ध्वकर्मणोः ।।१५३।। उ प्रश्नेऽङगी कृतौ रोषेऽप्यूँ प्रश्ने रोषवाचि च । क कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥१५४।। आमन्त्रणाह वानयोरों प्रणवेऽङ गीकृतावपि । ओऔशब्दौ तु होहीवत् हूतौ सम्बोधनेऽपि च ।।१५५।। कुः पापीयसि कुत्सायामीष दर्थे निवारणे । के सुखे वारिशिरसोः कि प्रश्ने कुत्सनेऽपि च ।।१५६।। चोऽन्योन्यार्थसमाहारान्वा चयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ॥१५७।। पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ।। समुच्चये पादपूतौं धिक् निर्भर्त्सननिन्दयोः ॥१५८।। निः स्यात् क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । सन्निधानोपरमयोः संश्रयाश्रयराशिषु ॥१५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org