________________
१५८
काव्यकल्पलतावृत्ति:
अजश्छागे हर विष्णौ रघुजे वेधसि स्मरे । आजिः क्षणे समक्ष्मायां युध्यट्टोऽट्टालके भृशे ॥१३२॥ चतुष्कभक्तयोर्हट्टे इडेले च बुधस्त्रियाम् । गोवाक्स्वर्भू मिनाडीषु तथा स्यादणिराणिवत् ॥१३३॥ अक्षाग्रकीलेऽनौ सीमन्यणुव्रीह्यल्पयोः पुनः । अन्तः प्रान्ते च पार्श्वे च स्वरूपे निश्चये तथा ॥१३४॥ नाशावयवयोः स्यादीतिरजन्यप्रवासयोः । स्यादतिः स्यूतौ रक्षायामेतः कर्बु र आगते ॥१३५।। ततं वीणादिवाद्ये स्यात्तत्तो व्याप्तेऽनिले पृथौ । तातोऽनुकम्प्ये जनकेऽन्दूः स्यान्निगडभूषयोः ॥१३६॥ अन्धोऽन्धकारेऽक्षिहीने स्यादादिर्बन्ध काशयोः । मनोतौं व्यसनेऽधिष्ठानेऽन्नं त्वसितभक्तयोः ॥१३७॥ इनः स्वामिनि सूर्ये स्यादुन्नं क्लिन्ने दयापरे। बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बकाफले ॥१३८॥ आमोऽपक्वे रोगभेदे रागयोः स्यादुमा पुनः । शिवपत्न्यां हरिद्रायां कीर्तिकान्त्यतसीष्वति ॥१३९॥ ययुर्यज्ञहये वाहे स्यादरोऽष्टादशाहति । भवत्यरं तु चक्राङ्गे शीघ्रशीघ्रगयोरपि ।।१४०॥ आरो रीरी शनिभौ मे आरा चर्मप्रभेदिनी । इराम्भोवासुराभूषु रुरुदै त्यकुरङ गयोः ॥१४१॥ अलिः सुरापुष्पलिहोरालं तु हरितालके । तथा निरर्थके ज्ञेयमालिस्तु विशद।शये ॥१४२॥ अनर्थे सख्यमावल्याँ सेनावालुर्गलन्तिकाः । आलुः कन्दे भेलुकेऽपीलोर्वी गीर्वांक् बुधाङ्गनाः ॥१४३।। लीलाकेलिविलासश्च शृङ्गारभावक्रिया : । लोलश्चले सतृष्णे च स्यादीषा हलदण्डके ॥१४४॥ अविर्मषे रवौ भूमिधरे मूषककम्बले । अंशुः सूत्रादिसूक्ष्मांशे किरणे, चण्डदीधितौ ।।१४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org