________________
काव्य कल्पलतावृत्तिः
Jain Education International
तीक्ष्णे वैश्वानरे काम राः स्वर्णे, जलदे धने । री में रुर्भये सूर्ये ल इन्द्रे चलनेऽपि च ॥ ११८।। लूलवे ली पुनः श्लेषे वलये वो महेश्वरे । वरुणे मारुते च स्यादौपम्ये पुनरव्ययम् ॥ ११९ ॥
शं शुभे शा सास्नायां शी: शयने शुनिशाकरे । षः श्रेष्ठे पूः पुनर्गर्भविमोक्षे सः परोक्षके ॥ १२०॥
सा लक्ष्म्याँ हो निपाते च हस्ते दारुणि शूलिनि । क्षः क्षेत्रे रक्षसीत्युक्ता माला प्राक्सूरिसम्मता । नानामेकार्थनानार्थं काक्षराणामियं मया ॥ १२१ ॥ षट्पदी | धूर्यानवदने भारे पूः शरीरे पुरे तथा । दृग् द्रष्टृदर्शनेऽप्यक्ष्ण विट्प्रवेशे नृवैश्ययोः ॥ १२२॥ तृड् लिप्सायां पिपासायां भाः प्रभावे महस्यपि । मास्तु मासे विधौ चैते यक्पादान्तोपयोगिनः ॥ १२३ ॥
अकं दुःखाघयोरको भूषारूपकलक्ष्मसु । चित्रादौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसो ॥ १२४॥ एकोऽन्यः केवलः श्रेष्ठः संख्या च परिकीर्त्यते । es को यमे लोहपृष्ठे तथा ब्राह्मणलिङ्गिनि ॥ १२५॥ are: पीठे सर्पिणि स्याच्छिरोऽवक्षालने द्विके । द्रापमानभेदेषु काक Freeदम्बके ।।१२६॥ योषितां रतबन्धे च काका तु काकजङिघका काकोदुम्बरिका काकुमाचिका रक्तिकास्तथा ॥ १२७ ॥ ॥ काकोली काकनाशोऽथ कोकश्चक्रे वृकेऽपि च । खर्जूरीपादपे भेके स्यादकस्तु महीरुहे ॥ १२८॥ शैले सरीसृपे भानावङ्गमङ्कितगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥१२९ ॥
अङ्गानि वृद्धिशेषे युरिङ गं स्यादिङि गतेऽद्भुते । ज्ञानजङ्गमयोश्चाषं दुःखे व्यसनपापयोः ॥१३०॥ ओघः प्रवाहः सङ्घातोऽद्भुतवृत्तपरम्परा । उपदेशश्च चञ्चुस्तु वोट्यां पञ्चाङ्गुले तथा ॥१३१॥
For Private & Personal Use Only
१५७
www.jainelibrary.org