________________
१५६
काव्यकल्पलतावृत्तिः
लुर्देवसूल वाराही भवेदेविष्णुरैः शिवः । उवेर्धा ऊरनन्तः स्यादों ब्रह्म परमः शिवः ।।१०४।। को ब्रह्मात्मप्रकाशार्कके किवायुयमाग्निषु । कं शीर्षेऽप्सु सुखे कुस्तु भूमौ शल्ये च किं पुनः ।।१०५।। स्यात् क्षेपनिन्दयोः प्रश्ने वितर्के च खमिन्द्रिये । स्वर्गे व्योम्नि नृपे शून्ये सुखे संविदि खो रवौ ।।१०६।। गस्तु गातरि गन्धर्वै गं गीते गौविनायके । स्वर्गे दिशि पशौ रश्मौ वजे भूमाविषौ गिरि ।।१०७।। जलेऽक्षिण घस्तु घण्टीशे घा किङि कण्यां वधे ध्वनौ । डस्तु भैरवविषयेच्छयोश्चन्द्रश्चन्द्र चौरयोः ॥१०८॥ छः सूर्ये छेदके छन्तु निर्मले जस्तु जेतरि । धिगते जूनभोवाचि पिशाच्यां जवनेऽपि च ॥१०९॥ झो नष्टे गायने चारुवचने घर्घरध्वनौ । टं पृथिव्यां करङ के च टो ध्वनी ठो महेश्वरे ॥११०॥ शून्ये बृहद्ध्वनौ चन्द्रमण्डले डं शिवे ध्वनौ । जापे ढो निगुणे शब्दे ढक्कायां णस्तु निष्फले ॥१११॥ ज्ञाने तस्तस्करे क्रोडपुच्छयोस्ता पुनः श्रियाम् । थो भीत्राणे महीधेदं पत्न्यां दा दातृदानयोः ॥११२॥ छेदे बन्धे च धा गुह्य केशे धातरि धीमतौ । धूर्भारकम्पचिन्तासु नः पुनर्बन्धबुद्धयोः ॥११३॥ निस्तु नेतरि नुः स्तुत्यां नौस्तां पस्तु पातरि । पवने जलपाने च फो झञ्झाऽनिलफेनयोः ॥११४॥ फुस्तु फूत्कारे निष्फलभाषणे बः प्रचेतसि । कलशे बिः खण्डजयोभमुडौ भोऽलिशुक्रयोः ॥११५।। भा कान्तौ भूर्भुवि स्थाने भीर्भये मः शिवे विधौ । चन्द्रे शिरसि मा माने श्रीमात्रोर्वारणेऽव्ययम् ।।११६।। मूः पुनर्बन्धने यस्तु मातरिश्वनि यं पशौ । यस्तु यातरि खट्वाङगे याने लक्ष्म्यां च रो ध्वनौ ।।११७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org