________________
१५४
काव्यकल्पलतावृत्तिः
अथ चित्रप्रपञ्चः
का.क. स्यात् स्वरव्यञ्जनस्थानगत्याकारनियन्त्रणा ।
च्युतगूढादि वा चित्रं च्युतं तत्र चतुर्विधम् ।।१०१।। मात्रार्धमात्रयोबिन्दुवर्णयोश्च्यवनान्मतम् ।
क्रियाकारकसम्बन्धपादैगूढं चतुर्विधम् ।। स्वरादीनां नियन्त्रणा नियमः । स्वरचित्रं यथा--जय सकलनयकलन, जय मदनमददलन, जय कमलकरचरण, जय समयजनशरण । ह्रस्वैकस्वरः । एवं दीर्घकस्वरद्विव्यादिस्वरो नियमो ज्ञेयः । एकस्वरादिशब्दाः सुप्राप्या इति न दर्शिताः ।
म. टी. अथ चित्रविधि प्रपञ्चयन्नाह-एकस्वरचित्रं यथा । जयेति--हे सकलनयकलन, त्वं जय इति चतुर्ष पादेष योज्यम् । सकलाश्च ते नयाश्च, तेषां कलनं ज्ञानं, यस्य स तथा, तस्य सम्बोधनं तथा । मदनस्य कन्दर्पस्य यो मदस्तस्य दलनं यस्मात् स तद्दलन:, तस्य सम्बोधनम् । तथा करौ च चरणौ च करचरणौ । कमलवत् करचरणौ यस्य स तथा, तस्य सम्बोधनं तथा । सभयाश्च ते जनाश्च, तेषां शरणं यस्मात् तत् तथा । तस्य सम्बोधनमित्यत्र निलया छन्दः । व्यञ्ननचित्रं वृत्तावेव व्याख्यातमस्तीति न व्याख्यातमिति ।
का. क. व्यञ्जनचित्रं यथा-- कककाकङककाङकाङका केकिकेकाकुका ककुप् ।
कौ कं कडकककोकैक काकंकाकककाकुकम् ।। वर्षावर्णने ककूप वर्तते । जात्यैकवचनम्। किंभता कककाकङककाङकाङका? कका लोलाः, काकडका: सुखागमना ये काङका मेघास्ते, अङको लक्ष्म यस्याः सा । ककि लौल्ये, भ्वादिरात्मनेपदी । ककन्ते काकः पचाद्यच, कं सुखं, तद्धेत: आकङक आगमनं येषां ते काकङका: । ककिवकीत्यादिना भ्वादिरात्मनेपदी ककधातु: आङपूर्व : । आकङकनं आकङकः, भावे घा। कं जलं, अङके उत्सङगे येषां ते काङका: जलभृतः । पुनः किम्भूता? केकिकेकाकुका। केकिनो मयुराः, तेषां केका: ध्वनिविशेषाः, तासां कुका ग्राहिनणी। कूक वक आदाने, भ्वादिरात्मनेपदी । कोकते कूका, नाम्यपधात्कः । कौ कं कङकककोकैककाकं, तथा कौ पृथिव्या, कं जलं, वर्तते । किंभूतम् ? ? कङककोकैककाकं--कङककाश्च कोकाश्च तेषामेकोऽद्वितीयः काको रवो यत्र तत् । कङका: पक्षिविशेषाः, स्वार्थे क :। कोकाश्चक्रवाकाः । कायति अर्थमभिधत्ते इति काकः शब्दः । “इण्भीपाकाश्रत्वचिकृदाभारिभ्यः कः "। पुनः किंभूतम् ? काकककाकुकं--काककं च काकुकं च तत् । केन आत्मना, आककं कुटिलगामि । अक अग कुटिलायां गतो, भ्वादिः परस्मैपदी । अकतीति आकर्कण्वल । काकूर्ध्वनिविशेष:, 'तं करोति' 'अन्यतोऽपि च' इति डः ।
अथैकाक्षरादिशब्दा: कादिक्रमेण लिस्यन्ते । यथा--कु ककुप् काकु केकि कोका ओक: एकाकी कि कः को के कं कौ कान कैः का केका: कांकेकाः किके किम् के । अकं पापादौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org