________________
काव्यकल्पलतावृत्तिः
गजानन ।
प्रद्योतनोऽम्बजानां सविता महसां विकर्तनस्तमसाम् ।
निखिलजगच्चक्षुरसावम्बररत्नं रविर्जयति ।। म.टी. हेलाविलंघिनेति-हेलया लीलया, विलंधितानि उल्लङिघतानि, हिरण्मयरत्नशङ्ग णि याभिस्तास्तथा । शृङ्गारेण भासुरा रुक् कान्तिर्यासां तास्तथा । सहचारिण: कान्ताः पतयो, यासां तास्तथा । कान्तारभुवि वसतिर्यासां तास्तथा । सारङ्गवत् मृगवत, चञ्चला दृशो लोचनानि, यासां तास्तथा । एवंविधा देवानां महेला: स्त्रियोऽत्र सारं यथा स्यात् तथा । चरन्तीति भवेति यतः रतिदाः सुखदाः अमरभूरुहकामधुक, सुरमणीरमण्यः कल्पवृक्ष कामधेनु चिन्तामणिस्त्रिय, स्ताभि: रमणीयता भवति । अतो जिनं नमतो मम कमलागमो भवति । विवद्धिकृते संसारवृद्धये न स्यात् कमलागमः । कथम्भृतः ? नमतः अप्रशस्तः, वनस्येति । अत्र वनस्यातमध्ये स्त्रीसखः सुरौधो लसति क्रीडति । वनस्य कथंभूतस्य ? रतिभुवः। सुखालया ये तरवो वृक्षास्तैश्चारुणो कथम्भत: सूधारौम । स्यनोज्ञ ? रन्नैः कृत्वा अतिभूता अतिशयिता, या रुक कान्तिस्तया अरुणो रक्त इति । तरणिमिति-हे सुश्रेणि हे सुभगे, तरणि पश्य इत्युक्ते सा प्राहइह तरणिनौ कुत्रास्ति ? स प्राह-हे प्रिये सवितारं वच्मि । सा प्राह-हे प्रिय सवितृशब्देन पिता उच्यते, स अधुना दूरे भाति । एष मेरुरिति यो मेरुरुचिरः स कथं मेरुशोभी न भवतीति विरोधः । पक्षे नमेरुभिर्व क्षविशेषैः शोभते इत्येवंशीलो नमेरुशोभी इति विरोधपरिहारः । यः कृत्स्नामिलां वहति स अनिलाभिरामः । कथं न इलाभिरामोऽनिलाभिराम इति विरोधः । अनिलेन वायुनाऽभिराम इति तत्परिहारः । यः स व्यालबालमपि चन्दनपादपानां समूह, अव्याल-बालं कथं वहते (ति ?) इति विरोधः । तत्परिहारे च एकत्र व्यालबालैः । सहितं अन्यत्र च नव्यानि यानि आलवालानि, तैः सहितम् । मर्ना इति । कुम्भौ के वहन्ति ? गजा: । मुग्धा स्त्री पतिनाश्लिष्टा कि ब्रूते ? नन । हस्तिवदनस्य सम्बोधनं कि क्रियते ? हे गजानन ॥छ।।
इति श्रीजिनदत्त० श्लेषसिद्धिप्रताने तृतीये अद्भतस्तबकश्चतुर्थः ।
म. टी. इति श्री तपागच्छाधिनायकातसाहि श्री अकब्वर प्रतिबोधदायक श्रीशत्रुजयादितीर्थकरमुक्तिकारक भट्टारक पुरन्दर भट्टारक श्री हरिविजयसुरीश्वर शिष्य पण्डितधीशभविजयगणिविरचिते काव्यकल्पलतावत्तिमकरन्दे श्लेषसिद्धि प्रतानप्राप्ताद्भुतस्तबकोद्योतकश्चतुर्थप्रसरः ।।छ।। ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org