________________
१५२
काव्यकल्पलतावृत्तिः
वर्णादीनामभङ्गे तु राजा मृदुकरस्थितिः ।
संसारसारमथै क्ये संस्कृतप्राकृतोद्भवः ।।९९।। म. टी. वर्णेत्यादि - अष्टविधश्लेष उक्तस्तदुदाहरणानि यथा-कलावर्येत्यादि । तत्र कलावर्यः कलाभिर्वर्यः । पक्षे कलौ अर्यः स्वामी कलावर्यः । अयं आकारेकारवर्णश्लेषरूपः प्रथमो भङ्ग १ । स्वर्गलाभविभाशोभी-अत्र स्वर्गस्य लाभ: स्वर्गलाभस्तस्य विभा तया शोभी । पक्षे सुष्ठु अर्गला, तद्वदाभा यस्य स स्वर्गलाभस्तस्य या विभा तया शोभी । अयं पदभङ्गश्लेषात्मको द्वितीय भङ्गः २। ब्राह्याः कैरवराजिनी तनुर्ने । तनुः कथम्भूता ? करववद्वाजिनी । स्त्रीलिङ्गे प्रथमैकवचनं । नेत्रे कथम्भूते? करववद् राजिनी । नपुंसकलिङ्गे प्रथमा द्विवचनं । अयं लिङ्गश्लेषरूपस्तृतीयभङ्गः ३ । हरउमे सुरमणो-हे उमे ! हे पार्वती हरः सुरमण: सुभर्ता । इदं संस्कृतभाषया प्राकृतभाषया च हरउ हरतु, मे मम, हे सुर हे देव । मणो मनः, इत्यत्र भवानित्यध्याहार्यम् । अयं संस्कृतप्राकृतभाषाश्लेषात्मकश्चतुर्थो भङ्गः ४ । दारिद्यकृद्रिपो (अ?) मित्रे-रिपो शत्री, दारिद्य करोतीत्येवंशीलः । पक्षे मित्रे सुहृदि दारिद्य किंततीत्येवंशील: अयं कृकृत् प्रकृतिश्लेषरूपः पञ्चमो भङ्गः ५ । गौरीभूतगुणोपेतः उज्जवलीभूतगुणयुक्तः । पक्षे गौरी पार्वती, भूतश्च तयोर्गुणास्तरुपैतः । अयं ईच्चि प्रत्ययश्लेषात्मको षष्ठो भङ्गः ६ । त्वमवारचयश्चक्रे-त्वमित्यव्ययत्वात् त्वया, अत्र शकटे, अरचयः अरकाणां समूहश्चक्रे । पक्षे त्वमत्र चक्रे सैन्ये, अरचयः अकरोः । निवासमिति गम्यम् । अयं स्यादिश्लेषरूपः सप्तमो भङ्गः ७ । विलसद्यानः विलसन्मानो यस्य स विलसमानः । पक्षे बिलसमानः सर्पाः । अयं बढेकवचनश्लेषात्मकोऽष्टमो भङ्गः ८ । इत्युक्तः सप्रपञ्चः श्लेषप्रपञ्चः ॥छ।। का.क. यमकोपायमाह
समानस्वरवर्णानुप्रासतः श्लेषतस्तथा ।
स्याद्वर्णपदपादा नामावृत्त्या यमकं द्रुतम् ।।१०।। अनुप्रासश्लेषोपायाः पूर्वोक्ता एव ।
हेलाविडम्बितहिरण्मयरत्नशृङगाः शृङगारभासुररुचः सहचारिकान्ताः । कान्तारभूवसतयोऽत्र चरन्ति सारं सारङगचञ्चतदृशो मरुतां महेला : ।। भवति वृद्धिकृते कमलागमो जिनमतो न मतो नमतो मम । न रतिदामरभूरुहकामधुक् सुरमणीरमणीरमणीयता ।। वनस्यान्तर्लसत्यत्र रतिभूतरुचारुणः ।।
__ स्त्रीसखो रत्नरतिभूतरुचारुणः ।। वक्रोक्तिविरोधाभासप्रश्नोत्तरभेदपुनरुक्ताभासा अपि श्लेषसाध्याः । यथा
तरणि पश्य सुश्रोणि नाथ ! कुत्रास्ति नौरिह । सवितारं प्रिये वच्मि प्रिय ! दूरेऽधुना पिता ।। भात्येष मेरुरुचिरोऽपि नमेरुशोभी कृत्स्नामिलामणि वहन्ननिलाभिरामः । सव्यालवालमपि चन्दनपादपानां नव्यालवालमभितो वहते समूहम् ।। मूर्ना वहन्ति के कुम्भौ मुग्धा श्लिष्टा ब्रवीति किम् । क्रियते कुञ्जरास्यस्य किमु सम्बोधनं बुधैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org