________________
काव्यकल्पलतावृत्तिः
१५१
इ औ ङौ इकार-औकारौ सप्तम्येकवचनेन शिलष्टौ भवतः । यथा-सदाशनौ रतः ।
क्लीबवृत्तित्वे ई इवत् ईकारान्ताः क्लीषविशेषणत्वेन इकारान्ताः क्रियन्ते । तत इवत् सर्वस्वरैः श्लेषः । ईकारोकारेण यथा-स्वीकृतपटौ मित्रे प्रीताः । शब्दा यथा-तनी अपटी कटी वटी सदावटी तरी चरी कारी चारी वारी दारी । ऊकारेण तनी तन भीभू प्रभृतयः ।
तद्धिया ऊ उ । तस्य ईकारस्य धीस्तद्धिस्तथा ऊकारान्ताः क्लीषविशेषणत्वेन उकारान्ताः क्रियन्ते । तत उविधिना सर्वस्वरैः श्लेषः । उकारान्त-ऊकारान्तौ विप्रत्ययेन वा श्लिष्टौ । तनु तन कद्र कद्रू प्रभतयः ।
___ अम्प्रयोगादनुस्वारः द्वितीयैकवचनेनानुस्वारः श्लेष्यो भवति । यथा-अधिकं बलं वहन्, रुचिराङ्गणश्रियं बिभ्रत्, पुरो गाङ्गेयरुचि दधत् ।
विसर्गः श्रीससैः पुरः ९३॥ श्रीस्थितिप्रायः पदैः पूरस्थैविसर्गश्लेषो भवति । यथा-परागश्रीः, महस्थितिः । स्यादि-त्यादिविभक्तिश्लेषो, भाषाश्लेषः, प्रकृतिश्लेषोऽपि भङ्गश्लेषोपायेन साध्यः । विभक्तिश्लेषो यथा-भवतिरोहितः । पक्षे-भवेन तिरोहितः । स्यादिपक्षे विभक्तीनामलोपः समासेन लोपो वा क्रियते । भवतः । स्यादिपक्षे तव शिवतो वा । एवं सर्वत्र ज्ञेयम् । भवन्तिरोहिताः । भवसिततश्रीः । भवामिततश्रीः । भवावस्थित्या भवामस्थित्या । राजतिरोहितेत्यादयः । भाषाश्लेषो यथा-किम्पि केवलं पुरवञ्चनं कलिनाधोकधम् । अथै क्ये भाषाश्लेषे समसंस्कृतप्राकृतादिशब्दाः प्राकृतलक्षणेन ज्ञेयाः । यथा-सुरभयहरिणनरकुलेत्यादयः ।
प्रकृतिश्लेषो महःस्थित्यादयः । एवमष्टविधोऽपि श्लेषः प्रपञ्चितः । श्लेषभेदा यथा
वर्णपदलिङ गभाषा प्रकृतिप्रत्ययैस्तथा । विभक्तिवचनाभ्यां च श्लेषः सञ्जायतेऽष्टधा ।।९४।। कलावोऽत्र भङ गोऽभूदाकारेकारवर्णयोः । स्वर्गलाभविभाशोभी पदभङ्गसमुद्भवः ।।९।। लिङ्गश्लेषे तनुर्नेबे ब्राह म्याः कैरवराजिनी । हरउमे सूरमणौ संस्कृतप्राकृतोदभवः ।।१६।। दारिद्यकृद्रिपौ मित्रे कृकृत्प्रकृतिभङ्गतः । गौरीभूतगुणोपेत ईच्चिप्रत्ययभङ्गभूः ।।९७॥ त्वमत्रारचयश्चक्रे त्यादिस्यादिविभक्तिजः । बिलसमान इत्यत्र बह वेकवचनोद्भवः ॥९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org