SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५० काव्यकल्पलतावृत्तिः म.टी. वाद्यरिति व आदिर्येषां ते वाद्या, घोषवन्तश्च ते वाद्याश्च घोषवद्वाद्यः; सेप्टा: सिदृष्टाः सिदष्टाश्च ते घोषवद्वाद्याश्च ते, तथा तः सि दृष्टर्घोषवद्वाधैः शब्दरित्यर्थः । सिपुरो कोषवद्वाद्यैरिति पाठे य सेरग्रे, घोषवद्वाद्यैरित्यर्थः । अत्र 'न सन्धिरिति सूत्रेण (ई. व्या. 1. 3.52) संहिताया अभावने विरामविवक्षणाद्विसर्गे एव यथा न गोवर्य श्री:अत्र नगः पर्वतः वर्यश्रीर्मनोक्षज्ञश्रीः । पक्षे गोवर्य श्री स्तीत्यर्थः कृ उच्चक्रोधनवत् स्थितिरित्यत्र उच्चकः धनवती स्थितिर्यस्य स तथा । पक्षे उच्चा क्रोधनवती स्थितिर्यस्य स तथा कोलसल्लक्ष्मीरित्यत्र कः लसल्लक्ष्मीर्यस्य स तथा। पक्षे कोलोवराहस्तेन सल्लक्ष्मीर्यस्य स तथा पोगण्ड इति प: पवनः; गण्डो गल्लः । पक्षे पोगण्डो विकलाङ्ग इत्यादि स्वयमूह्यम् ।सदारा आटोप इत्यत्र सदा निरन्तरं, अरौ शत्रौ, आटोपः । यलोपपक्षे रैद्रव्यं, शेषं पूर्ववत् । तथा सदा शनै रत इत्यत्र सदा शनौ ग्रहेऽथवाऽशनौ वजे, रतो रक्त: ऊकारपक्षे शसयोरैक्यात म कंश्चिज्जनः नाविबोडायां रतो नौ रात इत्यादि सुगमम् ।।छ।। का. क. गौणत्वे आ अवत् आकारान्ताः शब्दा: पूर्वमन्यविशेषणत्वेन अकारान्ताः क्रियन्ते, पश्चादकारविधिना सर्वस्वरैः श्लेषः । इकारेण यथा-पुरे प्रचुरशाले रम्यता शरत्केदारस्येब । शालापक्षे सप्तमी । शालिपक्षे पञ्चमी षष्ठी वा । शब्दा यथा-शाला सन्धा विनता प्रहला हेला बहुलाला परमहाला महाशाला मुक्ता कान्ता कला इत्यादयः । ईकारेण यथा-घटा बहुलाला परमहाला सुरुचिरज्वाला परमहाशाला इत्यादयः । बहुलालीभूतः । उकारेण यथा-मन्या सूना कम्बा वल्गा त्रपा अम्बा मृगया आदयः । तत्रपोरम्यः । ऊकारेण यथा-भा प्रतिभा अधिभा, पूनर्भा कच्छादयः । अतिभोरम्यः प्रचार।: स्ववृत्त्यधिकवृन्दस्य । विना आमि ओसि स्वरे इ ई । इकार-ईकारी चि प्रत्ययेन तथा आम ओसभ्या तथा स्वरैश्च श्लिष्टौ भवतः । यथा-सदावलीभूतः सदावलीनां सदावल्लयोः सदावल्लनुगतादय: । इकार-उकारौ सप्तम्येकवचनेन श्लिष्टौ भवतः । यथा-विधी प्रीतिः । शब्दा यथा-अणि हेति कटि तरि सदारि शरारि उच्चारि सदाद्रि प्रभूतयः । क्लीबवृत्तित्वे इऊ उविधिना तथा ।।९१।। इकार-ऊकारौ यदा क्लीबे तदा ऊकारान्ता: क्लीषविशेषणत्वेन उकारान्ताः क्रियन्ते, तत उविधिना श्लेषः यथा-वैधापि विशदवधौ कुले । इए ङसिङसो रेफे इकार-एकारौ पञ्चमीषष्ठ्येकवचनेन पूरस्थरेफादिरम्यप्रमुखशब्दैः श्लिष्टौ भवतः । यथा-सदासेरम्यः । एकारान्तशब्दानामभावात्सेशब्द: कल्पितः । सह इनावर्तते इति सेः, सकामः पुरुषः इत्यर्थः । सदासेरभसाटोपः । ङौ यवलोपिस्वरे इऐ । एकार-ऐकारौ सप्तम्येकवचनेन यवलोपिस्वरे श्लिष्टौ भवतः । यथा-सदारा आटोपः । अरि रैः । सम्बोधनसियोगेन यवलोपिस्वरे इओ ।।९२।। इकार-ओकारौ सम्बोधनप्रथमैकवचनेन यवलोपिस्वरे श्लिष्टौ भवतः । यथा--कट इह । कटि कट ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy