________________
काव्यकल्पलतावृत्तिः
१४९
म.टी. मागधेति । मागधो मङ्गलपाठकः । पक्षे मागधी पिप्पलि सदानिभेति-सदा निरन्तरं अतिभो बहशोभः शङ्ग प्रसिद्धं। पक्षे शङ्गी वृथा या वषभे स्वर्णमीनविशेषयोरिति ॥छ।।
पटकटेत्यादि-एते शब्दा अदन्ता लिखिताः। पुनः पटुकटुरं। तु इत्यादिरीत्या उदन्ता अपि ज्ञेयाः । तत्र पटुः पटिष्ठः, कन्दुः स्वेदनिका, ओतुर्मार्जारः । अदन्तपक्षे आ सामस्त्येन, उतं प्रोतमित्यर्थः । त' कर्त्तनसाधनं त्राक इति प्रसिद्धम् । मयु: तुरङ्गमुखः । अदन्तपक्षे मय: उष्ट्रः। सदोडुः सदा नक्षत्रं । अदन्तपक्षे डलयोरैक्यात् सदोलः । सह दोलया वर्तते यः स सदोलः सदाकारः । पक्षे सदा निरन्तरम् । कारुः परपक्षे परुः पर्वसूनं पुष्पम् । प्रभः प्रकृष्टकान्तिः । पक्षे सुनुप्रभशब्दौ प्रसिद्धार्थी । जरायः जरासमागमः । पक्षे जरायुर्गर्भाशयः । अवटो गर्ता पक्षे अवटुः । कृकाटिका अन्धः : पक्षे अन्धुः कृपः । शेषं सुगमम् ॥छ।। का.क.
अऊ उवत् कृतक्लीबविशेषणतया तु ऊ ॥८९।। यथा-अकारान्ताः, उकारान्तास्तथा ऊकारान्ताः पूर्व क्लीबविशेषणत्वेन उकारान्ता: क्रियन्ते, तत उकारविधिना श्लेषः । यथा-अतिवधोरम्यतरः प्रकारः क्रूरान्तरारिषु स्वसमानो मुनिमण्डलस्य । ऊकारान्तपक्षे अतिक्रान्ता वधूर्येन मुनिमण्डलेन तिदतिवधु, तस्याऽतिवधोः । शब्दा अकारान्ता उकारान्ता यथा-अगम अलाव यवाग परमन्द अधिभ प्रति पुनर्भू इत्यादयः ।
अए ङो ___अकार-एकारौ सप्तम्येकवचनेन श्लिष्टौ भवतः । एकारान्त शब्दानामबाहुल्यादेकारसहितपूर्वाक्षरा: शब्दा अर्थे मिलति ग्राह्याः । यथा-अधिकेवलिसंस्थितिः । परहेरम्बसल्लक्ष्मीः। अकारान्तपक्षे सप्तमी। शब्दा यथा-भेक केवली केलि केतु केश केशव केदार केसर क्रमेलक आदयः ।
दृष्टरेफेण भिसा गौणतया अऐ । अकार-ऐकारौ ततीयाबह वचनेन पुरःस्थसमासरेफादिशब्दैः श्लिष्टौ भवतः । यथा-सदासन्नरैरम्यः । ऐकारान्ता नामप्यबाहुल्यादैकारसहितपूर्वाक्षराणामकाराग्रस्थरेफाणां शब्दानामर्थे मिलति ग्रहणम् । यथा-कैरवभैरवादयः । सिदृष्टघोषवद्वाद्यैर्न सन्धिः, संहितायां अभावेन विरामविवक्षणाद्विसर्ग एव ।
अ ओ अकार-ओकारी प्रथमैकवचनाग्रस्थघोषवत्पूर्वाक्षरवर्यादिशब्दैः श्लिष्टौ भवतः । यथा-नगोवर्यश्री: । अकारान्तपक्षे सि: । ओकारान्तानामप्यबाहुल्यादोकारसहितपूर्वाक्षराणां ओकाराने अकारघोषवद्भ्यां युक्तानां शब्दानां ग्रहणम्। यथा-कोरक गोलक चोलक नयोधस्थितिरित्यादौ उकाराने अकारः । कोयष्टिः कोदण्ड: कोद्रवः उच्चक्रोधनवत्स्थितिकोलसल्लक्ष्मी: पोगण्ड गोधन इत्यादौ ओकाराने घोषवन्तः । पुरोगोद्योतः, अधिकोपगतः इत्यादौ जसिः । पक्षद्वयेऽपि समास उद्योताद्यः ।
उलीलया अऔ ॥१०॥
अकारान्ता औकारान्ता यदा ते, तदा औकारान्ताः पूर्व क्लीषविशेषणत्वेन उकारान्ताः क्रियन्ते, तत उविधिना श्लेषः । यथा-अत्यासन्नो रुचिरः स्वतुल्यः कुलस्योदयः । औपक्षे अतिक्रान्ता आ सामस्त्येन सत् नौर्येन कुलेन अत्यासन् नु, तस्यात्यासनोः । एवं द्यौः । एवमन्येऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org