________________
काव्यकल्पलतावृत्तिः
१४७
चाजादानाभारालाहाक्षा एषां चाकारान्तादिशब्दानामग्रे तृतीयैकवचनेन श्लेषः । सदालञ्चयान्वितः । सदारु जयान्वितः पुरोगदयान्वितः । बहुधानयान्वितः । सदादेशनयान्वितः । सदारम्भयान्वितः । बहुधारयान्वितः । स्फुटमहेलयान्वितः । अथ बाह्याद्यः । बाहाशब्दो भुजवाची आकारान्तः । सत्वरक्षयान्वित इत्यादि।
सनकारान्तैः शब्दैः सिसाधितैः पुंस्त्वनियुक्तैः ।
अग्रे क्रियाविशेषणकृतावमुखशब्दतोऽद्भुतं भवति ।।८६।। महःप्रमखसान्तशब्दैः सदमनप्रमखनान्तशब्दरग्रस्थक्रियाविशेषणस्थवरबलवाहिताद्यवमुखपदयुक्तः अग्रे पूल्लिङगे त्रिभिर्वचनैरद्भुतं भवति । यथा परमहावरम् । बिलसद्मावाहितप्रसरम् । अस्यार्थो 'विवया' इति सूत्रे प्राक् सनान्तप्रस्तावात् सविस्तरः प्रोक्तः ।
दीर्घादिनान्तशब्दैः स्त्रियां द्वितीयैकवचनकृत रचनैः ।
अर्थे मिलति च ‘सान्तैः षष्ठीबहुवचनतोऽद्भुतं भवति ।।८७।। दीर्घादिनान्तशल्दैः स्त्रियां प्रतीचैकवचनेन साधितैरग्रतः स्थिति विभ्रदित्यादिपदस्य ।
तथा सकारान्तशब्दैर्व्यञ्जनान्तरकारान्तैश्च द्वितीयैकत्वषष्ठीबहुत्वयोः साम्यम् । यथा--सरसा स्थिति वहन्, परमहसां स्थिति बिभ्राणः ।
तथा श्लेषविशेषणे पसि स्त्रियां च व्यञ्जनान्तानां शब्दानामग्रे जस्शसङसिडन्सां साम्यम् । रेफनिमित्ते ओसोरपि साम्यम् । यथा गणमतोरयात् । जसशसौ मुक्त्वा क्लीबेऽपि यथा-शुभवाचो रसात् ।
तथा-धृत् भृत् वद्रूपा ये अकारान्ता व्यञ्जनान्ताश्च शब्दास्तेषां पुरतः सेरपि साम्यम् । यथा--गुणभृतो रयात् । अकारान्तपक्षे सिः, श्लेषविशेषणे स्त्रियाम् । म.टी. निखिलविभवेनेति--निखिलः समस्तः। पक्षेऽखिलं हलादिभिरकृष्टं क्षेत्रादि। अधिकेति-अधिक पीना: अधिकपीना विद्यन्ते यत्र तदधिकपानि । पक्षे अधि सामस्त्येन कपयो वानरा येषु तानि। विशदेदि । विशदाश्चहीनाश्च विद्यन्ते यत्र तविशदं । हीतिपक्षे विशन्तः हयो येष तानि विशदहीनि। परमेति परमहासो येषां ते परमहासाः, परमहासाश्च ते मीनाश्च परमहासमीना, स्ते विद्यन्ते यत्र तत् परमहासमीनि । पक्षे पराः प्रकृष्टाः शसयोरैक्यात् महाशम्यो वृक्षविशेषा विद्यन्ते येष तानि परमहासमीनि । परमखगानीति–परः प्रकृष्टो, यो मखो यज्ञस्तस्य गानं विद्यते यत्र तत परमखगानि । पक्षे खगाः पक्षिणः, सुसम्पन्नदानीति । अत्र सुसम्पन्नदानं यस्य तत् सुसम्पन्नदानि । पक्षे सुसम्पदो न दायेषु तानि सुसम्पन्नदानि ।।छ।।
परमहावरमिति-परमहावरं । सूर्य इव, वधवराविव श्रीमन्तः इति विशेषणविशेष्ययोजना । अत्र प्रथमाया एकवचने महसूशब्दः सन्तस्तेजोवाची, द्वित्वे बहुत्वे च महशब्द उत्सववाची । अदन्तः । अत्रैकत्वबहुत्वपक्षे बरमिति क्रियाविशेषणं, द्वित्वपक्षे च अरं अत्यर्थमिति क्रियाविशेषणं। तथा विलसद्मा वाहितप्रसरं । धनिनाविव धनिन इव फणी। अत्रैकत्वे बिलमेव सद्म यस्य स तथा। द्वित्वे बहुत्वे च विलसन्त्यो। मा लक्ष्म्यौ ययोर्येषां वातौ ते वा तथेति विग्रहः । एकत्वबहत्वपक्षे वाहितप्रसरमिति क्रियाविशेषणम् । द्वित्वपक्षे आहितप्रसरमिति क्रियाविशेषणं ज्ञेयम् ।।छ।।
आकारान्ताद्धोषवति निमित्ते सिजस्शसां पुंस्याकारान्तात् सिजस्टानां पुंस्यकारान्ताज्जस: साम्यम् । यथा-- सोमपा जगति । पुपक्षे आकारान्तः । अकारान्तोऽपि जस्विषयः । अकारान्तविशेषणात् पुंस्त्रियोर्जसः, स्त्रियाँ शसः, तथा घोषवतिनिमित्ते स्त्रियां सेरपि साम्यम् । यथा-धृतगुणा जगति । पुंस्यकारान्तादाकारादौ स्वरे सिड्योः साम्यम् । यथा-वृक्ष आस्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org