________________
१४६
काव्यकल्पलतावृत्तिः
हृद्यावलिविलासेन मध्यश्रीरिव योषितः ।
कपोलाविव नागस्य श्रियं गाते भवद्भुजौ ।। गाङ श्यङ गतौ । तथा वनप्रदेशाविव शोभित! वेणीविलासेन स्त्री । बनपक्षे एणीशब्दः । स्त्रीपक्षे वेणीशब्दः । प्रावण्मासाविव शोभिताविचकिलमालया स्त्री । राजप्रदेशे हट्ट श्रेणीव शोभितावस्रमालाभिर्भटौ। शोभित राजित मण्डित धोतित इत्यादि, एषामग्रे वनमालिविनायकवदनादिशब्दाः पूर्व लिखिताः योज्याः ।
स्त्रियामीकारान्तशब्दैः प्रथमाबहुत्वसाधितैरर्थे मिलति एकत्वबहुत्वयोः साम्यम् । यथा-पाल्य: कदल्यः वल्लयः मालिन्य : राज्य: सुशोभनार्यः सुशोभनबाल्यः अधिकदर्यः सख्य: मस्यः सत्य: विदितवेद्यः विशदवलभ्यः वार्यः सदर्यः दास्यः सम्पन्नवारुण्य इत्यादि । यथा-वनमिवोल्लासितश्रीकवयो नपसभाप्रदेशाः । नपंसके एकवचनम् । पंसि बहवचनम् । वैश्वानरा इब तेजोऽनगतरुचिरवयो गात्रम् । अश्वकुलमिब यः शोभिततरः । प्रबलतमाः सेनाः प्रदोषवत् ।
म. टी. त्वं कथम्भूतं ? निहतजटायुः । अत्र जटायुः शब्दः सान्तस्तेन नपुंसकलिङ्गे प्रथमाया एकवचनेनेष्टरूपसिद्धिः । पुनः स्कन्धौ कथम्भूतौ ? निहतजटायू । विद्या: कयम्भूता ? निहतजटायूः । अत्र जटायुशब्द उकारान्तः । इतीति कि ? हे स्कन्धौ, हे विद्या, हे स्वः,? युवां, यूयं त्वं च, प्रभवतं प्रभवत् प्रभव । अत्र उदितं म दितं तमिति प्रसिद्ध यथासम्भवं क्रियाविशेषत्वेन योज्यं । किं कर्तुं ? कर्तुं कं ? कर्मतापन्न रणम् ।। छ।।
अवसुखैरिति-वो मुखे येषां ते च सुखा नवसुखा अवसुखा ।
एणी अस्त्रमित्यादि रीत्या वेण्यादिशब्दा ओसाधितराजितादिपदानामग्रे प्रयोज्याः। यथा--यथा-प्रावृण्मासा शोभिताविव किल । मालया स्त्री। अत्र विचकिलशब्देन मल्लिकापूष्पं, तस्य माला, तया शोभिता । काविव ? प्रावण्मासाविव । तौ कथम्भूतौ ? शोभितौ । कया इव ? मालया इव । किलः कर्दमस्तस्य माला श्रेणिस्तयेत्यर्थः । राजाप्रदेशेति--भटपक्षे अस्त्रमालाभिः शस्त्रमालाभिः राजप्रदेशहदश्रेणिः ।
पक्षे वस्त्रमालाभिरिति । पाल्य इति असौ पाल्यः पालनयोग्यः । पक्षे पालीकल्पो नीरोगः, पक्षे कली। एवं सर्वेऽपि शब्दा ज्ञेयाः । वनमिवोल्लासितश्रीकवय इति राजसभाप्रदेशाः । कथम्भूता: ? उल्लासिता दीप्ता, श्रीर्येषां ते तथा; उल्लासितश्रियः कवयो येषु ते तथा । वनपक्षे सश्रीकानि वयांसि पक्षिणो यत्र तत्तथा । वैश्वानरा इवेति । गात्रं कथम्भूतं ? तेजसा अनुगतं अनुज्ञातं रुचिरं वयो यत्र तत्तथा । अग्नयः कथम्भूताः ? तेजसा अनुगतोऽनुकृतो, रुचियुक्तो रविर्यस्ते तथा । अश्वकुलमिवेति-यः कथम्भूत: ? अतिशयेन शोभितः शोभिततरः । अश्वकुलं कथम्भूतं ? शोभितं तरो वेगो यस्य तत्तथा । प्रबलेति-सेनाः कथम्भूताः ? अतिशयेन प्रबलाः प्रबलतराः । प्रदोषः कथम्भूतः ? प्रबलं तमो यत्र स तथा । एतदुदाहरणद्वये पुंस्येकत्वं स्त्रियां बहुत्वमित्यनुक्तीऽपि विशेषो ज्ञेयः ।।छ।।
का.क. शोभितादिशब्दानामग्रे निपातनिदाघनिकेतननिचितादिशब्दाः स्थाप्याः । स्त्रीलिङगे एकवचनेन स्त्रीपुंनपुंसकलिङगेषु बहुवचनेन साम्यं भवति। स्यात् यथा--शोभिता निखिलविभवेन, मण्डिता निचितदानेन, राजिता निकेतनैः इत्यादि। शोभिता राजिता खण्डिता मण्डित द्योतितादिशब्दानामग्रे प्रयोज्याः शब्दा यथा--निखिल निधन निरय निदान निधान निपीन निदाघ नियति निकुञ्ज निलय निःश्रेणि निवसन निचित निशान्त।
ईकारोपधाकारोपधनकारान्ता: पीनहीनादिगानमानादयः शब्दा इकारान्ता: क्रियन्ते । नपुंसकलिङगे एकत्वबहुत्वयोः साम्यं भवति । यथा--अधिकपीनि बनानीव कूलम । विशदहीनि बिलानीव कुलम् । परमहासमीनि वनानीव समुद्रजलम् । तथा परमखगानि वनानीव विप्रकुलम् । स्वच्छगानि बहुवर्णनागानि पुरोगानि परमध्यानि सुसम्पन्नदानि परमदानि बहुधानादानि मञ्जुलयानि पीन हीन मीन पाठीन शालीन अध्वनीन ईशान प्रस्थान इत्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org