________________
काव्यकल्पलतावृत्तिः
पुरोगच्छद् अनः शकटं यस्य स तथा । पक्षे पुरोगानि छदनानि पत्राणि येषां ते तथा । तथा कृतकदना:-कृतं कुत्सितं, अनः शकटं, येन स तथा । पक्षे कृतं कदनं हननं यैस्ते तथा । इत्यादि स्वयमा ।
बिलसमा इति-बिलसमा नागवर्ग इव पुण्यपुरुषाः विलसन्ती-मा लक्ष्मीर्येषां ते तथा । पक्षे बवयोरक्यात्, बिलमेव सद्य यस्य स तथा । तथा अनुल्लंधितसीमा जलधिरिव सत्पुरुषाः । अनुल्लङिघता सीमा यैस्ते तथा । अत्र सीमाशब्दो आकारान्तः । पक्षे अनुल्लंधिता सीमा येन स तथा । अत्र सीमन् शब्दोऽनंतः । परमेति-परमहावसिष्ठेन राघवा इव दुर्जनाविव । सप्तर्षिगण:' कथम्भूतः ? परमहाः परं महस्तेजो यस्य स तथा । केन? वसिष्ठेन ऋषिणा। राघवाः कथम्भूताः ? परमहा: ? परा: प्रकृष्टाः, महा उत्सवा येषां ते तथा । केन? वसिष्ठेन ऋषिणा। दुर्जनौ कथम्भृतौ ? परमही परः प्रकृष्टो, मह उत्सवो ययोस्तौ तथा । केन ? अशिष्टेनाशुभकर्मणेत्यर्थः । परमहावासवेनेति भाद्रपदसितपञ्चमी दिवसः । कथम्भूतः परमहाः ? परः प्रकृष्टो, मह उत्सवो यस्मिन् स तथा । केन ? वासवेनेन्द्रेण । तथा च इन्द्रमहोत्सववानित्यर्थः । गीर्वाणा: कथम्भूताः ? परमहाः । महशब्दस्याकारान्तत्वात् परो महस्तेजो येषां ते तथा । केन ? वासवेन । बलदेववलभीनाथौ कथम्भूतौ ? परमहौ । परः प्रकृष्टो, मह उत्सवो, ययोस्तौ तथा । केनात्र? आसवेन मधेन । तथा परमहावर्जनात् पापानामिति । गाङ्गेयः कथम्भूत: ? परः प्रकृष्टो, मह उत्सवो, यस्य । पाण्डवानां स तथा । कस्मात् ? वर्जनात् । पाण्डवाः कथम्भूता: ? परमहाः। परः प्रकृष्टो, महस्तेजो, येषां ते तथा। कस्मातश्वेर्जनात् । केषां ? पापानां । शकुनिदुर्योधनौ कथम्भूतौ ? परमत्यर्थ, अहौ--न विद्यते हो हर्षों ययोस्तौ। तथा च विषादवन्तावित्यर्थः । पापानामर्जनान्नरकगामित्वेनेति भावः । का.क. सस्वरनिस्वर इति । ये शब्दा : सस्वरा निस्वराश्च भवन्ति तैः प्रथमैकत्वबहुत्वयोः साम्यम् । यथा--द्वार राज् भ्राज् पझकेरुह, ईदश् कीदश् । काव्यं यथा--
लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयसद्वाराः सारगुणालयस्त्रिभुवनस्तुत्याङिघ्रपङ केरुहः । शश्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा
आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ।। नान्तानां शब्दानामग्रे विशेषणतया प्रथमाबहुत्वैकत्वयोः साम्यम् । यथा--विलसद्मान: कायस्थामान इति । तथा सान्तानामप्यर्थे मिलति । यथा-बह वाश्रितसरसः सुकविप्रबन्ध इव ग्रीष्मपान्थाः ।
तृप्रत्ययान्ता इति--तृन्त॒न्प्रत्ययान्तानां शब्दानामग्रे प्रथमैकत्वबहुत्वयोः साम्यम् । शब्दा यथा-सुसम्पन्नयोद्धारः सैन्यनिवेशा इव देशाधिपतिः । सम्पन्नवोद्धारः, सर्वदातारः, बहुधातारः, सज्जपातारः, मृगयातारः, इत्यादि ।
धातुचतुर्थंकवच इति । धातोरेग्रे चतुर्थी यस्तनीविभक्तेरेकवचनं, तदने नकारादयो मकारादयो वा लकारादयो वा शब्दा : प्रयुज्यन्ते, एकत्वबहुत्वयोः क्रिया भवन्ति । यथा-अभवन्नितान्तं, अराजन् महान्, व्यचरल्लीलया ।।
न्युपसर्गशब्दपृष्ठगराजीतुल्यैविशेषणक्षिप्तैः ।
अन्ते क्रियाविशेषणसारैः काव्यं महाद्भुतं भवति ॥८४।। न्युपसर्गा:--निहत निमग्न निरुद्ध इत्यादिका शब्दाः, तेषां पृष्ठस्थितै: राजिराजी, धूलिधुली, पालिपाली इत्यादिशब्दरन्तेऽपि निकामं नितान्तमित्यादिक्रियाविशेषणसारैः स्त्रीलिङगे प्रथमैकवचनेन, पुल्लिङगे प्रथमाद्विवचनने, नपंसकलिङगे प्रथमाबहुवचनेन महाद्भुतं काव्यं भवति ।
१. "परमहा----साप्तर्षिगण" इदं वतौ नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org