SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४२ काव्यकल्पलतावृत्तिः प्रभावराजिनी रागोल्लासप्रध्वंसिनी रयात्।। गीजिनस्य पदाब्जे च कुरुतां सुखसम्पदः ॥१॥ व्याख्या। जिनस्य तीर्थकृतो, गीर्वाणी, सुखसम्पदः, कुरुतां । ददताङ्गीः कथम्भूता ? प्रभावराजिनी प्रभावेन राजते इत्येवंशीला प्रभावराजिनी । अत्र स्त्रीलिङ्गे प्रथममैकवचनं सिः, तस्य "दीर्घङयाप व्यञ्जनात् से:” इति-- हे .व्या. १.४.४५] म. टी. प्रथमैकवचनं सि: तस्य "दीघंड यापव्यञ्जनात् स्त:" इति सूत्रेण लोपः । कुरुतामित्यत्र पञ्चम्या आत्मनेपदैकवचनं, तां पुनः। गीः कथम्भूता? रागोल्लासप्रध्वंसिनी। अत्रापि प्रथमैकवचनं सिः । रयात् वेगात द्वितीयव्याख्यानं यथा-- जिनस्य पदाब्जे पदकमले, सुखसम्पदः कुरुतां। कथम्भूते पदाब्जे? प्रभावराजिनी। अत्र नपंसकलिङ्गे प्रथमा द्विवचनं । 'औरी' हे. व्या. १.४.५६] ई आदेशो भवति । कुरुतामित्यत्र पञ्चम्याः परस्मैपदद्विवचनं । तां पुनः पदाब्जे कथम्भूते? रागोल्लासप्रध्वंसिनी। अत्रापि प्रथमा द्विवचनं । और तृतीयः । पक्षे सुखसम्पदः । कथम्भताः ? प्रभावराजिनी। अत्र द्वितीयाबहुवचनं । शस् 'रोरे लुग् दीर्घश्चादिदुत' इति सूत्रेण [हे. व्या. १.४.४२] रलोपे सदृशरूपसिद्धिः । पुनः कथम्भूता: ? रागोल्लासप्रध्वंसिनी: पूर्ववत् । इत्यनया रीत्या सर्वत्राऽभुतमहाद्भुत काव्यादिषु योजना कार्या । विशेषणपरिक्षिप्तैरिति--अत्राद्भुताऽद्भुद्मिति स्थाने प्रत्यन्तरेऽद्भुताद्भुतमिति दृश्यते। परं अद्भुताद्भुतमिति सङ्गच्छते इति । स्मेरपुष्करेति-~-अत्र कृपाणः कथम्भूतः ? स्मेरपुष्कररोचिष्णुः स्मेरं पुष्करं खड्गाग्रं तेन रोचिष्णुः । पुनः हस्तौ कथम्भूतौ ? स्मेरपुष्कररोचिष्णू-स्मरं च तत् पुष्करं कमलं तद्वद् रोचिष्ण: । पुनः कीर्तिः कथम्भता? स्मेरपुष्कररोचिष्णु:--स्मेरं यत् पुष्करं आकाशं, तत्र रोचिष्णुः समस्तमाकाशं व्याप्तवतीत्यर्थः । पुनः श्रियः कथम्भूताः ? स्मेरपुष्कररोचिष्ण:--स्मेरं यत् पुष्करं पनं तत्र रोचिष्णुः इति । एजे जसीत्यादि एते शब्दा जसि प्रथमा बहवचने निष्पन्नाः । एतदुदाहरणानि यथा--शोभितः रवो वनप्रदेशा इव, गायनः शोभितो रवो, यस्य स तथा । पक्षे शोभितास्तरवो यत्र ते तथा । तथा सदारंकुरव:--सदा निरन्तरं, रङकोम गस्य रवः । पक्षे सदा अरं अत्यर्थं कुरवः कुरुदेशाः तथा । भीरवः भीतिरवः । पक्षे भीरब: भीरुकाः तथा । अधिकविभव:--अधिको विभवः सम्पद् यस्य स तथा । पक्षे अधिकाश्च ते विभवः स्वामिनश्चाधिकविभवः तथा । विप्रभव: विप्राद्भवः उत्पन्नः । पक्षे विशेषेण प्रभवः स्वामिनः तथा । आदिशब्दग्रहणात् पश्चादुदाहरणानि यथा--लोलपशवः लोलपः शबः । पक्षे लोला: पशवः तथा । सदालञ्चारव:--सदा निरन्तरं, लञ्चायां रवः । पक्षे सदा अलं अत्यर्थ, चारवो मनोज्ञाः, तथा । बहरुचिरसाधवः-- बह्वी रुचिः कान्तिर्यस्य एवंविधो रसाधवः पृथ्वीपतिः । पक्षे बहवो रुचिरा: साधवः तथा। अधिकन्दवः अधिक यथा स्यात् तथा, दवो दावानल: । पक्षे अधि सामस्त्येन, कन्दवः कान्दविकभाजनविशेषाः । का.क. एवमन्येऽपि तत्प्रतिबद्धाः शब्दा लिख्यन्ते । यथा--शुचि स्थिति रुचि मञ्जु साधु वला चारु पटु इत्याद्याः अग्न्यन्ताः । रेफादयः--रवि रश्मि रय रक्षा रक्षः रसा रजः रहः रज्जु रस रव रमणीय रचित रहित रिपु रिक्त रुचि रुजा रुचिर रोचित रेखा राजीव राजा रोम राग रामा राजी रीति रूप रथी रेवा रोम राम । विवयाः सनान्तसस्वरनिस्वरतृप्रत्ययान्तलीलाभिः । धातुचतुर्थंकवचः पुरस्थनमलैर्दु ताद्भुतं भवति ॥८३।। ये शब्दाः उकारान्ताः इकारान्ताः (च) प्रथमाबहुवचने वान्ता यान्ताः सन्तोऽर्थे मिलन्ति, ते शब्दैरेकत्वबहुत्वयोः साम्यम् । उकारान्ता शब्दा यथा--तरु कुरु भीरु विभु प्रभु इत्यादि । इकारान्ताः शब्दाः यथा-- शचि रुचि राजि नाभि सुरभि इत्यादि । एसे जसि निष्पन्नाः । यथा--शोभितरवो वनप्रदेशा इव गायनः । एवंशब्दा:--सदारङकुरवः, अधिकविभवः, लोलपशवः, सदालङचारवः, बहुरुचिरसाधवः, अधिकंदवः । अथ इकारान्ताः शब्दा:--अनेकपशचयो भूपाला इव देशः । लोपितरुचयः, उच्चक्रोधराजयः, ज्ञातवेदनाभयः, सदासुरभयः, परमतिभयः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy