________________
काव्यकल्पलतावृत्तिः
१४१
॥ ३.४ ॥
अथाद्भुतविधिः का.क.
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।
दृश्यते शब्दसादृश्यमिदमद्भुतमुच्यते ।।८।। णिनन्तैः स्त्रीकृतः शल्दैरौसी क्लीबस्त्रियोः पुनः ।
तैरेव रेफपृष्ठस्थैः स्त्रीकर्मबहुता भवेत् ॥१॥ णिन्प्रत्ययान्ताः शब्दा:--राजिन् भ्राजिन शालिन्-इत्याद्या: 'स्त्रीलिङगेनद्यन्ताः' इति स्त्रीप्रत्ययान्ताः क्रियन्ते, तेषामग्रे रेफादिरागरप्रमुखाः प्रयोज्याः । एवं नपुंसकलिङगे औप्रत्यायन्ताः, स्त्रीलिङगे स्त्रिप्रत्ययान्ताः, तथा स्त्रीलिङगकर्मणि शस्प्रत्ययान्ताः णिनन्ता: शब्दाः भवन्ति । यथा-- प्रभावराजिनीरागोल्लासप्रध्वंसिनी रयात् ।।
गीजिनस्य पदाब्जे वः कुरुतां सुखसम्पदः ।। वाणीविशेषणे सिः स्त्रियां, पदाब्जविशेषणे औ नपुंसके, सुखसम्पद्विशेषणे कर्मणि स्त्रियां शस् ।
विशेषणपरिक्षितैरग्न्यन्तै रेफपृष्ठगैः ।
__ द्विस्थद्विपञ्चमीकर्मस्त्रीबहुत्वेऽद्भुताद्भुतम् ॥२॥ अग्न्यन्तः इकारान्तरुकारान्तः स्थितिपटुतुल्यविशेषणक्षिप्त रेफपृष्ठस्थ रेफादिरागरवरसमुखशब्दैरद्भुताद्भुतं काव्यं भवति । परं द्विस्थउभयपदधातोरणे द्विपञ्चमीपञ्चम्याः परस्मैपदद्विवचनान्ताः आत्मनेपदैकवचनान्ताः--कुरुतां तनुतां इत्यादि । एवंविधक्रियायाः कर्मणि स्त्रीलिङगबहत्वयुक्तं विशेषणं क्रियते । यथाभवभेदपटूरागध्वान्तभानुस्थिती रयात् ।
प्रभोर्वचश्चयोऽङघ्री च कुरुतां वः शिवश्रियः ।। वचश्रयस्य विशेषणे पटोः स्थितेश्चाग्रे पुल्लिङगे सिः । अङध्य विशेषणे पुल्लिङगे औः । शिवश्रियः इति कर्मविशेषणे स्त्रीलिङगे शस् ।
तमःस्तोमभिदा चारू रविचन्द्राविवाङिगनाम् ।
स्वतुल्यो जिनवाक्पूरस्तनुतां सुखसम्पदः ।। स्मेरपुष्कररोचिष्णुः राजन्यशतशेखरः ।
कृपाणस्तव हस्तौ च कीर्तिर्वितनुतां श्रियः ।। म. टी. अथाद्भुतविधि विवृण्वन्नाह-यत्र लिङ्गेति-पुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्गानां स्यादिसप्तविभक्तीनां त्यादिदशविभक्तीनां च भेदे अन्तरे महत्यपि यत्र रूपसादृश्यं दृश्यते तदद्भुतं वृत्तमुच्यते । णिनन्तरिति-स्त्रीप्रत्ययान्तीकृतणिनन्तशब्दैनपुंसकलिङ्गे औ, प्रत्ययान्ता क्रियन्ते स्त्री स्त्रीलिङ्गे प्रथमैकवचनसिप्रत्ययान्ताश्च; पूनस्तैः कृतणिनन्तरग्रस्थरेफादिशब्दैः स्त्रीलिने कर्मणि बहत्वं भवतीति ।
नविताना मनस्ति-वक्तवान्ताहतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org