________________
१४०
काव्यकल्पलतावृत्तिः
स तथा । पक्षे सुमञ्जः अतिमनोज्ञो, लवो विलासो, यस्याः एवंविधा सल्लक्ष्मीर्यस्य स तथा । ऊमिमद्वैभवान्वितः सर्पः पुरुषवत् । ऊर्मिमान् वक्रो, वैभवस्तेनान्वितः। पक्षे ऊर्मिमद्वैभवः सप्रकाशवैभवस्तेनान्वित इति । का.क. अथक्रियादिशब्दा:--
उच्चस्तरलसल्लक्ष्मीः सुपीवरवसद्युतिः ।
सम्पन्नव्याप्तलक्ष्मीकः परकोटिश्रिया युतः ।। धामभावौ प्रभावश्च विभावश्च यथोचितम् ।
वर्ण्यस्याकारशस्देभ्यः सम्प्रयोज्या मनीषिभिः ।।७९।।
यथा
स्थूलधाममनोहारी गुरुभावचितस्थितिः । स्थूलप्रभावबद्धश्रीरुच्चैविभवरोचितः ।।
धाम शब्देन देहस्तेजश्च ।
इति श्रीजिनदत्तसूरि० श्लेषसिद्धिप्रत्ताने तृतीये उद्दिष्टवर्णनस्तबकस्तृतीयः ।
म. टी. अथ क्रियादिशब्दोदाहरणानि यथा--उच्चस्तरलसल्लक्ष्मीः प्रतिबिम्बितचन्द्रो व्यवहारिवत् । उच्चरतिशयेन, तरला चञ्चला, लसन्ती लक्ष्मीर्यस्य स तथा । पक्षे उच्चस्तरीव सल्लक्ष्मीर्यस्य स तथा । सुपीवरवसदद्युतिः सूर्यो मेघवत् । अतिपुष्टा वसन्ती द्युर्तिस्य स तथा । पक्षे सुपीवोऽतिपुष्टो, यो रवः शब्दस्तेन सद् द्युतिर्यस्य स तथा । सम्पन्नव्याप्तलक्ष्मीको व्यवहारी चन्द्रवत् । सम्पदा नव्य: सम्पन्नव्यः, आप्ता लक्ष्मीर्येन स आप्तलक्ष्मीकः, पश्चात् पूर्वेण कर्मधारयः । पक्षे सम्पन्ना, व्याप्ता लक्ष्मीर्यस्य स तथा । परकोटिश्रिया युतः पुरुषः कोदण्डवत् । परकोटि: प्रकृष्टोत्कर्षस्तल्लक्ष्म्या युतः । पक्षे परकोटिश्रिया प्रकृष्टाऽग्रभागलक्ष्म्या युतस्तथा ।
धामेति-धामादयः शब्दा आकारशब्देभ्यो मनीषिभिर्योज्या यथा--स्थूलधाममनोहारी पुष्ट: सूर्यवत् । स्थूलदेहमनोज्ञः । पक्षे स्थूलतेजो मनोहरस्तथा । गुरुभावचितस्थितिर्मुनिजैरुर्वा सूर्यवत् । गुरुभावो महाध्यवसायस्तेन चिता स्थितिर्यस्य स तथा । तथा गुरुभावो गुरुत्वं, तेन चिता स्थितिर्यस्य स तथा। पक्षे गुर्वीया भा प्रभा, तस्या आवो वृद्धिस्तेन चिता व्याप्ता, स्थितिर्यस्य स तथा । स्थूलप्रभाववद्धश्रीः शिवः सूर्यवत् । स्थूलप्रभावेन बद्धा, श्रीर्यस्य स तथा । पक्षे स्थूला या प्रभा तया अवबद्धा श्रीर्यस्य स तथा । उच्चैविभावरोचितः शिवः सूर्यवत् । उच्चरत्यर्थं, विभावः प्रभावः, तेन रोचितः । पक्षे विभा प्रभा, तया अवरोचितो व्याप्तः ॥छ।।
इति श्री तपागच्छाधिनायकपातसाहिश्री अकब्बरप्रतिबोधदायक श्री शत्रुञ्जयादितीर्थादि करमक्तिकारक भट्टारकश्री ४ । श्रीहीरविजयसूरीश्वरशिष्यपण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावृत्तिमकरन्दे श्लेषसिद्धिप्रतानगतोद्दिष्टवर्णनस्तबकोद्योतकरत्ततीयः प्रसरः ॥छ।।३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org