________________
काव्यकल्पलतावृत्तिः
अथाधारशब्दा:-- अहो सुरोचितच्छायः स्वकामरचितस्थितिः ।
स्पष्टाम्बरश्रिय बिभ्रत्तारापथकृतस्थितिः ।। स्फुरन्नवनिबद्धथी: सदा भूतलसद्युतिः ।
सदा हि विश्ववल्गुश्रीविलसद्वैभवान्वितः ।। सदासज्जलसल्लक्ष्मीः परमोदकवैभवः ।
कान्तारचितसंस्थानः सदा रामश्रियं वहन् ।
अथाकारशब्दाः
वृत्तलक्ष्मीमनोहारी निस्तुलश्रीमनोरमः ।
अहो गौरवसल्लक्ष्मीरलंवरचितस्थितिः ॥ विश्वविस्तीर्णलक्ष्मीक: सकलाभोगभासुरः ।
सुमजलवसल्लक्ष्मीरूमिमद्वैभवान्वित: ॥ म. टी. अथाधारशब्दोदाहरणानि यथा-अहो सुरोचितच्छाय इन्द्रः सुकृतिवत् । सुरेषु उचिता छाया शोभा, यस्य स तथा । पक्षे सु अतिशयेन, रोचिता राजिता, छाया यस्य स तथा । स्वकामरचितस्थिति: इन्द्रो दुःस्थवत् । स्वका स्वकीया, ये अमरा देवास्तेषु चिता व्याप्ता, स्थितिरवस्थानं यस्य स तथा । पक्षे स्वस्य द्रव्यस्य, कामो वाञ्छा, तेन रचिता स्थितिर्यस्य स तथा । स्पष्टाम्बरश्रियं बिभ्रत् सूर्यः पुरुषवत् । स्पष्टा अम्बरे आकाशे, या श्री शोभा, ताम् । पक्षे स्पष्टां प्रकटां, बरश्रियं प्रकृष्टश्रियं तथा । तारापथकृतस्थितिः सूर्यो रूपवत् । तारापथे आकाशे, कृता स्थितिर्येन स तथा । पक्षे तारापथे कनीनिकामार्गे कृता स्थितिर्येन तत्तथा । स्फुरन्नवनिबद्धश्री: शस्य राशिश्चन्द्रवत् । स्फुरन् दीप्यमानः, तथा अवनौ बद्धा संबद्धा, श्रीर्यस्य स तथा । पक्षे स्फुरन्ती लसन्ती, नवा नवीना, निबद्धा श्रीर्यस्य स तथा । सदाभूतलसद्युतिर्मनुष्यो विश्ववत् । भूतले सद्युतिर्यस्य स तथा । पक्षे भूतानि पञ्चभूतानि, तेषां लसन्ती द्युतिर्यत्र तत्तथा । सदाहिविश्ववल्गश्रीः सर्पः पुरुषवत् । अहिविश्वं पातालं, तत्र बल्गुश्रीमनोज्ञशोभा यस्य स तथा । पक्षे हीति निश्चितं, विश्वा समस्ता, वल्गश्रीर्यस्य स तथा । विलसद्वैभवान्वितः सो व्यवहारिवत् । बिले स्वस्थाने, सन् स्फूरन, वैभवस्तेनान्वितः। पक्षे विलसन दीप्यमानो, यो वैभवस्तेनान्वितस्तथा । सदा सज्जलसल्लक्ष्मी: कमलो व्यवहारिवत्। सज्जले प्रधानजले विद्यमानलक्ष्मीर्यस्य स तथा । पक्षे सज्जा लसन्ती लक्ष्मीर्यस्य स तथा । परमोदकवैभवः कमलो व्यवहारिवत् । परमः प्रकृष्टः, उदके वैभवो यस्य स तथा । पक्षे परेषां मोदकारी वैभवो यस्य स तथा । कान्तारचितसंस्थानो वृक्षः कामिवत् । कान्तारेचने, चितं व्याप्तं, संस्थानं यस्य स तथा । पक्षे कान्तायां रचितं संस्थानं येन स तथा। सदारामश्रियं वहन् वृक्षो व्यवहारिवत् । सती प्रधाना या आरामे वने, श्री: शोभा, ताम्। पक्षे सदा सर्वदा, मनोज्ञश्रियं ।
__अथाकारशब्दोदाहरणानि यथा-वृत्तलक्ष्मीमनोहारी चन्द्रः साधुवत् । वृत्तलक्ष्मीर्वर्तुलश्रीस्तया मनोहारी । पक्षे वत्तलक्ष्मी: शीलश्रीस्तया तथा । निस्तलश्रीमनोरमः चन्द्रो व्यवहारिवत् । निस्तलश्रीहारिवत् निस्तलश्रीवर्तुलश्री, स्तया मनोज्ञः । पक्षे निस्तला अपरिमिता या श्रीस्तया तथा । अहो गौरवसल्लक्ष्मीः आकाशश्चन्द्रवत् । महत्त्वप्रधानलक्ष्मीः । पक्षे गौरा वसन्ती लक्ष्मीर्यस्य स तथा । अलम्बरचितस्थितिमनः पुरुषवत् । अलम्बा अप्रलम्बा, रचितस्थितिर्यस्य स तथा । पक्षे अलमत्यर्थं, वरा प्रधाना, चिता स्थितिर्यस्य स तथा। विश्वविस्तीर्णलक्ष्मीक: कोदण्दो व्यवहारिवत् । विश्वा सर्वा, विस्तीर्णलक्ष्मीर्यस्य स तथा । पक्षे विश्वे जगति, विस्तीर्ण लक्ष्मीः शोभा यस्य स तथा । सकलाभोगभासुरश्चन्द्रः पुरुषवत् । स प्रसिद्धः, कलाभोगः कलाविस्तारस्तेन भासुरः । पक्षे सकलः समस्त, आ सामस्त्येन, भोगस्तेन भासुरः तथा । सुमञ्जुलवसल्लक्ष्मी: चन्द्रो व्यवहारिवत् । सुमञ्जुला अतिमनोज्ञा, वसन्ती लक्ष्मीर्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org