________________
१३८
काव्यकल्पलतावृत्तिः
एते एवंविधा नान्ता अन्येऽपि । यथा--स्पर्शनसूदनरदनकोपनआयतनमदनछदनजयनबन्धनभवनघटनवर्णनसज्जन-इत्यादिशब्देभ्यो नकारं विनाप्यर्थे मिलति, सम्बोधनीकृतेभ्यः परतो गुणशब्दाः प्रयोज्याः । यथा
असौ विभाति वाग्देवीवासनश्वेततान्वितः ।
श्वेतपक्षे नान्तं सम्बोधनम् । द्वितीयपक्षे नकारजितं सम्बोधनम् । एते श्वेतश्यामादिशब्दाः नियतविरुद्धवर्णेकवाचका उक्ताः।
अथैकपक्षे नियतवर्णादिवाचकाः, द्वितीयपक्षे सर्ववस्तुवाचकाः कथ्यन्ते । यथा-श्वेतवर्णवाचकाः शब्दा:सोमतारभवानन्तसुधामोदितशङकराः ।
. भास्वत्कान्तसोमकान्तघनसारसदाधिकाः ।। सोमच्छविमनोहारी । श्वेतपक्षे सोमश्चन्द्रः, तद्वत् । द्वितीयपक्षे सोमा सौम्यरूपा छविः । इदं विशेषणं सर्ववस्तु व्यापी । एवं सर्वशब्देषु ज्ञेयम् । अथ कृष्णवर्णशब्दाः
विश्वरूपाच्युतानन्तश्रीधरः कलभासितः ।
बहुलासिपरपुष्टः सर्वदातिलसद्युतिः । अथरक्तवर्णशब्दा:
नवभास्वत्सुखोद्योतीनालीकाशोकमङगलाः । विभाप्रभातरङगौ च सज्जपावनपावको ।। अथ पीतवर्णशब्दा:जातरूपसदापीतकल्याणमधुरोचिताः । बहुशोभानुवत्तश्री: भास्वत्प्रद्योतनावपि ।।
अभ
म.टी. अति परमविशदादि-शब्दानामधिकारे यथा-सुरुचिरं श्रीर्धवलश्रीरित्यादि । शेषं सुगमम् । स्वकामेति स्वकामादिमशब्दयोरग्रे ता प्रत्ययान्तगणशब्दा द्वितीयैकवचनान्ताः प्रयोज्याः । तथा त्वप्रत्ययान्तपञ्चम्येकवचनान्तगणशब्दानामग्रे कृते शब्दः कार्यः। तदने पुल्लिङ्गे सप्तम्येकवचनान्तं विशेष्यं कार्यम् ह्रस्वो पधशतृतशब्देभ्यः पुरस्थाहितशब्दानां पुरतः द्वितीयैकवचनान्तता, प्रत्ययान्तगुणशब्दा योज्याः । तथा पंचम्येकवचनान्तत्वप्रत्यायन्तगुणशब्दात् पटुनोभृशमित्यादयः शब्दः योज्याः ।
अथ पूर्वपक्षे नियतवर्णादिवाचका, द्वितीयपक्षे सर्ववस्तृवाचकाः शब्दाः कथ्यन्ते । तत्र श्वेतवर्णशब्दोदाहरणं यथा-सदाधिकातिद्योती चन्द्रः सुकृतिवत् । स प्रसिद्धः, दध्न इयं दाधिका दधिसम्बन्धिनी या द्युतिस्तद्वद् द्योती । पक्षे
दा निरन्तरं, अधिकातिद्योती । अथ कृष्णवर्णशब्दोदाहरणं यथा-विश्वरूपश्रियं बिभ्रत् राहुः कामवत् । विश्वरूप कृष्णस्तत्सदृशश्रियम् । पक्षे सर्वरूपश्रियम् । एवं सर्वशब्देषु ज्ञेयम् ।
अथररक्तवर्णशब्दोदाहरणं यथा--नवभास्वत्प्रभाशोभि रक्तोत्पलं सुकृतिवत् । नवभास्वान् बालसूर्यस्तस्य प्रभा तद्वत् शोभि [भी] पक्षे न वा भास्वती मनोज्ञ या प्रभा तया शोभी। एवं सर्वशब्देषु ज्ञेयम् ।
अथ पीतवर्णशब्दोदहारणं यथा--जातरूपश्रिय बिभ्रत मेरुस्तरुणवत् । जातरूपं सुवर्ण, तस्य तद्वद्वा श्रियम् । पक्ष जाता उत्पन्ना या रूपश्रीस्ताम् । अनया रीत्या सर्वत्र ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org