________________
काव्यकल्पलतावृत्तिः
१३७
न वहन् । पक्षे सदा अकिञ्चनतां निर्लोभताम् । एवमनया रीत्या एतत्समानाः शब्दा ज्ञेयाः। तथा सदा ननु भवान्वितः कैलासो मुर्खवत् । नन निश्चितं ईश्वरान्वितः। पक्षेऽननुभवः अज्ञानं तेनान्वितस्तथा । समरभान्वितो व्यवहारी सुभटवत् । समस्तलक्ष्मीयुतः । पक्षे सङग्रामलक्ष्म्यान्वितस्तथा । शुभसम्पन्नवपू राजी रूपवान् नृपवत् । सुन्दरप्राप्तशरीरशोभा । पक्ष वर्यसम्पदा नवायाप्त: पुरी तया शोभीति ॥छ ।।
वपुषा महसांगकेतसमा इति । एतेऽपि च ज्ञेया यथा-वपुषा श्वेततां बिभ्रत राहश्चन्द्रवत् । शरीरेणाश्वेततां । पक्षे श्वेततां । एवं यथासम्भवं विशेष्यविशेषणादिकमग्रेऽपि योज्यं । यथा-महसा श्वेततां, अङ्गकेन श्वेततां, देहे श्वेततां, सदा श्वेततां, राजते श्वेततां, दृश्यते श्वेततामित्यादि स्वयमेव बोध्यं । का.क.
परमविशदस्वदृश्यायोग्यान्तरह घरुच्यहार्याद्याः ।
अपरापिनवनवसन्ना व्याप्तानूनकिञ्चनसमानाः ॥७६।। ननुसमशुभसम्पन्ना वपुषामहसाङगकेन समा: :
देहे सदाप्रभृतयो विराजतेदृश्यते प्रमुखाः ॥७७॥ परमप्रभृतिशब्दानामग्रे वर्णाकारक्रियादिशब्दा यथौचित्यं प्रयोज्याः । यथा-परमस्थूलतायुतः । एकपक्षे परमा प्रकृष्टा, स्थूलता । द्वितीयपक्षे परमतिशयेन, अस्थूलता । विशदश्वेतताशाली। विशदा निर्मला । पक्षे विशन्ती अश्वेतता। स्वचलताशाली । स्वकीया चलता । पक्षे सुष्ठ अचलता । एवं शुभसम्पन्नशब्दं यावत् ज्ञेयम् । अत्र सुरुचिरश्रीमधरशोभामधुराद्याः शब्दाः ज्ञेयाः । वपुषाद्याः सकारान्ताः तृतीयकवचनान्ताः, अङगकेनाद्याः अकारान्तास्तृतीयैकवचनान्ताः, देहेप्रमुखाः अकारान्ताः सप्तम्येकवचनान्ताः, सदासर्वदाद्याः, राजतेमुख्याः आत्मनेपदान्ताः क्रियाः । स्वकामादिमगुणतां स्वगुणत्वादृते तनौ ।
वहन्नाहितगुणतां गुणत्वात्पटुनो भशम् ।। सर्वत्र गुणशब्दो वर्णाकारादिवाची । यथा
स्वकामश्वेततां बिभ्रदादिमस्थूलतां वहन् ।
स्वं कामं अत्यर्थं, श्वेतताम् । पक्षे अश्वेतताम् । स्वकां आदिमां प्रथमां स्थूलताम् । पक्षे अस्थूलतामादि (मा? )म् । एवं स्वकामादिमशब्दयोः पुरस्थगुणशब्दार्थभावार्थताप्रत्ययान्ता द्वितीयैकवचनान्ताश्च कार्याः ।
चञ्चलत्वादृते देहे । चञ्चलत्वेनादृते । पक्षे ऋते विना, चञ्चलत्वात् । एवं गुणशब्दानां भावार्थत्वप्रत्यान्तानां पञ्चम्येकवचनान्तानां पुरतः ऋतेशब्दः प्रयोज्यः, तदने पुनपुंसको अकारान्तो देहादिशब्दः सप्तभ्येकवचनान्तो विशेष्यरूपः कार्यः ।
वहन्नाहितकृष्णताम् । आहिता या कृष्णता तां वहन् । ह्रस्वोपधत्वान्निद्वयम् । पक्षे न वहन् । एवं ह्रस्वोपधशतृजन्तशब्देभ्य: पुरस्थाहितादिशब्दानामग्रे भावप्रत्ययान्तगुणशब्दा द्वितीयैकवचनान्ताः प्रयोज्याः ।
रक्तत्वात्पटुनो भाति । रक्तत्वस्य विशेषणं पटुन इति । पक्षे पटु इति क्रियाविशेषणं, नो निषेधार्थः । एवं त्वप्रत्ययान्तात् पञ्चम्येकवचनान्ताच्च गुणशब्दात् पटुनो बाढं, पटुनो भृशं, पटुनः स्फुटं, पटुनो राजते-इत्यादि शब्दाः प्रयोज्याः।
स्पन्दनवाइनवासनदर्शन मोहनसदानतनयनाद्याः ।
पृच्छकसम्बोधनतः प्रयोजनोयाबुधजनेन ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org