________________
काव्यकल्पलतावृत्ति:
पीतेत्यादि। वसुशब्देन रत्नवह नी। हरिशब्देन रवि: पिङगलवर्णश्च । सुवर्णशब्देन काञ्चनं, सुष्टुवर्ण सुवर्ण कुङकुमम् । हेमकन्दल: सुवर्णकन्दलः, तद्वत् । रक्तपक्षे हेमकन्दलो विद्मः, तद्वत् । गैरिकशब्देन सुवर्ण धातुश्च । पद्मभूः कमलसम्भवा कान्ति: । पक्षे पद्मभूर्ब्रह्मा, तद्वत् । इंसपादं हिङगुलम् । पक्षे हंसस्य चरणौ । अरुणो रक्तवर्णो रविश्च।
मित्रेत्यादि । कोकवाचकशब्देभ्यः पदमवाचकशब्देभ्यश्च मित्रवाचकाः शब्दाः प्रयुज्यन्ते । कोकमित्रम् । कोकस्य चक्रवाकस्य मित्ररूपा । पक्षे कोकमित्र रविः । पद्मबन्धुः । पद्मस्य बन्धुरूपा । पक्षे पद्मबन्धुः सूर्यः ।
गरुडवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते । गरुडबान्धवः । गरुडस्य बान्धवरूपः । पक्षे गरुडबान्धवोऽरुणः ।
भूरिशब्दाज्जातरूपशब्दात्सुवर्णशब्दाच्च कमलवाचकाः शब्दाः प्रयुज्यन्ते । भरिपङकज सुवर्णकमलम् । पक्षे भरि प्रचुरं पङकजवत् । जातरूपाम्बुजम् । जातरूपं सुवर्ण, तस्य कमलं, तद्वत् । पक्षे उत्पन्नरूपं यदम्बुजम । सुवर्णाम्भोजम् । स्वर्णाम्बुजम् । रक्तपक्षे शोभनवर्ण यदम्भोज, तद्वत् ।
नवीनेत्यादि । तपनीयं सुवर्णम् । पक्षे तपनस्य सूर्यस्येयं श्रीः । धातुगैरिक, तद्वत् । पक्षे धातुर्ब्रह्मणः । विनतासुतौ गरुडारुणौ।
एवमनया भङग्याऽन्यानपि शब्दान् स्वबुद्ध्या परिकल्पयेत् ।।
विभिन्नवर्णविभिन्नाकारविभिन्नक्रियादीनामुद्दिष्टवस्तूनामभेदप्रतिपत्त्यर्थं शब्दा यथाम. टी. अथ पीतश्यामौ इति--ध्वान्तवाचकशब्देभ्यः अहिवाचकशब्देभ्यश्च द्विषोद्वेषिवाचकाः शब्दाः प्रयुज्यन्ते । कृष्णशब्दात वीरवाचकाः प्रयज्यन्ते । एभ्यः कृष्णवाचकशब्देभ्यः अम्बरशब्दः अंशकशब्दश्च प्रयज्यते । अर्कवाचकेभ्यः तार्यशब्दः प्रयुज्यते । भीमशब्दात् कचवाचकाः शब्दाः प्रयुज्यन्ते। कमलाशब्दात् पद्मशब्दाच्च इनादयः स्वरादयः स्वाम्यर्थाः योज्यन्ते इति। शेष सुगमम् ।
अथ भिन्नवर्णाकारक्रियादीनामद्दिष्टवस्तूनामभेदार्थ शब्दाः यथा-तत्र परमादिशब्दत्रयोदाहरणानि वृत्तितो ज्ञेयानीति तथा दृशश्वेततयान्वितो मुखः चन्द्रबिम्बवत् । दशि लोचने या अश्वे तता तयान्वितः । पक्षे दृश्या प्रेक्ष्या या श्वेतता तयान्वितम् । तथा योग्यस्थूलतया शोभी तपस्वी मल्लवत् । योगी योगवान्, अस्थूलतया कृशतया, शोभी । पक्षे योग्या या स्थूलता तया । तथा अन्तरश्वेततां वहन् चक्षुः चन्द्रवत् । अन्तर्मध्ये अश्वेतताम् । पक्षे अन्तरे मध्ये श्वेतताम् । तथा हृद्यश्वेततां बिभ्रच्चन्द्रो दुर्जनवत् । हृद्या मनोज्ञा या श्वेतता ताम् । पक्षे हृदि चित्तेऽश्वेतता अशुभाध्यवसायवत्वेन हृदि मलिनत्वात् । तथा रुच्यश्वेतश्रियं वहन् राहः चन्द्रवत । रूचिकान्तौ अश्वेतशोभाम । पक्षे रुच्या मनोज्ञाया श्वेतश्रीस्तां तथा । हार्य श्वेतश्रियं बिभ्रत् राजा कुष्ठिवत् । हारयो मनोज्ञा येऽश्वास्तैरेतश्रियं प्राप्तशोभाम् । पक्षे हार्या हरणयोग्या या श्वेतश्रीस्ताम् । आद्यग्रहणादेतत् तुल्या अन्येऽपि ग्राह्याः । तथा सदा परतरोहारी राजा सुभटवत् । सदा अपरेषां तरो बलं तस्य हारी । पक्षे परं प्रकृष्टं तरो बलं तेन हारी मनोज्ञः । तथा सदा पिनद्धवरांशुकः । उभयथापि मितं पचः सदा निरन्तरं अपरिहितवरवस्त्रः । पक्षे सदाऽपि निरन्तरमपि नद्धानि बद्धानि गोपी [पि]तानीति यावत् प्रधानांशुकानि येन स तथा । नवशोभाविभूषितश्चन्द्रो मुनिवत् । नवा या शोभा तया विभूषितः । पक्षे न वशः स्वेच्छाचारित्वात्, भा शोभा, तया विभूषितस्तथा । सदा सन्नशिवश्रीः कैलासो दुःस्थवत् । आसन्ना शिवस्य श्रीयंत्र स तथा। पक्षे सन्ना अस्ता शिवश्रीर्यस्माद्येन वा स तथा। नव्याप्तरमया शोभी सुकृती दुस्थवत् । नव्या आप्ता प्राप्ता या रमा तया । पक्षे व्याप्तरमया शोभी न भवतीत्यर्थस्तथा । सदा नूनश्रियं बिभ्रत् सुकृती दुस्थवत् । अनूना पूर्णा या श्रीस्ताम् । पक्षे न इति वितक ऊनश्रियं तथा । सदाऽकिञ्चनता वहन् दरिद्रो मुनिवत् । किञ्च सदा निरन्तर तां लक्ष्मी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org