________________
काव्यकल्पलतावृत्तिः
१३५
का.क.
पीतश्यामौ लोहोत्तमहरिशम्भुप्रियङ्गनागजितः । अजबभ्र चन्द्रहासार्जुनवेधोनागरङ्गखद्योताः ।।६।। ध्वान्ताहिभ्यो द्विषः कृष्णाच्चाराण्येभ्योऽम्बरांशुके । तार्योऽर्कतः कचा भीमात् कमलापद्मयोरिनः ॥७०।। पीतांशुक: कृष्णसर्प सुपर्णमधुशत्रवः । हरिद्रोचितरूग्विधुत्कान्तप्रियङ्ग लासितौ ॥७१।। सज्जातरूपशोभिश्री: सदापिकपिनध्यरुक् ।
हरिन्मणि मधुपीतश्रीयुतौ स्वर्णवच्छविः ।।७२॥ पीतेत्यादि । लोहोत्तमं सुपर्णम् । पक्षे लोहवदुत्तमम् । हरिशब्देन पिङगलवर्णः कृष्णवर्णश्च । शम्भुशब्देन विष्णुब्रह्माणौ । प्रियङगुशदेन कङ्गुः, फलिनी लता च । नागः सर्पः, तज्जयिनी प्रभा । पक्षे नागजित् गरुडः । एवं नागवाचकशब्देभ्यो जितवाचकशब्दाः प्रयोज्याः । अजो विष्णब्रह्मा च । बभ्रुः कृष्णो नकुलश्च । चन्द्रहासः खड्गः, सुवर्णप्रकाशश्च । अर्जुनशब्देन फाल्गुनः, तृणं च । वेधा विष्णुब्रह्मा च । सन्नागरङगः पूर्ववत् । खद्योतः कीटमणिः, आकाशप्रकाशश्च ।
ध्वान्तेत्यादि । ध्वान्तवाचकशब्देभ्य: सर्पवाचकशब्देभ्यश्च द्वेषिवाचकशब्दाः प्रयुज्यन्ते । ध्वान्तद्वेषिप्रभा । ध्वान्तस्य द्वेषिणी प्रभा । पक्षे ध्वान्तद्वेषी रविः । सर्पशत्रुः । सर्पाणां शत्रुरूपा । पक्षे सर्परिपुर्गरुडः ।
कृष्णवाचकशब्दाच्चीरवाचका: शब्दाः प्रयुज्यन्ते । कृष्णचीरं नीलवस्त्रम् । पक्षे विष्णोश्चीरं, तद्वत् ।
एभ्यः कृष्णवाचकशब्देभ्योऽम्बरशब्दोंऽशकशब्दश्च प्रयज्येते । नारायणाम्बरवरः । नारायणश्च अम्बरं च, तद्वत् । पक्षे विष्णुवस्त्रम् । वासुदेवांशुकः । वासुदेवस्यांशुकाः किरणाः । पक्षे विष्णोरंशुकं वस्त्रम् ।
अर्कवाचकशब्देभ्यस्तार्क्ष्यशब्दः प्रयुज्यते । भानुतायः । भानोस्ताक्ष्या अश्वाः । पक्षे भानुरर्कः, तार्यो गरुडश्च । भीमशब्दात्कचवाचकाः शब्दाः प्रयज्यन्ते । भीमकेशः । भीमः पाण्डव: केशाश्च । पक्षे भीमस्य शिवस्य केशाः । कमलाशब्दात्पद्मशब्दाच्च इन-ईश-अधिप इति स्वरादिस्वामिशब्दा: प्रयुज्यन्ते । यथा कमलेनः। रविविष्णुश्च ।
पीतेत्यादि । पीतं वस्त्रं विष्णुश्च । कृष्णं पत्रं दलम् । कृष्णस्य पत्रं वाहनं, गरुडः । सुष्ठु पणं पत्रं, गरुडश्च । मधुशत्रुर्विष्णुः । मधुनो माक्षिकस्य शत्ररूपाः । हरिद्राया उचिता रुक् । हरिद्वर्णेन रोचिता रुक् । विद्युत्कान्तः । पक्षे विद्युत्कान्तो मेघः । प्रियङगुवल्लसिता ज्योतिः । पक्षे प्रियमिष्टं गुडवदासितम्।
सज्जातेत्यादि । सज्जातरूपवदूपशोभिनी । पक्षे जातरूपं सुवर्णम, तद्वत् । सदा पिकवत् कोकिलवत् पिनद्धा । पक्षे सदापि कपिवन्मर्कटवन्नद्धा । हरिन्मणि: दिग्रत्नं सूर्यः । पक्षे नीलमणिः । मधुवत्पीतः । पक्षे भ्रमरीतः । स्वर्णवत काञ्चनवत् छविः । पक्षे सुष्ठ अर्णवः समुद्रः, तद्वत् ।
पीतरक्तौ वसुहरी सुवर्णं हेमकन्दलः । गैरिकं पद्मभूकान्तिहंसपादारुणस्तथा ॥७३।। मित्राणि कोकपद्मेभ्यो गरुडेभ्यश्च बान्धवाः । कमलानि तथा भूरिजातरूपसुवर्णतः ।।७४।। नवीनपतनीयश्री: सदा धातुश्रियं वहन् । विनतासुतलक्ष्मीवानेवमन्यानपि स्मरेत् ।। ७५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org