________________
१३४
काव्यकल्पलतावृत्तिः
रक्त्तेत्यादि । पुष्करद्युतिसुन्दरः । पुष्करशब्देन पद्माकाशौ । हरिशब्देन रविविष्ण । विद्रम: प्रवालः, विशिष्टो गुमश्च । नागरङगश्रिया युतः । नागरङगो नारिङगफलं, तद्वत् । पक्षे नाग: सर्पः, तद्वत् रङगः प्रभा । कमलं सरोरुहम् । पक्षे को यमः तथा भलञ्च । कुजशब्देन मङगलवृक्षौ । उत्पलं नीलाम्बुजम् । पक्षे उत्कृष्टपलवत् । धनञ्जयशब्देन पावकार्जनौ । वृषाकपिशब्देन कृष्णाग्नी । 'वषाकपिर्वासुदेवे शिवेऽग्नौ च'।
प्रवालशब्देन प्रकृष्टकेशा विद्रुमश्च । पङकजं कमल, पङकतो जाता छाया च। कृष्णेत्यादि । कृष्णशब्दाद्रत्नवाचकाः शब्दाः प्रयुज्यन्ते । कृष्णरत्नं वैदूर्यादि । पक्षे कृष्णरत्नं कौस्तुभः ।
गुञ्जावाचकशब्देभ्यः प्राग्रशब्दः प्रयुज्यते । गुजाप्रायः । रक्तपक्षे गुजावत्प्रानः प्रधानः । कृष्णपक्षे गुञ्जायाः प्राग्रं अग्रं, तद्वत् ।
सिन्दूरवाचकेभ्यो भूषणवाचकाः शब्दाः प्रयुज्यन्ते । सिन्दूरस्य भूषणं, तद्वत् । कृष्णपक्षे सिन्दुरभूषणा गजाः ।
तमोवाचकशब्देभ्यस्तथासिताब्जवाचकशब्देभ्यो दिङवाचका: शब्दाः प्रयुज्यन्ते । तमोद्वेषिप्रभा । तमसो द्वेषिरूपा स्पद्धिनी प्रभा । पक्षे तमोद्वेषी रविः, तद्वत् । नीलाम्भोजरिपुप्रभः । नीलाम्भोजस्य रिपुरूपा प्रभा यस्य । पक्षे नीलाम्भोजरिपुः सूर्यः, तद्वत् ।
पद्मिनीवाचकशब्देभ्यो दलवाचका: शब्दाः प्रयुज्यन्ते । पद्मिनीदलम् । पद्मिनीवल्ल्याः दलं, तद्वत् । पक्षे पद्मिनीदलं पुष्पम् ।
कमलेत्यादि । कमलाधिपपद्मशशब्दाभ्यां विष्णरवी । सुराणामगो मेरुः, तदवदाहितश्रीः । पक्षे सुरा मदिरा, तद्वद्गाहितश्री: । सूर्योत्पन्ना द्युतिः । पक्षे सूर्यसूः शनिः, तद्वत् । रत्नानामाकरस्तद्वत् । पक्षे रत्नाकरोऽम्बुधिः । अधिकमलवत् । पक्षे अधिको मलवत् ।।
सदेत्यादि । असिं खड्ग, दूरमत्यर्थम् । पक्षे सिन्दूरम् । कालेयशब्देन कुङ्कुमदैत्यौ । कामाङकुशा: नखाः । पक्षे काममत्यर्थं, अङकुशः छाया नलिनवत, कमलवत् । पक्षे अलिनो भृङगस्य ।
स्फुटेत्यादि । स्फुटशोभनताम्रवत् । पक्षे स्फुटशोभ: नतः आम्र: सहकारः, तद्वत् । विदूरमणिः विदूर्यम् । पक्षे विशेषेण दुरमत्यर्थं मणिः । वराहस्वामी आदिकोलः । पक्षे अहःस्वामी सूर्यः । नखानां विभा । पक्षे सम्पन्ना खवत् व्योमवत्, विभा । श्लोकोत्तीर्णाः:-कलभानुमित्तद्युतिः : श्रीवत्साङकद्यतिद्योती। कलङकमलवपुर्वर्वहन् । जेतापरमसिन्दूरम् । कृष्णलात: श्रियं वहन् । म.टी. रक्तश्यामावित्र्यत्र कृष्णाद्रत्नानीति-कृष्णशब्दादग्रतो रत्नवाचकाः शब्दाः प्रयुज्यन्ते । तथा गुञ्जावाचकशब्देभ्यः प्राग्रशब्द: प्रयज्यते । तथा सिन्दूरवाचकेभ्यो भूषणवाचकाः प्रयुज्यन्ते । तथा तमोवाचकेभ्यो असिताब्जवाचकेभ्यश्च द्विषःद्वेषिवाचकशब्दाः प्रयुज्यन्ते । पद्मिनीवाचकेभ्यो दलवाचकाः प्रयज्यन्ते इति । शेषं सुगमम् ।
श्लोकोत्तीर्णाः शब्दाः यथा--कलभानमितच्छविः नपप्रताप: तमोवत् । कला मनोज्ञा भानोमितच्छविर्यस्य स तथा । पक्षे कलभैरनुमिता छविर्यस्य तत्तथा । श्रीवत्साङकधुतिद्योती नृपप्रतापः तमोवत् । श्रीवत्सं रत्न, तस्याङको मध्यभागस्तस्य द्युतिस्तद्वद् द्योती । शोभा पक्षे श्रीवत्साङकः कृष्णस्तस्य द्युतिस्तद्वद् द्योती तथा । कलङकमलवत् वपुर्वहन् नृपप्रताप: तमोवत् । कलं मनोज्ञं वपुर्वहन् कमलवत् वपुः रक्तमित्यर्थः । पक्षे कलङक श्यामचिन्हं, मलः प्रसिद्धः, तत् वपुः तथा । जेता परमसिंदूरं नृपप्रतापो राहुवत् । परमसिन्दूरं जेतापक्षे परमं असि खङग, जेता अर्थात् कान्त्या । तथा कृष्णलात: श्रियं वहन् नूपप्रतापो राहुवत् । कृष्णलात: गजातः श्रियम् । पक्षे कृष्णेन लाता गृहीता, या श्री: शोभा, तां इत्यादि।
वदुरमणिः ..
सूर्यः । न
वित्साङ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org