________________
काव्यकल्पलतावृत्तिः
१३३
शब्देन शिवब्रह्माणौ। महारजतदीधितिः । पीतपक्षे महारजतं सूवर्ण, तद्वत । श्वेतपक्षे महती रजतवत् रूप्यवत् दीधितिर्यस्य । अर्जुनप्रभया शोभी । अर्जनशब्देन तणश्वेतौ । हरिप्रभामनोहारी। हरिशब्देन चन्द्र: पिङगलवर्णश्च । हैमस्तोमप्रभासोमः । पीतपक्षे हैमस्तोमः स्वर्णराशिः । सितपक्षे हिमराशि: । अष्टापदप्रभास्पष्ट: । अष्टापदशब्देन सुवर्णशरभी। कलधौतकलद्यतिः । कलधौतशब्देन रूप्यसूवर्णे ।
हरिगोपत्योरित्यादि । हरिगोपतिशब्दाभ्यां पूरस्ताग्रंशब्दः प्रयुज्यते । यथा-हरिता_प्रभाशोभी पीतपक्षे । हरिर्भानुस्तायोगरुडस्तद्वत् । श्वेतपक्षे हरेरिन्द्रस्य तायोऽश्व उच्चैश्रवास्तद्वत । सदागोपतितार्थ्यश्रीः । पीतपक्षे गोपतिर्भानु:, ताक्ष्यो गरुडः, तद्वत् । श्वेतपक्षे गोपतिरिन्द्रः, तस्य तार्योऽश्वः, तद्वत् द्युतिः ।
रविवाचकशब्देभ्यः कान्तशब्दः प्रयुज्यते । रविकान्तद्युतिद्योती । पीतपक्षे रविवत्कान्ता द्युतिः । श्वेतपक्षे रविकान्त: सूर्यकान्तस्तद्वत् द्युतिः ।
तेभ्यो रविवाचकशब्देभ्यो बान्धववाचकाः शब्दाः प्रयुज्यन्ते । रविबान्धवदीधितिः । पीतपक्षे रवेबन्धिवरूपा दीधितिर्यस्य । श्वेतपक्षे रविबान्धवश्चन्द्रः, तद्वत् द्युतिः ।
वामशब्दस्य महाशब्दस्य वाऽग्रो यो देवशब्दः, तस्य पूरतो गिरिवाचिन: शब्दाः प्रयुज्यन्ते । वामदेवगिरिच्छायः । पीतपक्षे वामः प्रधानो देवगिरिमेंरुः, तद्वत । श्वेतपक्षे वामदेवः शिवः, तस्य गिरिः कैलासः, तद्वत् । महादेवगिरिद्युतिः । पीतपक्षे महांश्चासौ देवगिरिस्तद्वत् । श्वेतपक्षे महादेवः शिवः, तस्य गिरि: कैलासः, तद्वत् ।
तथा विश्वे पिनाकिशब्दादिगरिवाचकाः शब्दाः प्रयज्यन्ते । विश्वेपिनाकिशैलश्री: । श्वेतपक्षे विश्वे जगति, पिनाकिशैलः कैलासः, तद्वत् । पीतपक्षे विश्वेऽपि जगत्यपि, नाकिशैली मेरुः, तद्वत् ।
उच्चकैरित्यादि । उच्चकैरजतान्तश्रीः । रजतवद्रूप्यवदन्ते श्रीः । पक्षे अजो ब्रह्मा, तद्वत्तान्ता श्रीः । विधौ चन्द्रे ब्रह्मणि च । सुशोभितारकूटश्रीः । तारं रूप्यं, तस्य कट: । पक्षे सुशोभितआरकूटवत् रीतिवत् श्रीः । स्वर्णस्तोमसितद्युतिः । स्वर्णं सुवर्णम् । पक्षे सुष्ठु अर्णः, जलम् ।
मधु इत्यादि । मधुद्युतिमनोहारी । मधु क्षौद्रं दुग्धं च । शङखकान्तिमनोरमः । शङख: कम्बुः । पक्षे शङखो नागः । दहनोपलसत्कान्ति: । दहनवदुपलसन्ती । पक्षे दहनोपल: सूर्यकान्त:, तद्वत । गाङगेयच्छविसम्भ्रमः । गाडगेयं सुवर्णम् । पक्षे गङगायाः छविः ।
रक्तश्यामौ पुष्करहरिविद्रुमनागरङ्गकमलकुजाः । उत्पलधनञ्जयवृषाकपिप्रवालानि पङ कजच्छाया ॥६४।। कृष्णाद्रत्नानि गुञ्जातः प्राग्रं सिन्दूरभूषणः । द्विषस्तमोसिताब्जेभ्यः पद्मिनीभ्यो दलानि च ॥६५।। कमलाधिपपद्मेशौ सुरागाहितसूर्यसूः । रत्नाकरवरश्रीकाः सदाधिकमलद्युतिः ॥६६।। सदासिन्दूरमुज्जेता कालेयत्वं वहन् रुचा । स्फुटकामाङ कुशच्छायां कलयन्नलिनश्रियम् ।।६७।।
स्फुटशोभनताम्रश्रीविदूरमणिदीधितिः । वराहस्वामिधामश्रीः सम्पन्नरवभाभरः ॥६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org