________________
काव्यकल्पलतावृत्तिः
श्वेतपक्षे रविमित्रः चन्द्रः । रक्तपक्षे रवेमित्ररूपा प्रभा । भानु रत्ननिभद्युतिः । श्वेतपक्षे भानुरत्न सूर्यकान्तः । रक्तपक्षे रविर्मणिश्च।
वह्निवाचकशब्देभ्यो रत्नवाचकशब्दाः प्रयुज्यन्ते । वह्निरत्नोपमद्युतिः । रक्तपक्षे वह्निश्च रत्नं च, तद्वत् । श्वेतपक्षे वह्न रत्नं सूर्यकान्तस्तद्वत् ।।
रदवाचकशब्देभ्योऽशुकवाचिन: शब्दाः प्रयुज्यन्ते । रदांशुकधुतिद्योती । श्वेतपक्षे रदाश्च अंशुकानि च, तद्वत् द्युतिः । रक्तपक्षे रदांशुकोऽधरः, तद्वत् ।
जलवाचकशब्देभ्यो जन्मशोभावाचका: शब्दा: प्रयुज्यन्ते । युक्तो जलजशोभया । श्वेतपक्षे जलजाता शोभा । रक्तपक्षे जलजं कमलं, तद्वत् । सरोजवाचकेभ्य: कुमुदवाचकेभ्यश्चारिवाचकशब्दाः प्रयज्यन्ते । सरोजारिसमप्रभः । रक्तपक्षे सरोजानां अरिरूपा स्पधिनी प्रभा यस्य । श्वेतपक्षे सरोजारिश्चन्द्रस्तत्समा । कुमदारिद्युतिद्योती । श्वेतपक्षे कुमुदानामरिरूपा स्पद्धिनी द्युतिर्या तया द्योती । रक्तपक्षे कुमुदारिरादित्यस्तद्वत् द्युतिः ।
वृषेत्यादि-वृषाकपिप्रभाशोभी। वृषाकपिशब्देन शिवानलौ । सूर्योपलसितद्युतिः । सूर्यवदुपलसिता । पक्षे सूर्योपल: सूर्यकान्तः, तद्वत् सिता शुभ्रा । सोमप्रभातरङगश्रीः । सोमः प्रशस्योदयः प्रभातस्य रङगः, तद्वत् । पक्षे सोमश्चन्द्रः, तस्य प्रभातरङगः कान्तिवीची, तद्वत् । सुधातुलसितद्युतिः । सुधावदतुला सिता शुभ्रा। पक्षे सुष्ठु धातुवल्लसिता।
पीतश्वेतौ गौरद्विजराजकपर्दचन्द्रहसार्काः । शम्भुमहारजतार्जुनहरि, हैमाष्टापदानि कलधौतम् ।।६०।। हरिगोपत्योरस्तायः कान्तो रवितश्च बान्धवास्तेभ्यः वाममहाग्रगदेवादिगरयो विश्वेपिनाकिनोऽपि स्युः ।।६१।।
म.टी. अथ श्वेतरक्त्तौ यथा--हरीत्यादि सूर्यवाचकशब्देभ्यः कान्तशब्द: प्रयुज्यते । सुहृद्रत्नानीति-भानवाचक शब्देभ्यो मित्रवाचका रत्नवाचकाश्च शब्दा: प्रयुज्यन्ते। तथा वहि नवाचकशब्देभ्यो रत्नवाचकशब्दाः प्रयुजयन्ते । तथा रदवाचकशब्देभ्य: अंशुवाचकाः शब्दाः प्रयुज्यन्ते । तथा जलवाचकशब्देभ्यो जन्मवाचकाः शोभावाचकाश्च शब्दाः प्रयुज्यन्ते। तथा सरोजवाचकेभ्यः कुमदवाचकेभ्यश्च शब्देभ्यः अरिवाचक.: शब्दाः प्रयुज्यन्ते इति शेषं सुगमम् । पीतश्वेतावित्यत्र, हरिगोपत्योरिति-हरिगोपतिशब्दाभ्यां पुरतः तायशब्दः प्रयुज्यते । तथा रविवाचकशब्देभ्यः कान्तशब्द: प्रयुज्यते । तेभ्यो रविवाचकशब्देभ्यो बान्धववाचकशब्दाः प्रयुज्यन्ते। तथा वामशब्दस्य महाशब्दस्य च पुरो यो देवशब्दस्तस्य पुरतो गिरिवाचका: शब्दाः प्रयुज्यन्ते । तथा विश्वे पिनाकिशब्दात् गिरिवाचका: शब्दाः प्रयुज्यन्ते इति । शेषं सुगमम् । का.क.
उच्चकैरजतान्तश्रीविधौ वर्णोपमां वहन् । सुशोभितारकूटश्री: स्वर्णस्तीभसितद्युतिः ॥६२।। मधुद्युति मनोहारी शङ्खकान्तिमनोरमः ।
दहनोत्पलसत्कान्तिर्गाङ्गेयच्छविसम्भ्रमः ।।६३॥ ..पीतेत्यादि । गौरद्यतिमनोहारी । गौरशब्देन श्वेतपीते । द्विजराजप्रभाशोभी । द्विजराजशब्देन चन्द्रगरुडौ । कपर्दयतिविद्योती। कपर्दशब्देन वराटधूर्जटिजटाजूटौ। चन्द्रद्युतिमनोहरः । चन्द्रशब्देन शशी सुवर्ण च। हंसशोभाप्रशस्यश्रीः । सशब्देन रविचक्रवाकौ । अर्कलक्ष्मीमनोहरः । अर्कशब्देन स्फटिकादित्यौ । शंभुशोभामनोहारी । शम्भ१. मूले तु “रक्तश्वेतौ” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org