________________
काव्य कल्पलतावृत्तिः
१३१
स्पष्टांशकश्रियं वहन श्रयन्, कैलासो राहुवत् । स्पष्टं निर्मलं, अंशुक वस्त्रं, तस्य श्रीस्तां श्रयन् । पक्षे स्पष्टां प्रकटांशकश्रियं नीलश्यामयो'क्यात्तथा । धौताम्बरश्रियं श्रयन कैलासो राहवत् । धौतं क्षालितं, यदम्बरं वस्त्रं, तस्य श्रीस्ताम् । पक्षे धौत बार्दलरहितं, यदम्बरं आकाशं, तस्य श्रीस्तां तथा । स्फटिकान्तश्रियं बिभ्रत् कैलासो राहुवत् । स्फटिकानामन्तर्मध्यं, तद्वत् श्रीस्तामथवा स्फटिकान्तश्रियं स्फटिकस्वरूपश्रियं; अन्तशब्दस्य स्वरूपवाचकत्वात् । पक्षे स्फटाः सन्त्यस्य स्फटी सर्पस्तद्वत कान्तश्रियम् । तथा स्फटिकाचलसल्लक्ष्मीः ईश्वरः तमोवत् । स्फटिकाचलवत् सती लक्ष्मीर्यस्य स तथा । पक्षे सर्पकाचयोरिव लसन्ती लक्ष्मीर्यस्य तत् तथा । पुरोगजलसल्लक्ष्मी: कैलासो राहुवत् । पुरोगा प्रधाना, जलवत् सल्लक्ष्मीर्यस्य स तथा । पक्षे पुरोऽग्रे, गजवत् लसल्लक्ष्मीर्यस्य स तथा । जलमुक्तान्तदीधिति: कैलासो राहुवत् । जलं च मक्ताफलं च तद्वत, अन्ते दीधितिः कान्तिर्यस्य स तथा । पक्षे जलमुक मेघस्तद्वत्तान्तदीधितिः तथा । अवश्यायश्रियं वहन कैलासौ राहवत् । अवश्यायो हिम, तस्य श्रियम् । पक्षेऽब्वश्यं निश्चितं, अयो लोहं, तद्वत् श्रियं तथा । सैन्धवधतिविद्योती कैलासो राहुवत् । सैन्धवद्युतिवद् विद्योती । पक्षे सिन्धौ भवा सैन्धवा, समुद्रजा द्युतिस्तद्वद विद्योती तथा। कलितो माधवश्रिया शोभते कैलासकान्ति: राहुवत् । उमाधवो महेश्वरस्तस्य श्रीस्तया कलिता । पक्षे माधवो विष्णस्तस्य श्रीस्तया कलितो युक्त: तथा।
वराहरोचितच्छाया यन्मूर्तिः तमोराजिवत् । वरा प्रधाना, हरवदुचिता योग्या, छाया यस्याः सा तथा; यस्येश्वरस्य मूर्तियन्मूर्तिः शोभते । पक्षे वराहः शुकरः, तद्वद् रोचिता शोभिता, छाया कान्तिर्यस्याः सा तथा । वराहरोचितच्छाया इति पाठान्तरं, तदाहारवचितच्छाया । पक्षे वराहवत् आ सामस्त्येन रोचितच्छाया तथा । वृषा कपिद्युतिविद्योती कैलासो राहुवत् । वृषाकपिः शिवस्तस्य द्युतिस्तद्वद् विद्योती । पक्षे वृषाकपिः कृष्णस्तस्य द्युतिस्तद्वत् द्योती इत्यादि ।
का.क.
जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥५८॥ वृषाकपिप्रभाशोभी सूर्योपलसितद्युतिः ।
सोमप्रभातरङ् गश्री: सुधातुलसितद्युतिः ॥५९।। रक्तेत्यादि । हरिवैभवभासुरः । हरिशब्देन रविचन्द्रौ । शुचिशोभाविभूषितः। शुचिशब्देन शुभ्रवर्णो वह्निश्च ।
यथा--
शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेपूपधाशुद्धमन्त्रिणि । शृङ्गारे-इत्यनेकार्थः पुष्करद्युतिरोचितः । पुष्करशब्देन जलकमले । शतपत्रप्रभाशोभी । शतपत्रशब्देन हंसकमले ।
सूर्यवाचकशब्देभ्यः कान्तशब्दः प्रयुज्यते । भानुकान्तततद्युतिः । रक्तपक्षे भानुवत्कान्ता, तथा विस्तीर्णा रुचिर्यस्य । श्वेतपक्षे भानुकान्तः सूर्यकान्तः, तद्वद्रुचिः । अब्जद्यतिमनोहारी । अब्जशब्देन चन्द्रकमले नवहंससमद्यतिः । नवहंसशब्देन बालार्कबालहंसौ । महापद्मांशुकधुतिः । महापद्मस्य नागस्य अंशुकं वस्त्रं श्वेतम् । रक्तपक्षे कमलकिरणाः । अर्कसोदरदीधितिः । अर्कशब्देन स्फटिकादित्यौ । कमलच्छविभासुरः । कमलशब्देन पङकजजले। कीलालच्छविभासुरः । कीलालशब्देन रुधिरजले।
सुहृद्रत्नानीत्यादि । भानुवाचकशब्देभ्यः सुहृद्वाचकशब्दाः रत्नावाचकशब्दाश्च प्रयुज्यन्ते । रविमित्रप्रभाशोभी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org