________________
१३०
काव्यकल्पलतावृत्तिः
नीरदो मेघस्तद्वत् । पक्षे, निश्चिता रदवत् दन्तवत् द्युतिः । घनोपलसितश्रीः । घनवत् मेघवत् उपलसिता श्रीः । पक्षे घनो धनोपलः करकस्तद्वत्सिता शुभ्रा श्रीः । सदाहिमकरद्युतिः । हिमकरश्चन्द्रः, तद्वत् । पक्षे अहिः सर्पो, मकरश्च । सिन्धुवेणिश्रियं वहन् । सिन्धुर्नदी, तस्याः वेणिः प्रवाहः, तद्वत् । पक्षे सिन्धुः समद्रो, वेणिः केशपाशबन्धः, तद्वत् । पृथलाजसमद्युतिः । पृथुलाजवत् कान्तिः । पक्षे पृथुला अजसमा विष्णुसमा ।
शङ्खकरेत्यादि । युक्तः शङ्खकरश्रिया । शङ्खस्य करा: किरणानि । पक्षे शङ्खकरो विष्णुः । तारकेशच्छविः । तारकेशश्चन्द्रः, तद्वत् । पक्षे तारा दीप्ता केशवत् छविः । सदाकाशश्रीः । सद्विद्यमाना, आकाशवत् । पक्षे सदा सर्वदा, काशवत् । व्योमकेशच्छविः । व्योम च केशाश्च तद्वत् । पक्षे व्योमेशः शिवः, तद्वत् । ताललक्ष्मश्रीः । तालश्च लक्ष्म च, तद्वत् । पक्षे ताललक्ष्मा बलदेवः । नीलांशुकश्रीः । नीलानां अंशुकानां किरणानां श्रीः । पक्षे नीलांशुको बलदेवः, तद्वत् । अधिकेशच्छायः । अधि सामस्त्येन, केशवत् । पक्षे अधिकं ईशवत् । अरिष्टरुचिः । अरिष्टशब्देन ।
यथा-
अरिष्टो लशुने निम्बे फेनेऽल्पे कङ्ककाकयोः ।
अरिष्टं सूत्यगारे तत् चिन्हे तक्रे शुभेऽशुभे ।।
सदासिचयरोचिष्णुः । सिचयं वस्त्रं तद्वत् । पक्षे असिचयः खड्गश्रेणिः । कलकण्ठद्युतिः । हंसश्च । यथा-
कलकण्ठः पिके पारावते हंसे कलध्वनौ ।
श्लोकोत्तीर्णाः शब्दाः यथा- वहन् कलभवच्छायाम् । सदाधिकेशवच्छायः । अन्धकारातिदीधितिः । अनेकपायसच्छायः । वपुर्महोदधिच्छायं वहन् । स्पष्टांशुकश्रियं बिभ्रत् । धौताम्बरश्रियं श्रयन् । स्फटिकान्तश्रियं बिभ्रत् । स्फटिका चलसल्लक्ष्मीः । स्फटी सर्प: । पुरो गजलसल्लक्ष्मीः । जलमुक्तान्तदीधितिः । जलं च मुक्ताश्च तद्वदन्ते दीधितिर्यस्य । पक्षे जलमुक् मेघः, तद्वत् तान्ता । अवश्यायश्रियं वहन् । सैन्धवद्युतिविद्योती । कलितो माधवश्रिया शोभते, वराहरोचितच्छाया यन्मूर्तिः । वृषाकपिद्युतिद्योती । वृषाकपिशब्देन कृष्णशिवौ ।
मकरन्दटीकायां श्वेतरक्ताविति ।
रक्तश्वेतौ हरिशुचिपुष्करशतपत्त्रसूर्यकान्ताब्जाः । नवहंसमहापद्मार्क सोदरा: कनलकीलाले ॥ ५७ ॥
Jain Education International
कलकण्ठः पिकः
सुहद्रत्नानि भानुभ्यो वह्निरत्नरदांशुकैः ।
म. टी. श्लोकोत्तीर्णाः शब्दाः यथा -- वहन् कलभवच्छायां कैलासो राहुवत् । भवस्येश्वरस्य, छाया कान्तिः भवच्छाया कला, मनोज्ञा चासौ भवच्छाया च तां वहन् । पक्षे कलभवत् हस्तिबालकवत्, छायां कान्ति, वहन् तथा । सदाSuraच्छायश्चन्द्रो राहुवत् । सदा अधिकइकारो यत्रैवंविधो यः शवस्तथा च शिव ईश्वरस्तद्वत् छाया यस्य स तथा । पक्षे अधि सामस्त्येन, केशववत् कृष्णवत्, छाया यस्य स तथा । अन्धकारातिदीधितिः कैलासो राहुवत् । अन्धकारातिः ईश्वरस्तद्वद्दीधितिर्यस्य स तथा । पक्षे अन्धाया कारा, अन्धा चासौ कारा, चान्धकारा, तद्वदतिदीधितिर्यस्य स तथा । अथवा अन्धकोऽन्धकारं तस्यारिरूपा दीधितिरथवा अन्धकारवत् तमोवत् दीधितिर्यस्येति तथा । अनेकपायसच्छायः कैलासो राहुवत् । अनेका पायसवत् परमान्नवत् छाया यस्य स तथा । पक्षे अनेकयोगजः, आयसं च लोहसम्बन्धि शस्त्रादि, तद्वत् छाया यस्य स तथा । वपुर्महोदधिच्छायं वहन् कैलासो राहुवत् । वपुर्महो वपुस्तेजः । कथम्भूतं ? दधिच्छायं दधि तद्वत् छाया यस्य तत्तथा । तत्पक्षे वपुः । कथम्भूतं महोदधिच्छायं ? महोदधिः समुद्र, स्तद्वच्छाया यस्य तत्तथा ।
For Private & Personal Use Only
www.jainelibrary.org