________________
काव्यकल्पलतावृत्तिः
१२९
उदाहरणानि यथा --विधुवैभवभासुरो नृपश्लोको वैरिवत् । विधुश्चन्द्रस्तस्य वैभव: श्वेतसम्पत् तद्वद् भासुरः । पक्षे विधुविष्णुस्तस्य वैभव: श्यामत्वं तद्वद् भासुरो मनोहरः, तथा । हरिहारितरद्युतिः नृपयशो वैरियशोवत् । हरिश्चन्द्रस्तद्वद् हारितरा मनोहरतरा द्युतिर्यस्य तत्तथा । पक्षे हरिर्विष्णुस्तद्वद् मनोहरतरा द्युतिर्यस्य तत्तथा । तारा स्फारतरद्युतिर्नृपयशोराशिर्वैरियशोवत् । स्फारतरा चाऽसौ द्युतिश्च स्फारतरद्युतिः तारानक्षत्रं, तद्वत् स्फारतरद्युतिर्यस्य स तथा । पक्षे तारानयनकनीनिका तद्वद् स्फारतरद्युतिर्यस्य तत्तथा । घनसाररुचिस्फारो नृपश्लोको वैरियशोवत् । घनसार: कर्पूरस्तस्य रुचिः कान्तिस्तया स्फार : मनोज्ञः । पक्षे घना मेघास्तद्वत् । साररुच्या स्फारः तथा । शम्भुशोभा मनोहरः प्रासादो राहुवत् । शम्भुर्महेश्वर, स्तस्य शोभा श्वेतप्रभा, तथा मनोहरः । पक्षे शम्भुः कृष्णस्तस्य शोभा तथा मनोहरः तथा । नागेन्द्ररुचिरच्छायः कैलासः तमोवत् । नागेन्द्रः शेषनागस्तद्वद् रुचिरा छाया यस्य स तथा । पक्षे हस्तीन्द्रस्तद्वद् रुचिरच्छाय तथा । अभ्रप्रभामनोहारी कैलासः तमस्तोमवत् । अभ्रमभ्रकं तस्य प्रभा, तद्वन्मनोहारी । पक्षे अभ्रो मेघस्तस्य प्रभाकान्तिस्तद्वन्मनोहारी तथा । अश्मगर्भसगर्भाशुः चन्द्रो राहुवत् । अश्म पाषाणस्तस्य गर्भः मध्यवर्तिश्वेतभागस्तस्य सगर्भा अंशवः किरणा यस्य स तथा । पक्षे अश्वगभ्रं मरकतं रत्नं, तस्य सगर्भो अंशवो यस्य स तथा । सदाराम | भिरामश्रीः कैलासो रात्रिवत् ।
का. क. कृष्णवर्णपक्षे हरिजिष्णुशब्दौ विष्णुवाचकौ । हरिश्च कुम्भी च जिष्णुश्च हस्ती च तद्वत् द्युतिः । श्वेतवर्णपक्षे हरिजिष्णुशब्दाविन्द्रवाचकौ । ततो हरेः कुम्भी जिष्णुर्हस्ती ऐरावणस्तद्वद् द्युतिः । तथा कृष्णवर्णपक्षे मेघाश्च दन्तावलाश्च समुद्राश्च द्विरदाश्च तद्वत् द्युतिः । श्वेतपक्षे मेघहस्ती, समुद्रहस्ती, ऐरावणः, तद्वत् द्युतिः ।
तथा मुरारिवाचकशब्देभ्य: सिन्धुशब्दः प्रयुज्यते । विष्णुसिन्धुसमप्रभः । कृष्णपक्षे मुरारिश्व सिन्धुश्च तद्वत् धृतिः । श्वेतपक्षे मुरारेः सिन्धुर्नदी गङगा, तद्वत् द्युतिः ।
तथा जलवाचकशब्देभ्यो वाहशब्दः प्रयुज्यते । जलवाहसमप्रभः । कृक्ष्णपक्षे जलवाहो मेघस्तद्वत् द्युतिः । श्वेतपक्षे जलस्य वाहस्तद्वत् द्युतिः ।
कृष्णशब्दादम्बुजवाचिनः शब्दाः प्रयुज्यन्ते । कृष्णाम्भोजसमप्रभः । कृष्णपक्षे कृष्णाम्भोजं नीलोत्पलम् । श्वेतपक्षे कृष्णस्य हरेरम्भोजं नाभिपुण्डरीकं, तद्वत् द्युतिः ।
यमुनावाचकशब्देभ्यस्तथा कुम्भिवाचकशब्देभ्यो द्वेषिवाचिनः शब्दाः प्रयुज्यन्ते । यमुनारिसमप्रभः । कुम्भिद्वेषिरुचिः सदा । कृष्णपक्षे यमुनाया अरिरूपा स्पर्धिनी रुचिर्यस्य, कुम्भिनां द्वेषिणी रुचिर्यस्य । श्वेतपक्षे यमुनारिर्बलदेवः, कुम्भिद्वेषी सिंहस्तद्वत् द्युतिः ।
म. टी. सदा निरन्तरं रामो बलदेवस्तद्वदभिरामा श्रीर्यस्य स तथा । पक्षे रामो दाशरथिस्तद्वदभिरामश्रीस्तथा । अनन्तरुचिरोचिष्णुः कैलासो राहुवत् । अनन्तो बलदेवस्तस्य रुचिः कान्तिस्तद्वद् रोचिष्णुः दीपनशीलः । पक्षे अनन्तो विष्णुस्तस्य रुचिस्तद्वद् रोचिष्णुः तथा । अर्जुनच्छविपेशल: कैलासः तमोवत् । अर्जुनो धवलः, अर्जुना चासौ छविश्चार्जुनच्छविस्तया पेशलः । पक्षे अर्जुन: पार्थस्तस्य छविस्तया पेशलस्तथा । चन्द्रहासप्रकाशश्री: कैलासो राहुवत् । चन्द्रश्च हासश्च चन्द्रहासौ तयोरिव प्रकाशश्रीर्यस्य स तथा । पक्षे चन्द्रहासः खड्गस्तद्वत् प्रकाशश्रीर्यस्य स तथा । सिंहीजरुचिरोचितः कैलासः तमस्तोमवत् । सिंहीज: सिंहस्तस्य रुचिः कान्तिस्तया रोचितः शोभितः । पक्षे सिंहीजो राहुस्तस्य रुचिस्तया रोचितः इत्यादि ।
अथ हरेजिष्णोरित्याद्युदाहरणानि वृत्तावेव विवृत्तान्यतोस्माभिरपि न वित्रियन्ते ।
का. क. कृष्णार्थेत्यादि । कृष्णवाचकशब्दात् पुरः स्थितनदीवाचक शब्देभ्यो वरशब्दः प्रयोज्यः । कृष्णकुल्यावरद्यतिः । श्वेतपक्षे कृष्णकुल्या गङगा, तद्वत् द्युतिः । श्यामपक्षे कृष्णो विष्णुः, कुल्यावर, समुद्र:, तद्वत् द्युतिः । नीरदद्युतिभासुरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org