________________
___१२८
१२८
काव्यकल्पलतावृत्तिः
का.क.
॥ ३.३ ॥
अथोद्दिष्ट वर्णनम् वर्णादिभिविभिन्नस्योद्दिष्टवस्तुद्वयस्य यत् ।।
अभेदः क्रियते श्लेषात्तत्स्यादुद्दिष्टवर्णनम् ।।५२।। विभिन्नवर्णद्वयानां षड़भेदाः । यथा श्वेतश्यामौ, श्वेतरक्तौ, श्वेतपीतौ, रक्तश्यामौ, पीतश्यामौ, पीतरक्तौ। एषां क्रमेण शब्दा यथा--
श्वेतश्यामौ विधुहरितारा: घनसारशम्भुनागेन्द्राः । अभ्रश्मगर्भरामानन्तार्जुनचन्द्रहाससिंहीजा: ।।५३।। हरेजिष्णोध्नाब्धिभ्यो गजाः सिन्धुर्मुरारितः । अद्भ्यो वाहोऽम्बु जाः कृष्णात् यमुनाकुम्भितो द्विषः ।।५४।।
कृष्णार्थांग्रगतटिनीवाचकशब्दाग्रतो वरो योज्यः । नीरदघनोपलसितसदा, हिमकरसिन्धुवेणिपृथुलाजाः ।।५५।। शङखकरतारकेश सदाकाशव्योमकेशतालाङकाः ।
नीलांशुकाधिकेशारिष्टसदासिचयकलकण्ठाः ॥५६।। श्वेतश्यामावित्यादि । विधुवैभवभासुरः; विधुश्चन्द्रो, विष्णुश्च । हरिहारितरद्युतिः; हरिशब्देन चन्द्रविष्णू । तारास्फारतरद्युतिः; तारा शब्देन तारका, नयनकनीनिका च। घनसाररुचिस्फारः; कृष्णपक्षे घना मेधास्तद्वत्साररुचिः, श्वेतपक्षे घनसारशब्द: कपरवाची । शम्भुशोभामनोहरः; शम्भशब्देन हरिहरौ । नागेन्द्ररचिरच्छायः; नागेन्द्रशब्देन शेषो हस्तीन्द्रश्च। अभ्रप्रभामनोहारी; अभ्रशब्देन मेघोऽभ्रकञ्च । अश्मगर्भसगर्भाशुः; अश्मगर्भशब्देन मरकतं, पाषाणगर्भश्च । सदा रामाभिरामश्री:; रामशब्देन दाशरथिर्बलदेवश्च । अनन्तरुचिरोचिष्णु:; अनन्तशब्देन विष्णुर्बलदेवश्च । अर्जनच्छविपेशल:; अर्जुनशब्देन पार्थो धवलवर्णश्च । चन्द्रहासप्रकाशश्रीः; चन्द्रहासशब्देन खड्गः, । चन्द्रस्य हासः, प्रकाशश्च । सिंहीजरुचिरोचितः; सिंहीजशब्देन राहः, सिंहश्च ।
हरोजिष्णोरित्यादि । हरिशब्दात् जिष्णुशब्दात् घनवाचकशब्देभ्योऽब्धिवाचकशब्देभ्यश्च गजवाचकाः शब्दाः प्रयुज्यन्ते । यथा--
हरिकुम्भिनिभज्योतिजिष्णहस्तिनिभ्रप्रभः ।
___ मेघदन्तावलच्छायः समुद्रद्विरदद्युतिः ।। म. टी. अथोद्दिष्टवर्णनमाह । विधुहरीति-विधुप्रभृतिभिस्त्रयोदशशब्दैः श्वेतश्यामार्थवाचकैः श्वेतश्यामयोः श्लेषो भवतीति । हरेरिति-हरिजिष्णुधनाब्धिभ्यः पुरतो गजवाचक-शब्दाः प्रयुज्यन्ते । तथा मुरारिवाचकशब्देभ्य: सिन्धुशब्दः प्रयुज्यते । तथा जलवाचकशब्देभ्यो वाहशब्दः प्रयुज्यते । तथा कृष्णशब्दात परत: अम्बजवाचकाः शब्दा योज्यन्ते । तथा यमनावाचक शब्देभ्यः कुम्भिवाचकशब्देभ्यश्च वैरिवाचका: शब्दाः प्रयुज्यन्ते । कृष्णवाचकशब्दानामग्रे नदीवाचका: शब्दाः, तेषामग्रे च चरशब्दो योज्यते । एतैः नीरदादिकलकण्ठान्तैश्च शब्दैविशेषणे श्वेतश्यामयोः श्लेषः स्यात ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org