________________
काव्यकल्पलतावृत्तिः
भूता उत्पन्ना स्थितिस्तां । पक्षे न अभिभूतस्थितिं तथा । कटकान्तः स्थिति वहन् पुष्टनरों नृपवत् । कटः कटिः, श्रोणिरिति यावत्तेन कान्तां स्थिति । पक्षे कटकस्यान्तर्मध्ये स्थिति तथा वहन् । वैकटिकाभोगं नारीजनः पुरवत् । निश्चितं ह्रस्वा कटिः कटिका तस्याभोगः । पक्षे वैकटिको मणिकारस्तस्याभोगं तथा । सर्वदा रोहपेशल: नारीजन: सुभगवत् । सर्वदारोहो नितम्बस्तेन, पेशलः । पक्षे सर्वदाराणां ऊहस्तेन पेशलः तथा । अहो सज्जधनस्थितिर्नारीजनो नभोवत् । सत् जघनस्य स्थितिर्यस्य स तथा । पक्षे सज्जा धनस्थितिर्मेधस्थितिर्यत्र तत्तथा । सज्जानुगतवैभवो नृपो धनिवत् । सन् जानुगतवैभवो यस्य भवो स तथा । पक्षे सज्जोऽनुगतो वैभवो यस्य स तथा । सदापि चण्डिकाभोगो नर ईश्वरवत् ' पिण्डिका नुपचण्डिका' इति वचनात् ( अ. चि. ३. २९९ ) पिण्डिका । तस्या आभोगो यस्य स तथा ! पक्षे सदापि निरन्तरमपि चण्डिका पार्वती, तस्या आभोगो यस्य स तथा । अपूर्वचरणस्थानो राजा सुभटवत् । अपूर्वचरणयोः स्थानं यस्य स तथा । पक्षे न विद्यते पूर्वो यत्र स अपूर्व, अपूर्वश्चासौ चरणश्चापूर्वचरणः, रण इत्यर्थस्तत्र स्थानं स्थितिर्यस्य स तथा । द्विपादरचितस्थितिः नरो नृपवत् । द्विपादाभ्यां रचितस्थितिः । पक्षे द्विपानामादरस्तेन व्याप्तस्थितिः तथा । सदा चलनश्रियं विभ्रन्नर्तको भूमिवत् । पादश्रियं । पक्षे अचलनश्रीः स्थिर श्रीस्तां ।
१२७
अथ तिर्यग्वर्णनाय तदङ्गोपाङ्गशब्दाश्लेषो यथा-शृङ्गारोपचितस्थितिर्व षभः स्त्रीवत् । शृङ्गयोर्विषाणयोरारोपस्तस्य स्थितिर्यस्य स तथा । पक्षे शृङ्गारेण उपचिता स्थितिर्यस्याः सा तथा । सद्विषाणां श्रियं वहन् वृषभः सर्पवत् सत् विषाणां सत् श्रियं । पक्षे सद्विषाणां विद्यमानकालकूटानां श्रियं तथा । विश्वेऽत्र पुच्छविभ्राजी वृषभो रसितलोहवत् । पुच्छविभ्राजी । पक्षे विश्वमध्येऽत्र पुच्छविशोभि तथा । उच्चचूतः श्रियं वहन् हंसो वनवत् । उत् प्राबल्येन, चञ्चूतः श्रियं । पक्षे उच्च यथा स्यात्तथा चूतश्रियं आम्रश्रियं तथा । त्रोटितस्थितिमुद्वहन् पक्षी मुनिवत् । त्रोटितः चञ्चूतः स्थिति | पक्षे अर्थात् कर्मणां त्रोटिता चासौ स्थितिश्च तां तथा । सदा पिच्छविराजितः पक्षी रविवत् । पिच्छे पक्षैविराजितः । पक्षे च्छविः कान्तिस्तया राजितः तथा । विपक्षोचितवैभवः पक्षी नृपवत् । विशिष्टपक्षे रुचितवैभव : पक्षी । विशिष्टपक्षे रुचितवैभवो यस्य तथा । पक्षे विपक्षा वैरिणस्तेभ्य उचितवैभवो यस्य स तथा । स्फुरद्विपक्षस्थिति: पक्षी रणवत् । स्फुरन्ती द्विपक्षाभ्यां स्थितिर्यस्य स तथा । पक्षे विपक्षाणां वैरिणां स्थितिर्यत्र तत् तथा
11011
इति श्रीतपागच्छाधिनायक पातसाहि श्री अकब्बर प्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री ४ श्री हीरविजयसूरीश्वर शिष्य पण्डित श्रीशुभविजयगणिविरचिते काव्यकल्पलतावृत्तिकरन्दे श्लेषसिद्धि प्रतानप्रा प्तसर्ववर्णनस्तबकोद्योतको द्वितीय प्रसरः ॥ छ ॥ २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org