________________
१२६
काव्यकल्पलतावृत्तिः
स्थिति बिभ्रत् नपो राजदारवत् । अग्रदन्तचतुष्कस्थितिम् । पक्षे राजन्तस्तथा । शोभमाना अन्तर्मध्येस्थितिस्तां तथा। रसनाभोगभासुरः सो नारीनितम्बवत् । जिह्वाभोगस्तेन । पक्षे मेखलाभोगेन भासुरः तथा । घण्टिकास्थितिपेशलो नपो गजवत् । घण्टिकालम्बिका पक्षे घण्टिका घण्टा तथा । अधिकं धरयान्वित उभयथाऽपि नपः । कन्धरा ग्रीवा । पक्षेऽधिक धरया पृथ्व्यान्वित: तथा । सुग्रीवोचितवैभवो नृपो रामवत् । सुग्रीवा कन्धरा तया उचित (:) वैभवो यस्य स तथा । पक्षे सुग्रीवराज्ञा उचितवैभवः तथा । स्कन्धस्थितिमनोहारी नप: मणिवत् । स्कन्धोऽस:, तस्य स्थितिस्तया । पक्षे स्कन्धो नियतकालावधि:, कांधा पाँजरां इति प्रसिद्धस्तस्य स्थित्या तथा । गलच्छायामनोहरो नृपः कृष्णपक्षचन्द्रवत् । कण्ठस्य छायया शोभया । पक्षे गलन्ती पतन्ती छाया शोभा तया तथा । अधिकण्ठमनोरमो नृपो मन्त्रवत् । कण्ठमधिलक्ष्यीकृत्य मनोरमः । पक्षेऽधिकण्ठकारेण मनोरमः तथा । विभुजातिमनोहर उभयथाऽपि नृपः विशिष्टभुजाभ्यामतिमनोहरः । पक्षे विभुजातिर्न पजातिस्तया मनोहरः तथा । स्फुराबाहोरुचि बिभ्रन्नपः सैन्यनिवेशवत् । बाहो जस्य रुचि कान्तिं । पक्षे बवयोरैक्यात् वाहास्तुरङ्गाः, स्फुरन्तस्तुरङ्गा यत्र स तथा, एवंविधः सन् रुचि बिभ्रत् तथा । समदोजितवैभवो नृपः कुम्भिवत् । समदोभा बाहुभ्यां जितो वैभवोऽर्थाद्वैरिसम्पत् येन स तथा । पक्षे समदं मदयुक्तं, ऊर्जितं बलं, तस्य वैभवो यस्य स तथा । कक्षास्थितिमनोहरो नृपो वादिवत् । कक्षा बाह्वधोभागः । पक्षे कक्षा प्रतिज्ञा तस्याः स्थित्या तथा । सश्रीकफणिवैभवो नपः पातालवत् । स प्रसिद्धः, श्रिया उपलक्षितः कफणि: श्रीकफणिः, तस्य वैभवो यस्य स तथा । पक्षे सश्रीका: फणिनस्तेषां वैभवो यत्र तत्तथा । नितान्तमणिबन्धवान् नृपो रथवत् । मणिबन्धः करादिः तद्वान् । पक्षे नितान्तमत्यर्थ नेमिरक्षाग्रकीले 'त्वण्यणी नाभिस्तु पिण्डिका' (अ. चि. ३.४२०) इतिवचनादणिस्तस्य बन्धस्तद्वान् तथा । करस्थितिमनोहरो नृपात्मजो नपवत् । हस्तस्थित्या मनोहरः । पक्षे करो दण्डस्तस्य स्थितिस्तया तथा । सश्रीकरचि तस्थितिर्न पो धनिवत् । श्रीहस्तेन चिता व्याप्ता, स्थितिर्यस्य स तथा । पक्षे सश्रीका रचिता स्थितिर्येन स तथा । करभासितवैभवो नप उष्ट्रपालवत् । हस्तेन भासित: शोभित वैभवो यस्य स तथा । पक्षे करभैरुष्ट्र, आसितो व्याप्तो, वैभवो यस्य स तथा। तथा स्पष्टाङ्ग लस्थिति वहन् हस्तो गान्धिकवत् । अङ्ग लोऽङ्ग,ष्ठः, स्पष्टश्चासौ अङ्गलश्च स्पष्टाङ्गल,स्तस्य स्थितिः ताम् । पक्षे गुडस्थिति तथा । कामांकुशस्थिति वहन् नृपो हस्तिवत् । नखस्थिति । पक्षे काम अत्यर्थ, अकूशस्थिति तथा । सदाधिकरजस्थितिर्नप: सैन्यवत। अधिनखस्थितिः । पक्ष रजस्थितिः तथा । नरवरस्थितिभासुरो नपो वर्षाकवत् । नखस्थित्या । पक्षे न कठोरस्थित्या भासुरः । तथा सुसम्पन्नखचितस्थितिर्नुपः प्रासादवत् । सुसम्पन्नखैः सश्रीकनखैः, चिता व्याप्ता, स्थितिः । पक्षे सुसम्पन्न खे आकाशे, व्याप्तस्थितिः तथा । प्रहस्तस्थितिपेशला गायनो रावणवत् । 'प्रहस्तस्तालिकातालः' इति वचनात् (अ. चि. ३.२६०) प्रहस्तश्चपेटस्तस्य स्थित्या । पक्षे प्रहस्तो रावणप्रतीहारस्तस्य स्थित्या तथा । तालिकास्थितिसुन्दरो गायनो वनवत् । तालिका ताला तस्याः स्थित्या । पक्षे ताडिकावृक्षः तस्य स्थित्या तथा । अवक्रोडक्षणान्वितो नृपो महापुरुषवत् । अवबद्धस्य क्रोडस्य उत्सङ्गस्य, क्षणः उत्सवस्तेन सहितः । पक्षे अवक्र: सरल:, डलयोरक्याल्लक्षणान्वितश्च तथा । स्पष्टमुत्सङ्गपेशलो नृपः सकान्तस्त्रीवत् । उत्सङ्गपेशलः । पक्षे स्पष्टामुद्धर्षस्तस्याः सङ्गस्तेन पेशल: तथा । उच्चैरङकसमन्वितो नृपो दुष्कालवत् । अङक उत्सङ्गः । पक्षे रॅकसमन्वित: तथा । पौढो रसश्रियं बिभ्रत सुपुरुषो घटवत् । प्रौढहृदयस्थ श्रियं । पक्षे प्रौढः सन् रसश्रियं पानीयश्रियं तथा । समस्तनोदिताभोगो नारीजनो मनिवत् । स्तनोदिताभोगः । पक्षे समस्तं यथा स्यात् तथा नोदितोऽपहृत आ समन्तात् भोगो येन अथवा नोदित: प्रेरितः आभोगोऽर्थाद् ज्ञानप्रपञ्चो येन स तथा । तथा कुचेष्टाभोगभासुरो नारीजन: अधमवत् । कुचाभ्यामिष्टाभोगः । पक्षे कुचेष्टाया आभोगः तथा । द्विपयोधरसाटोपो नारीजनो नपवत् । द्विपयोधराभ्यां साटोपः । पक्षे द्विपो हस्ती, योधाः सुभटा,स्तेषां रसेनाटोपो यस्य स तथा । सदाऽपि चण्डसंरम्भो गणेशो नृपवत् । पिचण्डो जठरं, तस्य संरम्भ आटोपो, यस्य स तथा । पक्षे सदापि निरन्तरमपि, चण्ड: प्रचण्डः, संरम्भो यस्य स तथा । प्रौढोदरस्थिति वहन विनायकः शैलवत् । उदरस्थिति । पक्षे प्रौढ: सन् गर्तास्थिति भयस्थिति, वा तथा । नाभिभूतस्थिति वहन् धाताभिमानिवत् । नाभिस्तुन्दकूपिका, ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org