________________
काव्यकल्पलतावृत्तिः
१२५
समल्लासिनी तनपुराभ्यां देहनगराभ्यां श्रीर्यस्यः स तथा । पक्षे समल्लासिनी येनपुरे हंसके तयोः श्रीयंत्र स तथा । अधिकायस्थिति बिभ्रत् मल्लः शस्त्रीवत् । अधि सामस्त्येन कायस्थितिम् । पक्षे अधिकां अयःस्थिति तथा । कुबेरस्थितिसंयुतो महेश्वरः कैलासवत् । कुत्सितशरीरस्थितिसंयतः । पक्षे कुबेरो धनदस्तस्य स्थितिस्तया संयतः तथा । सुसम्पन्नवपुरम्य: सुरूपो नृपवत् । सुसम्पन्न यद्वपुस्तेन रम्यः । पक्षे सुसम्पदा नवायाप्ता पुरी, तया रम्यः तथा । कालेवरश्रियं बिभ्रत्सुरूप: कुमारीवत् । कलेवरं शरीरं, तस्य सम्बन्धिनी श्रीः कलेवरश्रीस्तां। पक्षे काले समये, वरश्रियं । तथा उत्तमाङ्गस्थिति बिभ्रत् सुमर्धा जैनमुनिवत् । मस्तकस्थिति । पक्षे उत्तमानामङ्गानामाचाराङ्गादीनां स्थिति तथा । अधिकेशश्रियं वहन् सुकेशी मन्त्रिवत् । अधिकेश श्रियं कचश्रियम् । पक्षे अधिकस्वामिश्रियं तथा । बहुकुन्तलसदृक्द्युतिः स्त्री सुभटवत् । कुन्तलाः केशास्तेषां सदृक् द्युतिर्यस्याः सा तथा । पक्षे बह्वी कुन्तेन भल्लेन लसन्ती द्युतिर्यस्य स तथा । सदा बालमनोरमः सुकेशीवृक्षवत् । सदा बालाः केशास्तैमनोरम: । पक्षे सन् आवाल: आलवालस्तेन मनोरमः । तथा वेणीसम्भ्रमसंभृतः स्त्रीकायो नदीवत् । प्रवेणीसम्भ्रमयतः । पक्षे वेणीप्रवाहः तस्य सम्भ्रमस्तेन सम्भूता युता तथा । सदा तुण्डक्षणान्वितो नृपो दातृवत् । तुण्डं मुखं, तस्य क्षण उत्सवः तेनान्वितः पक्षे डलयोरक्यात् स प्रसिद्धः दातुं लक्षणान्वितो दाता तथा । पृथुलास्यमनोहरो नृपो नर्तकीवत् । पृथुलं आस्यं मुखं, तेन । पक्षे पृथु पृथुलं, लास्यं नाट्यं तेन तथा । मुखरोचितवैभवो नृपः कथकवत् । मुखेन रोचितो वैभवो यस्य स तथा । पक्षे मुखरस्य, अत्र भावप्रधाननिर्देशबलान्मुख रत्वस्य उचितो वैभवो यस्य स तथा । बहुधा वदनस्थितिदुर्जनः सैन्यवत् । बहुधा वदनानां स्थितिर्यस्य स तथा । पक्षे बह्वी धावन्ती अनः स्थितिर्यत्र तत्तथा । अधिकाननरोचिष्णु: नारी गिरिवत् । आननेन रोचिष्णुः पक्षे काननेन रोचिष्णुः तथा । स्फुरत्पथललाटश्रीन पो भगकच्छपुरवत् । पृथुना ललाटेन श्रीर्यस्य स तथा । पक्षे पृथुला ललाटश्री: लाटदेशश्रीर्यस्मात् तत्तथा । अलिकान्तस्थिति वहन् तिलकं पद्मवत् । अलिकं भालं, तस्यान्तर्मध्ये स्थितिस्तां । पक्षेऽलिः भ्रमरः, तेन कान्ता मनोज्ञा या स्थितिस्तां तथा । प्रतिभालासितस्थितिः तिलक : कविवत् । प्रति सामस्त्येन, भाले आसिता स्थितिर्यस्य स तथा। पक्षे प्रतिभा बुद्धिस्तया लासित (ता) स्थितिर्यस्य स तथा । उच्चैःश्रवस्थिति बिभ्रन्नृप इन्द्रवत् । उच्चैरतिशयेन, कर्णस्थिति । पक्षे उच्चैःश्रवाः तुरङ्गस्तस्य स्थिति तथा। अधिकर्णस्थिति बिभ्रन्नपो दरिद्रवत् । कर्णस्थिति पक्षे अधिकऋणस्थिति तथा । वहन् वैश्रवणस्थिति नृपः कैलासवत् । वै निश्चयेन, श्रवणस्थिति । पक्षे वैश्रवणस्य धनदस्य स्थिति तथा । विश्वेक्षणस्थिति बिभ्रन्नपो हरिवत् । सर्वलोकैनस्थिति सहस्राक्षवत् । पक्षे विश्वे लोकमध्ये, क्षणस्य उत्सवस्थ स्थिति तथा । नेत्राभोगमनोहरो नृपो धनिवत् । नेत्र लोचने, तयोरासामस्त्येन, भोगस्तेन मनोहरः । पक्षे नेत्रस्य वस्त्रस्य आभोगस्तेन मनोहरः तथा । नयनोदितवैभवो नपो मुनिवत्, मन्त्रिवद्वा । नयनाभ्यां मदितवैभवो यस्य स तथा । पक्षे उभयत्र नयेन न्यायेन, नोदितः प्रेरितो वैभवो यस्य स तथा । स्पष्टां बकस्थिति वहन्नपः सरोवरवत् । अम्बके नेत्रे, तयोः स्थिति । पक्षे बकस्थिति । सदा लोचनभासुरो नपो मन्त्रिवत् । सदा लोचनाभ्यां भासुरः । पक्षे सत् आलोचनेन भासुरस्तथा । उल्लोचनमितद्युतिर्नु पो गृहवत् । उत्प्राबल्येन, नेत्रमितद्युतिः । पक्षे उल्लोचनमितद्युतिः चन्द्रोदयमितद्युतिः तथा । सुदर्शनमनोरमो नृपो विष्णुवत् । दर्शने नेत्रे ताभ्यां मनोरमो मनोज्ञः । पक्षे सुदर्शनेन चक्रेण मनोरमः तथा । सुतारास्थितिपेशलो नपश्चन्द्रवत् । तारास्थिति: कनीनिकास्थितिस्तया पेशलः । पक्षे तार नक्षत्राणि तासां स्थित्या पेशलः तथा । कलयन्नासिकास्थिति नृपः पान्थवत् । नासिकास्थिति । पक्षेन आसिकास्थिति उपवेशनस्थिति तथा । नऋस्थितिमनोरमो नृपः समद्रवत् । नासिकास्थित्या मनोरमः । पक्षे नका: जलचरजीवविशेषास्तेषां स्थित्या मनोरम: तथा । सदाधरमनोरमो नृपः पृथ्वीवत् । अधरेणौष्ठेन मनोरमः । पक्षे धराः पर्वताः तैमनोरमाः तथा । गण्डस्थितिमनोहारी नारीजन: वनवत् । गण्डयोः कपोलयोः स्थित्या मनोहारी । पक्षे गण्डाः जीवविशेषा, स्तेषां स्थित्या मनोहारि (री)। तथा हनुमद्वैभवान्वितो मुखप्रदेशो रामवत्। हनुमांश्चासौ वैभवान्वितश्च । पक्षे हनुमान् सेवकस्तस्य वैभवेनान्वितः तथा । कूर्चकस्थितिपेशलो मुखप्रदेशश्चित्रवत् । कूर्चमेव कर्चकं श्मश्र । पक्षे कर्चकस्थिति: कुचिकास्थितिस्तया पेशलः तथा । उच्चैरदनभासुरो नृपो बालकवत् । दन्तभासुरः । पक्षे अदनभासुरः तथा । असौ सदनस्थितिपः सुभोजिवत् । सदन्तस्थितिः । पक्षे सत् अशनस्थितिः तथा । राजदत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org