________________
१२४
काव्यकल्पलतावृत्तिः
वत् । अधिकेशश्रियं वहन्, मन्त्रिवत् । बहुकुन्तलसद्द्युतिः, सुभटवत् । सदावालमनोरमः, वृक्षवत् । वेणीसम्भ्रमसम्भृतो, नदीवत् । सदा तुण्ड (ङग?) क्षणान्वितः, दातृवत् । पृथलास्यमनोहरः, नर्तकीवत् । सखरोचितवैभव: कथकवत्। बहुधावदनस्थितिः सैन्यवत् । अधिकाननरोचिष्णुः, गिरिवत् । स्फुरत्पृथुललाटश्री:, भृगकच्छवत् । अलिकान्तस्थिति वहन, पद्मवत् । प्रतिमालासितस्थितिः, कविवत् । उच्चैःश्रवःस्थितिं बिभ्रत् इन्द्रवत् । अधिकर्णस्थिति बिभ्रत, दरिद्रवत् । वैश्रवणस्थिति वहन्, कैलासवत् । विश्वेक्षणस्थितिं बिभ्रत्, हरिवत् । नेत्राभोगभासुरो, धनवत । नयनोदितवैभव:, मुनिवत् । स्पष्टां बकस्थिति वहन्, सरोवरवत् । सदा लोचनभासुरः, मन्त्रिवत् । उल्लोचनमितद्युतिः, सुदर्शनमनोरमो, विष्णुवत् । सुतारास्थितिपेशल:, चन्द्रवत् । कलयन् नासिकास्थिति, पान्थवत् । नक्रस्थितिमनोरम:, समुद्रवत् । सदाधरमनोरम:, पृथ्वीवत् । गण्डस्थितिमनोहारी, वनवत् । हनुमद्वैभवान्वितः, रामवत् । कूर्चकस्थितिपेशल:, चित्रवत् । उच्चैरदनभासुरो, बालवत् । असौ सुदर्शनस्थिति बिभ्रत, सुभोजिवत् । राजदन्तस्थितिं बिभ्रत, राजदारवत् । रसनाभोगभासुरः, नारी नितम्बवत् । घण्टिकास्थितिपेशलः, गजवत् । अधिकन्धरयान्वितो, नृपवत् । सुग्रीवोदितवैभवः, रामवत् । स्कन्धस्थिति मनोहारी, ऋणिवत् । गलच्छायामनोहरः, कृष्णपक्षचन्द्रवत् । अधिकण्ठमनोरमः, मन्त्रवत् । विभुजातिमनोहरः, नृपवत् । स्फुरद्वाहोरुचि बिभ्रत्, सैन्यनिवेशवत् । समदोजितवैभवः, कुम्भिवत् । कक्षास्थितिमनोहरो वादिवत् । सश्रीकफणिवैभव: पातालवत् । नितान्तमणिबन्धवान्, रथवत् । करस्थितिमनोहरः, नृपवत् । सश्रीकरचितस्थिति:, धनिवत् । करभासितवैभवः, उष्ट्रपालवत् । स्पष्टाङगुलिस्थिति वहन् गान्धिकवत् । कामाङकुशस्थिति वहन्, हस्तिवत् । सदाधिकरजस्थितिः, सैन्यवत् । नरवरस्थितिभासुरः, वर्षार्कवत् । सुसम्पन्नखचितस्थितिः, प्रासादवत् । प्रहस्तस्थितिपेशलः, रावणवत् । तालिकास्थितिसुन्दरः, वनवत् । अवक्रोडलक्षणान्वितः, सत्पुरुषवत् । स्पष्टमुत्सङगपेशलः, सकान्तस्त्रीवत् । उच्चरङकसमन्वित्तो, दुष्कालवत् । प्रौढ़ोरसश्रियं बिभ्रत्, घटवत् । समस्तनोदिताभोगो, म निवत् । कुचेष्टाभोगभासुरः, अधमवत् । द्विपयोधरसाटोपः, नृपवत् । सदापि चण्डसंरम्भो, नृपवत् । प्रौढोदरस्थिति वहन्, शैलवत् । नाभिभूतस्थिति वहन्, अभिमानिवत् । कटकान्तस्थिति वहन्, नृपवत् । वहन् वैकटिकाभोगं, पुरवत् । सर्वदारोहपेशलः, सुभगवत् । अहो सज्जघनस्थितिः, नभोवत् । सज्जान गतवैभवः, धनिवत् । सदापि चण्डिकाभोगः, शम्भवत् । अपूर्वचरणस्थानः, सुभटवत् । द्विपादरचितस्थितिः, नृपवत् । सदा चलनश्रियं बिभ्रत्, भूमिवत् ।
तरस्त्वरोचितौ भावबद्धतारोचितौ तमः । वर्ण्यस्याकारशब्दानामते योज्याः पुरो बुधैः ।।५०।। विषाणपुच्छसास्नाभिः शूलाच्छादनचञ्चुभिः ।
वेगभीक्रोधयुद्धश्रीभीमतादिभिरुच्यते ।।५१।। तिर्यग्वर्णनाय तदङगोपाङगश्लेषशब्दा यथा--शङगारोपचितस्थितिः, स्त्रीवत् । सद्विषाणां श्रियं वहन, सर्पवत । विश्वे त्रपुच्छविभ्राजी, रसितलोहवत् । उच्चं चूतश्रियं वहन्, वनवत् । त्रोटितस्थितिमुद्वहन, मुनिवत् । सदापिच्छविराजितः, रविवत् । विपक्षोचितवैभवः, नपवत् । स्फुरद्विपक्षस्थितिः, रणवत्। इत्यादिश्लेषशब्दाः मत्कृतकाव्यकल्पलतापरिमले श्लेषसमुच्चयात् ज्ञातव्याः ।।
इतिश्री जिनदत्त० श्लेषसिद्धिप्रताने तृतीये सर्ववर्णनस्तषको द्वितीयः । म. टी. श्लेषोदाहरणानि यथा-उच्चैरङ्गमनोहरो रूपवान् नाट्यवत् । उच्चरतिशयेनाङ मनोहरः । पक्षे उच्चरङ्गेन नाट्यभूम्या मनोहरं तथा । साक्षादधिकविग्रह उच्चपुरुष: पारधिवत् । अधिको विग्रहः शरीरं यस्य स तथा । पक्षे ऽधिकं वीनां पक्षिणां, ग्रहो ग्रहणं, यस्य स तथा । तथा सुशोभितनुतः श्रियं वहन् रूपवान् नृपवत् सुशोभितनुतः सुशोभिशरीरात्, श्रियम् । पक्षे सुशोभितां तथा नुतां स्तुतां यं श्रियं तथा । समुल्लासितनूपुरश्रीनृपः स्त्रीचरणवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org