________________
काव्यकल्पलतावृत्तिः
१२३
वर्णको विलेपने मलयजे इत्युक्तेः। तथा पीवरज्यालयोद्योती वह्निर्धान्यवत । पीवरा या ज्वाला तथा उद्योती। पक्षे पीवा रज्जवस्तासामालयोऽर्थान्मूटकस्तत्रोद्योती तथा। मृदुदार: घट: कृतपुण्यवत् । मृदा मृत्तिकया, उदारः । पक्षे मृदवो दाराः कलत्रं, यस्य स तथा । इष्टिकासित असन्तोषी याज्ञिकवत् । स्वार्थे के: इष्टिका वांछा, तत्रासितः स्थितः । पक्षे इष्टिकायां यागे आसितः तथा । सदारुणस्थिति वहन् रविः क्रनरवत् गहवच्च । सदा अरुणस्थितिं पक्षे स प्रसिद्धः, दारुणस्थितिं पुनः दारुणः काष्ठात् स्थिति तथा । सत्काष्ठाभोगयुतो रविररण्यवत् । सत्काष्ठायाः दिशो भोगस्तेन युतः । पक्षे काष्ठानामाभोगस्तेन युतः तथा। धर्मयुतो मुनिर्धनुर्धरवत् । धर्म: पुण्यं, तेन यतः । पक्षे धर्मः कार्मकं, तेन युतः तथा। सदा जिनशोभी जैनः योगिवत् । सदा जिनो वीतरागो देवस्तेन शोभी । पक्षे अजिनं चर्म, तेन शोभी तथा। कृत्तिकाशोभितं गगनं महेश्वरवत् । कृत्तिका नक्षत्रं, तेन शोभितम् । पक्षे कृत्तिका चर्म तेन, अथवा कृत्तिका कृपाणी, तया शोभितः तथा । कार्तिकेयश्री: शिव: चर्मकारवत् । कार्तिकेयनाम्नः स्वसुतस्य श्रीर्यस्य स तथा । पक्षे स्वार्थे के कृत्तिकाचर्म, तत्सम्बन्धिनी श्रीर्यस्य स तथा । सुखटीकासितस्थितिभित्तिविषमग्रन्थवत् । सुष्ठ खटी तया कासिता राजिता स्थितिर्यस्याः सा तथा। पक्षे सुखेन टीकया सिता, बद्धा स्थितिर्यस्य स तथा ।
अथ समादिभ्यो यः स्थितिर्योज्यते । यथा-समायस्थितिः दाम्भिकवत् १ उपायस्थिति पवत् २ अधिकायस्थितिमल्लवत् ३ परमायस्थितिः सुपुण्यवत् ४ सुहृदयस्थितिः सज्जनवत् । परमं तरसाटोपं वहन् मल्ल आम्रफलवत् । परमं तरसा बलेनाटोपम् । पक्षे परं केवलं, अन्ते रसाटोपं तथा । स्पष्टान्तरस्थिति वहन मल्लो वर्णावलिवत् । स्पष्टां प्रकटां बलस्थितिम् । पक्षे स्पष्टानि यात्यन्तराणि, तेषां स्थिति तथा। सदाबिलांशुको मुनि: सर्पशिरस्थमणिवत्। सदा निरन्तरं, आबिलं अंशकं, यस्य स तथा। पक्षे सदाविले अंशवो यस्य स तथा। तथा उच्चेलो दिगम्बर: पर्वतासनप्रदेशवत् । उद्गतानि चेलानि वासांसि यस्मात् स तथा । पक्षे उच्चा इला पृथ्वी यत्र स तथा । तथा वेरावासश्रीः वृक्षः सुवस्त्रवत् । १: पक्षिण: आवासो नीडरूपस्तस्य श्रीयंत्र स तथा। पक्षे बेरे शरीरे आवाश्रीर्वसनश्रीर्यस्य वस्त्रस्य तत् तथा ।
तथा स्पष्टाम्बरस्थिति: सूर्यः सुवेषपुरुषवत् । स्पष्टा अम्बरे आकाशे स्थितिर्यस्य स तथा । पक्षे स्पष्टा अम्बराणां वस्त्राणां स्थितिर्यस्य स तथा । अधिकपोतस्थिति: सांयात्रिक: कपोतपालीवत् । अधिकं पोते स्थितिर्यस्य स तथा । पक्षे अधि सामस्त्येन, कपोतानां स्थितिर्यत्र स तथा । सदाधिकपट: पोतो दाम्भिकवत् । सदा नित्यं, अधिक: पट: शढ इति प्रसिद्धो यत्र स तथा । पक्षे अधि सामस्त्येन, कपटं यत्र स तथा । सदासिचयभासुरो धनी आयुधगृहवत् । सिचयैर्वस्त्रैर्भासुरः । पक्षे असिचयेन खड्गसमूहेन भासुरं तथा । विस्पष्टाञ्जनसल्लक्ष्मी वहन् नृपो नयनवत् । स्पष्टां प्रकटां जनानां सल्लक्ष्मीम् । पक्षे अञ्जनसल्लक्ष्मी तथा । शोभितार्णस्थिति वहन समुद्रोऽरण्यभूवत् । शोभितानि यानि अनि पानीयानि, तेषां स्थितिम् । पक्षे शोभिनी या तार्णस्थिति: तृणसम्बन्धिनी स्थितिस्तां तथा । तांतवस्थितिमुद्विभ्रत् पटवत् । तान्तवा तन्तुसम्बन्धिनी या स्थितिस्ताम् । पक्षे तां प्रसिद्धां, तवेति षष्ठयन्तप्रयोगश्चेति तथा । माधुर्यगुणसंयुतो गल्लये पदार्थः रम्यार्थवत् । माधुर्यं स्वादुत्वं, तद्रूपो यो गुणस्तेन युतः । पक्षे माधुर्यगुण: मनोज्ञत्वगुणस्तेन संयुतः तथा । लसल्लवणिमप्रौढः सुभगो लवणराशिवत् । लसन् दीप्यमानः, लवणिमा लावण्यं, तेन प्रौढः । पक्षे लवणिमा क्षारत्वं, तेन प्रौढः तथा । स्फुरत्तीव्ररुचिस्थितिर्लोलुपो रविवत् । स्फुरन्ती तीना रुचिर्वांछा, यस्य स तथा । पक्षे रुचिः कान्तिस्तस्याः स्थितिर्यत्र स तथा । तथा मौलिश्रोत्रति-'पुतौ स्फिजौ कटिप्रोथौ' इतिवचनात् (अ.चि. ३.२७३) स्फिगशब्द: पुतवाचक: । क्रोड: उत्सङ्गः तथा । प्रकोष्ठः कलाविकावट: कृकाटिकातलं पादतलं, भ्रान्तिर्गतिः, प्रगण्ड: कूर्परां सान्तः । शेषं सुगममिति : पुरुषादिवर्णनायामंगोपांग नाम ।
पुरुषादिवर्णनायामङगोपाङगनामश्लेषो यथा--उच्चरङगमनोहरो, नाट्यवत् । साक्षादधिकविग्रहो, दैत्यवत् । सुशोभिततनुःश्रियं वहन्, नृपवत् । समुल्लासितन पुरश्री:, स्त्रीक्रमवत् । अधिकायस्थितिं बिभ्रत् शस्त्रीवत् । कुबेरस्थितिसंयुतः, कैलासवत् । सुसम्पन्नवपूरम्यः, नृपवत् । कलेवरश्रियं बिभ्रत्, कुमारीवत् । उत्तमाङकस्थिति बिभ्रत्, जैनमुनि१. समुल्लासित . . . . नृपवत्"-लावृ, २. पुस्तके नास्ति । मकरन्दे त्वस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org