________________
१२२
काव्यकल्पलतावृत्तिः
वैभवो यत्र तत्तथा । अलं म्लानपदं बिभ्रत् सन्ध्याकमलं मानिवत् । अलं अत्यर्थं म्लानपदं सङ्कोचपदम् । पक्षे न विद्यते लो यत्र तदलं म्लानपदम् । कथम्भूतं ? अलं लरहितं मानपदं बिभ्रत् तथा । नितान्तमलिनस्थितिः भ्रमरः पद्मवत् । नितान्तं मलिना श्यामा स्थितिनितान्तमलिनस्थितिस्ताम् । पक्षे नितान्तं निरन्तरं, अलिनो भ्रमरस्य स्थिति । अत्र
दिति प्राक्तनं योज्यं तथा । उपकण्ठस्थिति बिभ्रत् सेवको हारवत् । उपकण्ठे समीपे या स्थितिस्ताम् । पक्षे कण्ठस्य समीपं उपकण्ठं तत्र या स्थितिस्तां तथा । सनीडस्थितिपेशलः सेवको वृक्षवत् । सनीडे समीपे स्थितिस्तया शलः । पक्षे सह नीडेन मालकेन वर्तते या सा सनीडा, सनीडा चासौ स्थितिश्च, तया पेशलस्तथा । सन्निधानस्थितिश्रेष्ठः सेवको धनिवत् । सन्निधानं समीपं तत्र स्थितिस्तया श्रेष्ठः । पक्षे प्रधाननिधानस्थित्या श्रेष्ठः । तथा विप्रकृष्टश्रियं वहन् धनी विप्रपुत्रवत् । विप्रकृष्टश्रियं विशिष्टतरलक्ष्मी । पक्षे विप्रैः कृष्टा आकर्षिता, श्रीलक्ष्मी, स्ताम् ।
का. क.
परमन्तरसाटोपं वहन् स्पष्टान्तरस्थितिम् ।
सदाविलांशुको चेलो वेरावासश्रियोऽम्बरम् ।। पोतः सदाधिकपटः सदासिचयभासुरः ।
विस्पष्टाञ्जन सल्लक्ष्मी: शोभितार्णस्थिति वहन् ।।
तान्तवस्थितिमुद्विभ्रन्माधुर्यगुणसंयुतः ।
लसल्लवणिमप्रौढ़: स्फुरत्तीव्ररुचिस्थितिः ।। मौलिश्रोत्रालिक भ्रूहनुरदकरदृक्तालुनासौष्ठवक्त्र
Jain Education International
स्कन्धग्रीवाभुजोरः स्तनकचनखवाङ्मध्यनाभ्यं सदेशाः ।
कक्षाजङघाङ्घ्रिरोमावलिकटिजघनाङ्गुष्ठगुल्फाङगुलीस्फिग्
गुह्यक्रोडप्रकोष्ठावटुकफणितल भ्रान्तिकान्तिप्रकाण्डाः ||
म. टी. अथाधेयादिशब्दा यथा - कीलेति कीलाभोगयुतो रथो वह्निवत् । कीलः कीलकः, तस्याभोगो विस्तारस्तेन युतो युक्तः । पक्षे कीलाः ज्वालास्तासां भोगस्तेन युक्तः । तथा गुणासंगयुतो निर्गुणनरः पटवत् सत्पुरुषवद्वा । गुणानामसङ्गोऽमिलनं, तेन युतः । पक्षे गुणानां तन्तूनां, आ सामस्त्येन, सङ्गस्तेन युतः । सत्पुरुषपक्षे गुणानां गाम्भीर्यादीनामासङ्गो मिलनं, तेन युतः तथा। चूर्णयुतं ताम्बूलं सुरभिजलवत् । चूर्णः दग्धपाषाणक्षोदस्तेन युतः । पक्षे चूर्णानि सुगन्धद्रव्याणि वासयोगाख्यानि, तैर्युतम् । तथा चन्द्रकयुतः शुक्लपक्षः समुद्गको वा, मयूरवत् । स्वार्थे के चन्द्रकश्चन्द्रमास्तेन युतस्तथा । चन्द्र एव चन्द्रकः कर्पूरस्तेन युतः । पक्षे चन्द्रकैः चांदला इति प्रसिद्धैर्युतस्तथा । दृढसन्धिसङ्गतो दृढाङ्गो निपुणनृपतिवत् । दृढ़: सन्धिरस्थिसन्धि, स्तेन सङ्गतः सहितः । पक्षे दृढ: सन्धिर्मेल, स्तेन सङ्गतो युक्तः तथा । सदालिपीनां लक्ष्मी वहत् पद्मं पुस्तकवत् । सदा निरन्तरं, अलिनो भ्रमरास्तैः पीनां पुष्टां लक्ष्मीं । पक्षे लिपीनामक्षरन्यासानां, लक्ष्मीं शोभां तथा । लेखान्वितः सोपानराशिः पुस्तकवत् । अत्र लेखा पङ्किस्तयान्वितः । पक्षे लेखा लिपिस्तयान्वितः तथा । रेखान्वितं चित्रं विस्तीर्णवस्तुवत् । रेखा उल्लेखस्तेनान्वितम् । पक्षे रेखा विस्तारस्तेनान्वितम् । यदुक्तं
रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपीति ।
तत्राभोगे यथा-आसीत् तस्या वदनकमले काऽपि लावण्यरेखा ।
उल्लेखे यथा-चित्रेऽपि तादृशी रेखा यादृशी कर्तुराकृतिः तथा ।
तथा अक्षराश्रितो मातृकापाठः सिद्धवत् । अक्षराणि अकास्ककारादीनितैराश्रितस्तदात्मक इत्यर्थः । पक्षे अक्षरं मोक्षस्तत्राश्रितः तथा । वर्णकाश्रितो मलयाद्विर्भोगिवत् । अत्र वर्णकैः चन्दनवृक्षैराश्रितः । पक्षे वर्णको विलेपनं तेनाश्रितः
For Private & Personal Use Only
www.jainelibrary.org