________________
काव्यकल्पलतावृत्तिः
१२१
पक्षे सदा खर्वा ह्रस्वा तमःस्थितिर्यत्र तत् तथा । स महासंकटोल्लासमवहन् कुशुलमखं बद्धहस्तिवत् । महासंकटस्यात्यन्तसंकीर्णस्योल्लासम् । पक्षे महासंकटं महत्कष्टं तस्योल्लासमुद्वहन् तथा । संबाधस्थितिमद्वहन कुशलमुखं बाधितवत् । संबाधा संकीर्णा, या स्थितिस्ताम् । पक्षे सं सम्यग्, बाधनं बाधस्तस्य स्थितिस्तामद्वहन् ।
अथ वर्ण्यस्याकारशब्दानामग्रेतरः १. त्वरोचित २. भावबद्ध ३. तारोचित ४. तम ५. आद्याः शब्दा योज्याः । यथा--स्थलतरस्थिति: गल्लो मल्लवत् । अतिशयेन स्थूला स्थलतरा, स्थितिर्यस्य स तथा । पक्षे स्थलं बहुतरं बलं तेन स्थितिर्यस्य स तथा । महत्त्वरोचितस्थितिमायवत । महत्त्वेन रोचितस्थितिः । पक्षे महतीत्वरा वेग,स्तेनोचिता योग्या, स्थितिर्यस्य स तथा । स्वदीर्घभावबद्धश्री: रज्ज: रविवत् । स्वस्य दीर्घभावः स्वदीर्घभाव,स्तेन बद्धा श्रीर्येन स तथा । पक्षे दीर्घा चासौ भावदीर्घभास्वस्य (च्च?) दीर्घभा तया अवबद्धा श्रीर्यस्य स तथा । सूक्ष्मतारोचितस्थितिः रोमराजि: अमावास्यावत् । सूक्ष्मतया रोचितस्थितिः, पक्षे सूक्ष्मताराभिरुचितस्थितिर्यस्याः सा तथा । गुरुतमस्थिति: मेरुरमावास्यावत् । गुरुतमा स्थितिर्यस्य स तथा । पक्षे गुरु च तत्तमश्च गुरुतमस्तस्य स्थितिर्यस्यां सा तथा । अत्र विसर्गलोपः प्राग्वत्।
का.क.
उपकण्ठस्थिति बिभ्रत् सनीडस्थितिपेशल: ।
सन्निधानस्थितिश्रेष्ठो विप्रकृष्टश्रियं वहन् ।
अथाधेयादिशब्दाः--
कीलाभोगगुणासङगचूर्णचन्द्र कसन्धयः ।
सदा लिपीनां लक्ष्मीलेखारेखाक्षरवर्णकाः ।।
पीवरज्वालयोद्योती मदारेष्टकासितौ ।।
दारुणस्थितिसत्काष्ठाभोगौ धर्मसदाजिनी ।। कृत्तिकाकार्तिकेयश्री: सुखटीकासितस्थितिः ।
समोपाधिकपरमसुहृद्भ्यः स्यादयः स्थितिः ।। म. टी. अथ क्रियाशब्दा : -सदा चटुलसल्लक्ष्मीर्वायुवश्यावत् । सदा चटुला चपला सती विद्यमाना लक्ष्मीर्यस्य स तथा । पक्षे सर्वकालं चटनि चाटुकारिवचनानि, तेषां लसन्ती लक्ष्मीर्यस्याः सा तथा । उच्चस्तरलतान्वित: गजकर्णो वनवत् । उच्चैरतिशयेन, तरलता कम्पनता, तया अन्वितो युक्तः । पक्षे उच्चस्तरा या लताः, ताभिरन्वितः तथा । अचलस्थितिविद्योती पर्वतो महेश्वरवत् । निश्चलस्थित्या विद्योती । पक्षे अचले पर्वते स्थितिस्तया विद्योती तथा । सदा स्थिरचितद्युति: मणि: शिववत् । सदा स्थिरा निश्चला, चिता व्याप्ता, द्युतिर्यस्य स तथा । पक्षे सदाऽस्थिरचिता तिर्यस्य स तथा । प्रकाशयन् सदाध्वानं सुखं रविवत् । सर्वदाध्वानं शब्दम् । पक्षे अध्वानं मार्ग तथा । उच्चैः कलकलान्वितः स्त्रीसमहः चन्द्रवत् । उच्चैः कलकल: कोलाहल,स्तेनान्वितः । पक्षे कलामनोज्ञाश्च ताः कलाश्च कलकलाः, ताभिरन्वित: तथा । साक्षाद्विपाटनाटोपः कुठारो हस्तिपकवत् । साक्षात् विपाटनं दारणं, तस्याटोपो यस्य स तथा । पक्षे अक्षो ज्ञाने इत्युक्तेः साक्षः सज्ञानस्तथा । आद्विपाटनं, आ सामस्त्येन, हस्तिगति: तस्याटोपो यस्मात स तथा पूर्वेण सह कर्मधारयः तथा । सत्वरोचितवैभवो वायुः सुभटवत् । सह त्वरया वेगेन वर्तते य: स सत्वरः । सत्वर: चितो योग्यो वैभवो यस्य स तथा । पक्षे सत्त्वेन रोचितो दीपितो वैभवो यस्य स तथा । असौ पवित्रसल्लक्ष्मी: न्यायी नाकपर्वतवत् । पवित्रा सरलक्ष्मीर्यस्य स तथा । पक्षे पविर्वचं, तस्मात् त्रसल्लक्ष्मीनश्यल्लक्ष्मीर्यस्य स तथा । सज्जपावनवैभवो व्यवहारी वनवत् । सज्जः सज्जीभतः, पावनः पवित्रो, वैभवो यस्य स तथा । पक्षे सत्प्रधानं जपावनं जपारक्षणं, तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org