________________
काव्यकल्पलतावृत्तिः
सदा सतीव्रतारोपो निशितारोचितस्थितिः ।
पथस्थितिमनोहारी स्फुरद्विपुलकस्थितिः ॥ अहो वामनताटोपः सदाऽखर्वतमस्थितिः ।
समहासङकटोल्लासः सम्बाधस्थितिमद्वहन् । तरस्त्वरोचितौ भावबद्धतारोचितौ तमः ।
वर्ण्यस्याकारशब्दानामेते वोज्या: पुरो बुधैः ।।५।। यथा--स्थलतरस्थितिः । महत्त्वशं चितस्थितिः । सुदीर्घभावबद्धश्रीः । सूक्ष्मतारोचितस्थितिः। गरुतमस्थितिः । अथ क्रियाशब्दाः
सदा चटुलसल्लक्ष्मीरुच्चस्तरलतान्वितः ।
अचलस्थितिविद्योती सदा स्थिरचितद्यतिः ।। प्रकाशयन् सदाध्वानमुच्चैः कलकलान्वितः ।
साक्षाद्विपाटनाटोपः सत्वरोचितवैभवः ।। असौ पवित्रसल्लक्ष्मीः सज्जपावनवैभवः ।।
अलं लानपदं बिभ्रन्नितान्तमलिनस्थितिः ।।
म. टी. अथाकारशब्दा यथा--सद्वत्ताभोगसंशोभी चन्द्रो विवेकिवत् । वृत्त: वृत्ताकारः संश्चासौ वृत्तश्च सद्वृत्तस्तस्थाभोगो विस्तारस्तेन संशोभी । पक्षे सद्वत्तस्य सदाचारस्याभोगस्तेन संशोभी, तथा । सर्वदारालसस्थितिः सर्पः साधुवत् । सर्वदा सर्वकालं, आरालो वक्रः, सह स्थित्या वर्तते यः स सस्थितिररालश्चासौ सस्थितिश्च अरालसस्थितिः । पक्षे सर्वदारेषु सर्वस्वीष, अलसा स्थितिर्यस्य स तथा। उद्धरस्थितिविद्योती तालवक्षः कैलासवत । उद्धरस्थितिः उच्चस्थितिस्तया विद्योती । पक्षे उत् प्राबल्येन हरस्थित्या विद्योती तथा । ह्यधिक प्रांशुवैभवो मेर्जलप्रतिबिम्बितार्कवत् । अधिकं यथा स्यात्तथा, प्रांशुरुच्चस्तरो वैभवो, यस्य स तथा । पक्षे अधि सामस्त्येन, कम्प्रा: कम्पिता, अंशवः किरणास्तेषां वैभवो यस्य स तथा । ऊमिमद्वैभवोद्भासी सर्पः समुद्रवत् । अमिमान् वक्रो वैभवस्तेनोभासी । पक्षे कल्लोलवद् वैभवेनोद्भासी तथा। वक्राङ्गस्थितिशोभित: सर्पः मानससर:प्रदेशवत् । वक्रा या अङ्गस्थितिस्तथा शोभितः। पक्षे वक्राङ्गाः हंसास्तेषां स्थित्या शोभित: तथा । सदैव तनुताभोगः तपस्वी जिनेशवत् । सर्वकालं तनता कृशता, तस्य आभोगो विस्तारो यस्य स तथा। पक्षे सदैवतैः देवयुतैरर्थान्तरैर्नु तः स्तुत, आभागो वस्तुतोऽतिशयविस्तारो यस्य स तथा। नितान्तमणिमदद्युतिः कुमणिरोहणाचलवत् । नितान्तं निरन्तरं, अणिम्ना सूक्ष्मा, द्युतिर्यस्य स तथा । पक्षे निरन्तरमणियुका द्युतिर्यस्य स तथा । सदा सतीव्रतारोपः परशुः सतीवत् । सदा तीव्रता तीक्ष्णता, तस्या आरोपस्तेन सह वर्तते यः स सतीव्रतारोपः । पक्षे सती व्रतस्यारोपो यस्यां सा तथा । निशिता रोचितस्थिति: कुठारो नभोवत् । निशिता तेजिता, आ समन्तात् रोचिता स्थितिर्यस्य सः तथा । पक्षे निशि रात्रौ तारकाणाम चिता योग्या स्थितिर्यत्र तत् तथा । पृथस्थितिमनोहारी पट: पृथराज्यवत् । पृथुस्थित्या विस्तीर्ण स्थित्या, मनोहारी । पक्षे पथनाम्नो राज्ञः स्थित्यावस्थानेन, मनोहारि(री) तथा । स्फुरद्विपुलकस्थिति: पृथिवी मिलितकान्तस्त्रीवत् । विपुला एव विपुलका, सा चासौ स्थितिश्च, स्फुरन्ती विपुलकस्थितिर्यस्यां सा तथा । पक्षे विशिष्ट: पुलको रोमाञ्चस्तस्य स्थितिर्यस्याः सा तथा । तथा अहो वामनताटोपो वामनपुरुषो विनयवत् । वामनता कुब्जता, तस्या आटोपो यस्य स तथा । पक्षे वामो मनोज्ञो, नताटोपो नतपुरुषस्याटोपो यत्र स तथा । सदा खर्वतमस्थितिः वामनः प्रभातवत् । सदा खर्वतमा अतिशयेन कुब्जा, स्थितिर्यस्य स तथा ।
पक्षे विशितकान्तस्त्रीवता पक्षे पथः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org