________________
काव्यकल्पलतावृत्तिः
तत् तथा । स्फुरद्धरित्रिकास्थानो नरो गरुडवत्, आकाशवद्वा । स्फूरद्वसूधायां स्थानं यस्य स तथा । पक्षे हरित्रिकं । नारायणपष्ठ्यधोभागः, आसण इति प्रसिद्धः, स्फुरद्धरित्रिकस्यास्थानं स्थानं स्थापनं यस्मिन् स तथा। आकाशपक्षे हरित्रिकं सोमसूर्यवायवः, तेषां स्थानं तथा । स्फूरद्धरांकसंस्थितिर्नरो गौरीवत् । स्फुरन्ती चासौ धरा च, तस्या अङके मध्ये उत्सङ्गे वा संस्थितिर्यस्य स तथा । पक्षे स्फुरन् यो हरस्तस्योत्सङ्गे संस्थितिर्यस्याः सा तथा इति भूम्याधारः । वडवामखरोचिष्णु: सर्प: नासिकावत् । वडवामुखे पाताले रोचिष्णुः । पक्षे वडवामुखवदश्वामुखवद् रोचिष्णुः तथा । मज्जपातालवैभव: सर्पः वनवत् । सज्जपाताले वैभवो यस्य स तथा । पक्षे सन्तो विद्यमाना जपातालाश्च वृक्षविशेषास्तेषां वैभवो यत्र तत् तथा । स्फुरद्विरसनावास: पाताल: स्त्रीनितम्बवत् । स्फुरन्तो द्विरसनाः सर्पा, स्तेषां आवासो यत्र तत्तथा। पक्षे स्फूरन्ती वि विशिष्टा, रसना कटिमेखला, तस्या आवासो यत्र स तथा । अत्र अदीर्घाद्विरामैके'ति सूत्रेण (हे.व्या.१.३.३२) दस्य द्वित्वम् । अथवा स्फुरन्यौः द्वे रसने मेखले, तयोरावासो यत्र स तथा। सदा बलिगहस्थिति: सर्पः मान्त्रिकवत, नगरवद्वा। सदा बलिगहे पाताले स्थितिर्यस्य स तथा । पक्षे सदा बलिगहे बलिप्रधाने गृहे, स्थितिर्यस्य स तथा । नगरपक्षे-सन्ति प्रधानानि आवलिगहाणि, तेषां स्थितिर्यत्र तत्तथा इति पातालाधारः । गिरिस्थितिमनोहारी हरः कविरिव । गिरौ पर्वते स्थितिः, तया मनोहारी मनोज्ञः । पक्ष गिरिवाण्यां स्थितिस्तया मनोहारी। तथा कुशैलाभोगभासुरो हरो बनमिव । कौ पृथ्व्यां (थिव्यां ?) । तथा शैलेषु आभोगो विस्तारस्तेन भासुरः सर्वव्यापित्वात् । पक्षे कुशो दर्भः, एला एलावृक्ष,स्तयोराभोगो विस्तारो यत्र तत्तथा । प्रतिभधरसंरम्भो हरो व्यवहारिवत् । प्रतिभूधरे प्रतिपर्वते, संरम्भ आटोपो, यस्य स तथा । पक्षे प्रतिभूः साक्षी, तस्य धरणं धरस्तत्र संरम्भो यस्य स तथा । पर्वतस्थितिमुद्वहन् हरो गणनवद्, विप्रवद्वा । पर्वतस्थिति शैलस्थिति । पक्षे पर्वत: अङ्ग लीपर्वतः, स्थिति य (या) तो गगनमङ्ग लीपर्वसु भवति तथा। अमावास्यादिपर्वणि, ततः स्थिति मर्यादां इति शैलाधारः । सश्रीकाननरोचिष्णुः हस्ती तरुणीवत् । सश्रीकानने सश्रीकवने रोचिष्णुः । पक्षे सश्रीक यदाननं मुखं तेन रोचिष्णुः तथा । कान्तारचितवैभवो हस्ती मुनिवत् भोगिवद्वा । कान्तारं वनं, तत्र चितो व्याप्तो, वैभवो यस्य स तथा । पक्षे कान्ता भार्या, तस्या अ(आ?)चितो वैभवो येन स तथा । भोगिपक्षे कान्ताया रचितो वैभवो येन स तथा । अधिकासारसारश्रीरुद्यानो मेघवत् । अधि सामस्त्येन, कासारे तडागे, सारा प्रधाना, श्रीर्यस्य म तथा । पक्षे अधिक: आसारो वेगवान् वर्षः, तस्य सारा श्रीयंत्र स तथा । विधुनीतः श्रियं वहन्नुद्यानः पूर्णिमावत् । वि विशिष्टा, धुनी नदी, ततः श्रियं वहन् । पक्षे विधुः चन्द्रस्तेन नीता प्राप्ता या श्रीस्तां इति । वनसारो नद्याधारः । स्वर्णस्थितिमनोहारी कासारो मेरुवत् । सुष्ठ अर्णः पानीयं तस्य स्थितिस्तया मनोहारी । पक्षे स्वर्णस्थित्या कनकावस्थानेन मनोहारी तथा । सदा नीरोचितस्थिति: सरो नपवत वनवहा । सर्वदा नीरेण जलेनोचित (ता) स्थितिर्यस्य तत्तथा । पक्षे स प्रसिद्धः, दानमस्यास्तीति दानी, तथा रोचितस्थितिः । वनपक्षे रलयोरैक्यात् सदा नीडोचितस्थितिः तथा । सज्जलक्षणविद्योती सरो वैयाकरणवत् । प्रधाना जले ये क्षणा उत्सवाः तैः। विद्योतिपक्षे सज्जं यल्लक्षणं व्याकरणं, तेन विद्योती तथा । सदम्भस्थितिपेशलं सरो दाम्भिकवत । सदम्भ : सत्पानीयं, तस्य स्थित्या पेशलं मनोहरम् । पक्षे स प्रसिद्धः दम्भस्थित्या छद्मस्थित्या पेशलः इति । जलाधारः सम्पन्नवेश्मनि स्थायी नरः शिलाकूटकवत् । प्राप्तगृहे स्थायी पक्षे सम्पदा नवे सम्पन्नवे, अश्मनि पाषाणे, स्थायी तथा । सदनस्थितिभासितो नरः शाकटिकवत् । गृहस्य स्थित्या भासितः । पक्षे सत अनः शकटं, तस्य स्थित्या भासित: तथा । सद्मनः स्थितिमुबिभ्रन्नरः साधवत् । समनः गृहस्य, स्थितिम् । पक्षे प्रधानमन:स्थिति तथा । सुशोभिनि लये स्थितिर्नरो गीतक्त् । सुशोभी चासौ निलयश्च सुशोभिनिलयः सुगृहं, तस्मिन् स्थितिर्यस्य स तथा । पक्षे सुशोभिनि शोभमाने लये स्थितिर्यस्मात् तत् तथा इति गृहाधारः । का. क.
ऊर्मिमद्वैभवोद्भासी चक्राङगस्थितिशोभितः ।।
सदैव तनुताभोगो नितान्तमणिसद्द्युतिः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org