________________
११८
asarमुखरोचिष्णुः सज्जपाताल वैभवः ।
गिरिस्थितिमनोहारी कुशैलाभोगभासुरः ।
स्फुरद्विरसनावासः सदा बलिगृहस्थितिः ॥
सश्रीकाननरोचिष्णुः कान्तारचितवैभवः । अधिकासारसारश्रीविधुनीतश्रियं वहन् ।।
प्रतिभूधरसंरम्भः पर्वतस्थितिमुद्वहन् ।
स्वर्णस्थितिमनोहारी सदानीरोचितस्थितिः ।
अथाकार शब्दा:--
सम्पन्नवेश्मनि स्थायी सदनस्थितिभासितः ।
सज्जलक्षणविद्योती सदम्भस्थितिपेशलः ||
Jain Education International
सवत्ताभोगसंशोभी सर्वदारालसस्थितिः ।
इति पातालाधारः ।
उद्धरस्थितिविद्योती ह. यधिकं प्रांशुवैभवः ।।
इति शैलाधारः ।
इति वनसरोनद्याधारः ।
सद्मनः स्थितिमुद्बिभ्रत् सुशोभिनिलये स्थितः ॥
इति जलाधारः ।
इति गृहाधारः ।
म. टी. अथाधारशब्दा यथा— स्वर्जनस्थितिरोचिष्णुः स्वर्गः सुवणिग्वत् । स्वर्जनाः स्वर्गजना देवा, स्तेषां स्थितिस्तया रोचिष्णुः । पक्षे सुष्ठु अर्जनं स्वर्जनंः तस्य स्थित्या रोचिष्णुः । तथा स्वर्गलाभकरस्थितिः धर्मः हस्तिवत् । स्वर्गस्थ लाभः स्वर्गलाभस्तत्कारिणी स्थितिर्यस्य स तथा । पक्षे सुष्ठु अर्गला स्वर्गला, स्वर्गलावदाभा यस्य स स्वर्गलाभ:, स्वर्गलाभश्चासौ करश्च हस्तः, स्वर्गलाभकरस्य शृण्डादण्डस्य स्थितिर्यस्य स तथा । सदा दिवि हितोल्लासः देवो मुनिवत् । सर्वदा दिवि तविषे हितो हितकारी उल्लासो यस्य स तथा । पक्षे सत्साधुः वर्यजनः सन् आदिर्येषां ते सदादयो जनास्तेषु तेषां चाविहित उल्लासो येन स तथा । सुरावासनयाऽन्वितः इन्द्रः बलदेववत् मद्यपवहा । सुरावास: स्वर्गस्तत्र यो नयः तेनान्वितः । पक्षे सुरा मदिरा, तस्था वासना, तयान्वितः सहितः इति स्वर्गाधारः । सव्योमासङ्गविद्योती सूर्यः शिववत् । सः प्रसिद्धः व्योम्न आसङ्गः, आ समन्तात् सङ्गः आसङ्ग, स्तेन विद्योतते इति । विद्योतीपक्षे सव्या वामपार्श्वस्था चासौ उमा पार्वती च तस्याः सङ्गस्तेन विद्योती तथा । सन्नभोगमनस्थितिः सूर्यो विद्याधरो वा मुनिवत् । सत्प्रधानं नभोगमनं तत्र स्थितिर्यस्य स तथा । पक्षे मनसः स्थितिर्मन:स्थितिः, भोगे मनः स्थितिर्भोगमनस्थितिः, सन्ना खिन्ना भोगमनस्थितिर्यस्य स तथा । विसर्गलोपात् तथा अभ्रान्तस्थितिरोचिष्णुः सूर्यः तत्त्वज्ञवत् । अभ्रस्याकाशस्य अन्तर्मध्यं, तत्र स्थित्या रोचिष्णुः । पक्षे अभ्रान्तस्य भ्रमरहितस्य स्थित्या रोचिष्णुः तथा । सदाकाशकृतस्थितिः सूर्यः शरद्वत् । सती प्रधानाकाशे स्थितिर्यस्य स तथा । पक्षे सर्वदा काशैः शरकड इति प्रसिद्धैः कृता स्थितिर्यत्र सा तथा इति इति व्योमाधारः । स्वयम्भूस्थितिविभ्राजी मनुष्यो नारायणनाभिकमलवत् । स्वयमात्मना, भुविस्थितिर्भूस्थितिस्तया विभ्राजी । पक्षे स्वयम्भूर्ब्रह्मा तस्य स्थितिस्तया विभ्राजी तथा । सम्पन्नवसुधास्थितिर्मनुष्यः पातालवत् । सम्पन्ना प्राप्ता वसुधायां स्थितिर्येन स तथा । पक्षे अर्थात् माधुर्यादिसम्पदा नवा सम्पन्नवासावासी सुधा च तस्याः स्थितिर्यत्र
काव्यकल्पलतावत्तिः
For Private & Personal Use Only
www.jainelibrary.org