________________
काव्यकल्पलतावृत्तिः
सव्योमासङगविद्योती सन्नभोगमन [:] स्थितिः ।
अभ्रान्तस्थितिरोचिष्णुः सदाकाशकृतस्थितिः ।।
इति व्योमाधारः ।
स्वयं भूस्थितिविभ्राजीसम्पन्नवसुधास्थितिः ।
म. टी. अथ पीतवर्णपदार्थो यथा--अधिकश्रियं बिभ्रत् काञ्चनं वसन्तवदनवद्वा। कंद्रः,पीतवर्णस्तथा च अधि सामस्त्येन कद्रुश्रियं पीतश्रियं बिभ्रत्पक्षे उभयथाऽपिद्रुणां श्री:द्रुश्री:, अधिका चासो द्रुश्रीश्च, तां बिभ्रत्तया। कलारचितवैभवः सुवर्गपुञ्जः चन्द्रवत् डलयोरक्यात् कडारः पीतवर्णस्तेन चितो व्याप्तो, वैभवो यस्य स तथा पक्षे कलाभिः रचिततः वैभवो यस्य स तथा रङ्गत् पिङ्गलतासङ्गी सुवर्णपुजः कमलवत् । रङ्गत् पिङ्गलता पीतता, तस्याः सङ्गी, पीतत्त्वाश्रयीत्यर्थः पक्षे रङ्गन्ती या पिङ्गलता पीतवल्ली, ताङ्ग तथा मधुपीतं श्रियं वहन सूवर्णपुञ्जः कमलवत । मधवत् पीतश्रियं । पक्षे मधुपीत: भ्रमरीतः, श्रियं वहन् । तथा जातरूपश्रियं बिभ्रत् कनकाद्रिः, तरुणीजनवत् । जातरूपं सुवर्ण तश्रियं शोभा । पक्षे जाता उत्पन्ना रूपंथी: रूपलक्ष्मीस्तां बिभ्रत् । तथा परागश्रीः विराजितः सुवर्णपुञ्जः शठकानवत् । परागः पष्परजस्तद्वत् श्रीस्तया विराजितः । पक्षे परा प्रकृष्टा, या आगःश्रीः अपराधश्रीस्तया विराजित: तथा। कर्णिकारचितच्छायः सुवर्णपुजः सुमुखीमुखवत् । कर्णिकारकुसुमं पीतं, तद्वत् चिता व्याप्ता, छाया शोभा, यस्य प्स तथा । पक्षे कर्णिकया कर्णाभरणेन रचिता छाया यस्य तत् । तरणिस्थिति भासुरः सुवर्णपुञ्जः समुद्रवत् । मध्यान्नह्न सूर्यस्य पीतत्वात् तरणिवत सूर्यवत् स्थितिभासुरः । पक्षे तर नां बेडानां स्थित्या भासुरः इति पीतवर्णः ।
अथ श्यामपदार्थों यथा-असितत्वमनोहारी राहः सुभटवत् । श्यामत्वमनोहारी । पक्षे असितत्वं खङ्गतत्यं, तेन मनोहारी तथा। बहुश्यामलताऽन्वितो राहुः बनवत् । प्रचुरकृष्णता तयाऽन्वितो युक्तः । पक्षे प्रचुराश्च ता: श्यामलताश्च कृष्णवल्लयस्ताभिरन्वितं तथा। स्वभावनीलसल्लीलो राहः सिंहवत, कविसमये श्यामनीलयोरैक्यात् । स्वभावेन नीलासल्लीला यस्य स तथा। पक्षे स्वा स्वकीया भा कान्तिस्तयोपलक्षिता अवनी पथिवी, तत्र लसन्ती लीला यस्य तथा । सदारामोदितद्युतिः राहुः नगरवत् । राजवद्वा रामः श्यामवर्णस्तेन उदितद्युतिः । पक्षे सदा आराम वनानि, तैरुदितद्युतिः, सदा सर्वकालं, रामाभिः स्त्रीभिरुदितद्युतिर्वा; दारैः स्त्रीभिरामोदिता या द्यतिस्तया सह वर्तते यः स तर्थोत वा । तथा केशवामोदितच्छायो राहः मुकेशीधम्मिल्लवत् । केशववदामोदिता छाया कान्तिर्थस्य स तथा। पक्षे केशीर्वामा प्रकृष्टा, उदिता छाया यस्य स तथा । नदीनंश्रीमनोरमो राहुः तेजस्विवत् । नदीन: समुद्रस्तस्य' श्रीस्तया मनोहरः । पक्षे नदीनश्रिया अदीनलक्षया मनोहरस्तया। अन्धकारातिरो विष्णुः राहः कैलासवत् । नमो वदति रोविष्णुः दीप्तिमान् । पक्षे अन्धकाराति: हरस्तेन रोचिष्णुस्तथा। बिभ्रत्कुवलयस्थितिः राहन पवत् शेषनागवद्वा कुवलयवत् स्थिति नीलस्थितिम् । पक्षे कुवलयं भूवलयं, तस्य हिथति बिभ्रदिति श्यामवर्णः ।।
अथ धूसरपदार्थों यथा-वधूसरसाटोप: पारावतो मुनिवत् । नूतनो यो धूसरो धु (धू) सरवर्णस्तेन साटोपः । अथवा नवा धूसरा, सा लक्ष्मीः, तस्या आटोपो यस्य स तथा ।पक्षे नवधूसरसाटोपः वध्वाः सरसाटोपो यस्य नास्तीत्यर्थः । तथा सदाशबलसदद्युतिः कपोतः श्मशानवत् नृपवद्वा । सर्वदा शबला कर्बरा, सद्बुतिर्यस्य स तथा। पक्षे सदाशबानिमृतकानि, तैः सद्युतिर्यस्य स तथा। शसयोरक्यात् सदा सबला बलयुक्ता सती, द्युतिः कान्ति,र्यस्य स तथा। विभात्यधिकपोत:श्री:रासभः स यांत्रिकवत् । अधिसामस्त्येन, कपोतस्य सदशा श्रीर्यस्य स तथा । पक्षे अधिक पोतश्रीर्वहनश्री, र्यस्य स तथा। रासभासितवैभव: कपोतो नारीहल्लिसकवत । रासभवदसितो वैभवो यस्य स तथा । पक्षे रासैः रासकैर्भासितः शोभितो वैभवो यत्र स तथा, इति धूसरवर्णः। का. क. स्फुरद्धरित्रिकास्थानः स्फुरद्धाराडकसंस्थितिः ।
इति भूम्याधारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org