________________
११६
ऽमात्यवत् । रूप्यसमूहसदृशश्रियं तेनात्र 'अदीर्घाद्विरामैकव्यञ्जने' इति सूत्रण (हे. व्या. १.३.३२) राजतः भूपालात् इति श्वेतवर्णः ।
अथ रक्तपदार्थः अधिकारुण्यसंशोभी सूर्यो मुनिवत् । अधिकं अरुणस्य भाव आरुण्यं रक्तत्वं तेन शोभी । पक्षे अधि सामस्त्येन कारुण्यं दया, तेन शोभी तथा । स्फुरन्मांजिष्टवैभव: सूर्यो गांधिकवात् । स्फुरन् माञ्जिष्टो रक्तो वर्णस्तस्य वैभवः सम्पद् यस्य स तथा । पक्षे मञ्जिष्टायाः मजीठ इति प्रसिद्धायाः, नवो वैभवो यस्य स तथा । सदा विराजिताम्रश्रीः सूर्यो वसन्तवत् । सदा विराजिनी ताम्रवत् श्रीर्यस्य स तथा । पक्षे विराजिताम्राणां शोभितचूतानां श्रीर्यत्र स तथा । बहुलोहित वैभवः सूर्यः तार्किकवत् बहुलोहितो बहुरक्तो वैभवो यस्य स तथा । पक्षे बहुलं ऊहितं विचारितं तर्कितं वा, तस्य वैभव यस्य स तथा । विद्रुमप्रवरच्छायः सूर्यो मरुदेशवत् । प्रवालवत् प्रवरा प्रधाना छाया शोभा यस्य स तथा । पक्षे प्रवरा चासौ छाया च प्रवरच्छाया, द्रुमाणां प्रवरच्छाया द्रुमप्रवरच्छाया, विगता द्रुमप्रवरच्छाया यस्मात् स तथा । प्रवालस्थितिपेशल: सूर्यः शिरोवत् । प्रवालस्थितिवत् पेशलः । पक्षे प्रकृष्टा वालाः केशास्तेषां स्थितिस्तया पेशलं तथा । अशोकश्रीमनोहारी सूर्यो योगिवत् । अशोकनामा वृक्षस्तस्य श्रीः रक्ततारूपा, तया मनोहारी । पक्षे न शोको ऽशोक, स्तस्य श्रीस्तया मनोहारी, तथा । बन्धुजीवनर्वार्द्धभाः सूर्यः सत्पुरुषवत् । बन्धुजीवनाम पुष्पं तस्य नवा ऋद्धिर्नवृद्धि, स्तद्वद्भाः कान्तिर्यस्य स तथा । पक्ष बन्धूनां बान्धवानां जीवनद्धिः जीवितसदृशा ऋद्धिः जीवनद्धिस्तस्या भा यस्मात् स तथा इति, रक्तवर्ण: ।
का. क. एवं सर्वत्र गुणशब्दाः सहग्गुणशब्दाश्च श्लेष्याः ।
अधिकारुण्यसंशोभी
विद्रुमप्रवरच्छायः
अथाधा रशब्दा:
अधिकद्रुश्रियं बिभ्रत् कलारचितवैभवः ।
जातरूपश्रियं
स्फुरन्माञ्जिष्ठवैभवः । सदाविराजिताम्रश्रीर्बहुलोहितवैभवः || प्रवालस्थितिपेशलः । अशोकश्रीमनोहारी बन्धुजीवनवधि भाः ।।
रङगत्पिङ्गलतासङगी मधुपीतश्रियं वहन् ॥ बिभ्रत्परागश्रीविराजितः ।
कणिकारचितच्छाय स्तरणिस्थितिभासुरः ।।
अस्तित्वमनोहारी बहुश्यामलतान्वितः ।
केशवामोदितच्छायो नदीनश्रीमनोरमः ।
Jain Education International
स्वभावतीलसल्लील: सदारामोदितद्युतिः ॥
अन्धकारातिरोचिष्णुबिभ्रत्कुवलयस्थितिम् ।।
नवधूसर साटोपः सदा शबलसद्युतिः ।
विभास्याधिकपोतश्रीरासभासित वैभवः ॥
स्वर्जन स्थितिरोचिष्णुः स्वर्गलाभकरस्थितिः ।
सदा दिवि हितोल्लासः सुरावासनयान्वितः ॥
काव्यकल्पलतावृत्तिः
शकारस्य द्वित्वं । पक्षे
For Private & Personal Use Only
इति रक्तवर्ण: ।
इति पीतवर्ण: ।
इति श्यामवर्णः ।
इति धूसरवर्ण :
इति स्वर्गाधारः ।
www.jainelibrary.org