________________
काव्यकल्पलतावृत्तिः
विस्तीर्णा आदतिरादरो यस्य स तथा । तथा सपीवरः सितोल्लासश्चन्द्रो मेघवत्, पीवरः प्रधानो यः; सितोल्लासः श्वेतवर्णोल्लासस्तेन सह वर्तते इति । पक्षे पीवा पीतश्च पीवरः इत्युक्तेः । पीवा पुष्टो लक्षणया मनोज्ञो यो रसितस्य गजितस्य उल्लास, स्लेन सह वर्तते यः स सपीवरसितोल्लासः । तथा परशुभ्रासितश्चन्द्रो जामदग्न्यवत् । परं प्रकृष्टं, शुभ्रवर्ण: तेनापितः । पक्षे परशुरायुधं, तेन भ्रामितः । का. क. आदिशब्दादन्येऽपि शब्दा यथा--अधिक गौरवितस्थितिः सुराष्ट्रवत् । प्रिय गौरचिताटोपं बिभ्रत्, भङगवत । पूरो गौरसाटोपश्री:, तरुणीवत् । विश्वे तत्त्वमनोहरो, योगिवत् । स्पष्टां श्वेतश्रियं बिभ्रत्, भानुवत् । लोलपश्वेतवैभवः, पशपालवत् ।
एवं वर्णादिनामश्लेषशब्दाः, सद्दग्गणपदार्थश्लेषशब्दाश्च बहवो मत्कृतकाव्यकल्पलतापरिमले श्लेषशब्दसमच्चयात ज्ञेयाः ।
क्षलवाद्या योज्या तत्र शबल: कर्बुरः लगुडः यष्टिः, समलः मलसहितः, लाङ्गलं हलं, शुकलः दुविनीतोऽश्वः, जङघालोऽतिजवः, छगल: छागः, वल्कलं वृक्षत्वकः, पिचुल: निम्ब:, अलं वृश्चिकपुच्छम् तत्।
सदग्गुणशब्दा यथा-- अहो चन्द्रकसल्लक्ष्मी
घनसारश्रियं वहन् । सदा नवसुधाशोभी बिभ्राणो राजतश्रियम् ।।
इति श्वेतवर्णः ।
म. टी. अत्रादिशब्दादन्येऽपि शब्दाः । यथा--अधिकं गौरचितस्थिति: चन्द्रः सुराष्ट्रवत् । अधिकं यथा स्यात्तथा; गौरवर्णेन चिता व्याप्ता स्थितिर्यस्य स तथा । पक्षे कङ्ग न्यिविशेष,स्तमधिलक्षीकृत्य रचितस्थितिः । तथा प्रियं गौरचिताटोपं बिभ्रच्चन्द्रो भङ्गवत् । प्रियं वल्लभं, गौरेण गौरवर्णेन, चितो व्याप्तो य आटोपस्तम् । पक्षे प्रियंगी वृक्ष रचिताटोप तथा । पुरो गौरसाटोपश्रीश्चन्द्रस्तरुणीजनवत् । पुरो अग्रे, गौरा साटोपा, श्रीर्यस्य स तथा। पक्षे पुरोगा अग्रगा ये औरसा: स्तनास्तेपामाटोपस्तस्य तेन वा श्री: शोभा यस्याः सा तथा । विश्वे तत्त्वमनोहरश्चन्द्रो योगिवत । वि विशिष्टं, श्वेतत्वं विश्वेतत्त्वं, तेन मनोहरः । पक्षे विश्वे जगति यत् तत्त्वं तेन मनोहरस्तथा । स्पष्टां श्वेतश्रियं बिभ्रत्' चन्द्रो भानुवत् । स्पष्टां प्रकटा, श्वेतश्रियं । भानुपक्षे स्पष्टांशुभ्यः प्रकटांशुभ्य, एता प्राप्ता या श्रीस्तां तथा । लोलपश्वेतवैभव: चन्द्र: पशुपालवत् । लोला चञ्चला, पा लक्ष्मीरादुदयरूपा यस्य स तथा । पाशब्दस्य लक्ष्मीवाचकत्वं वैश्वदेव्यां प्रोक्तमस्ति । श्वेतवैभवो यस्य स तथा । अत्र पूर्वेण सह कर्मधारयः । कृष्णपक्षे क्षीणकान्तित्वात लोलान तषितान पातीति लोलपं जलं, तद्वद् श्वेतवैभवो यस्येति वा । पशुपालपक्षे लोला ये पशव, स्तेभ्य एतः प्राप्तो, वैभवो यत्र स तथा ।
सदग्गुणशब्दा इति--यैः शब्दैः श्वेतवर्णादिगुणा आकृष्यन्ते तेन सदृग्गुणशब्दाः । यथा-अहो चन्द्रकसल्लक्ष्मीः । चन्द्रो मयूरवत् चन्द्रवत् कर्पूरवत् कसन्ती विकसन्ती लक्ष्मीर्यस्य स तथा । पक्षे चन्द्रकै: चान्दला इति प्रसिद्धैः, सल्लक्ष्मीर्यस्य स तथा । घनसारश्रियं वहन् चन्द्रो वर्षाकालवत्। घनसारस्य कर्षरस्य श्रीस्ताम् । पक्षे घनो मेघस्तेन सारश्री: प्रधानश्रीस्तां तथा । सदा नवसुधाशोभी चन्द्रो नृपवत् । सदा नूतना या सुधा तद्वत् शोभी शुभ्रवर्णत्वात् । पक्षे सहदानेन वर्तते यः स सदानः । वसुधा पृथ्वी, तया शोभी सदानश्चासौ वसुधाशोभी चेति तथा। बिभ्राणो राजतश्रियं चन्द्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org