________________
११८
काव्यकल्पलतावृत्तिः
॥३.२॥ अथ सर्ववर्णनम्
का. क.
जनितश्लेषसंश्लेषैर्वर्ण्यवर्णादिनामभिः ।
उपमान कृतोल्लासैः साधयेत्सर्ववर्णनम् ।।४८।। वर्यस्य वर्णाकाराधारक्रियाविधेयानि नामानि, तथा वर्णादिगुणैर्वर्ण्यसदृशानां पदार्थानां नामानि श्लेषापितोपमानयक्तानि कृत्वा सर्ववर्णनं कुर्वीत । यत्रकेन श्वेतादिशब्देन श्वेतादिपदार्थाः सर्वेऽपि वर्ण्यन्ते तत्सर्ववर्णनम । यथा
अहो गौरवसल्लक्ष्मी
र्यामिनीकामिनीपतिः । सुपर्वपर्वतौपम्य
भङगीमङगीकरोत्यसौ ।। अहो गौरवेत्येकपदेनैव ये केऽपि श्वेतपदार्था भवन्ति, ते सर्वेऽपि वर्ण्यन्ते ।
वर्णादीनां सङग्रहो यथा
सत्कोणवृत्तलघुलम्बपु राणनव्यवक्रान्तदूरचलनिश्चलदुःसुगन्धाः ।
सूक्ष्मोरुतीव्रपृथ सङ कटनिस्ससारस्थानप्रभासरसनीरसवामनाः स्युः ।।४९।। प्रभा श्वेतपीतादिको वर्णः । सत्कोणवृत्तलघुलम्बादिराकारः । स्थानशब्देन स्वर्गाकाशभूमिपातालनदीवनप्रतिक आधारः । चलनिश्चलादिकाः क्रियाः । पुराण-नव्य-अन्तर-दूर-दुर्गन्ध-सुगन्ध-निःसार-ससार-सरस-नीरसादिभिराधेयादयः । अमीषां च वर्णादीनां नामानि पूर्वोक्तश्लेषरीत्या सश्लेषाणि क्रियन्ते । पूर्व श्वेतवर्णशब्दा यथा--
गौरीभूतकलाशाली
परमश्चेतनादृतिः।
सपीवरसितोल्लास:
परशुभ्रासितोदयः ।।
म.टी. अथ सर्ववर्णनमाह--यत्रैकेन श्वेतादिशब्देन श्वेतादिपदार्थाः सर्वेऽपि वर्ण्यन्ते तत्सर्ववर्णनम् । उदाहरणानि यथाअहोगौरवसल्लक्ष्मीरिति । अहो इति आश्चर्ये । असौ यामिनीकामिनीपतिश्चन्द्रः सुपर्वपर्वतौपम्यभङगीं मेरुपर्वतरचनामङगीकरोति । कथम्भूतश्चन्द्रः गौरा उज्व (ज्ज्व) ला वसन्ती लक्ष्मीर्यस्य स गौरवसल्लक्ष्मी: । पक्षे मेरुः । कथंभूत गौरवं महत्त्वं तस्यसल्लक्ष्मीविद्यमानशोभा यस्य स तथेति । दुःसुगन्धा इति दुःसुशब्दाभ्यां गन्धशब्दो योज्यते । यथा-- दुर्गन्धः सुगन्धश्च । ऊरु--गरिष्ठं । निस्ससारेति-निस्सशब्दाभ्यां सारशब्दो योज्यते, यथा निस्सारः ससारश्च । तत्र प्रथमं श्वेतवर्णशब्दा यथा गौरीति चन्द्रः शिववत् शोभते । कथम्भूतश्चन्द्र: ? गौरीभूता उज्ज्वलीभूताश्च ता: कलाश्च गौरीभूतकला, स्ताभि: शाली । शिवपक्षे गौरी पार्वती, भूतानि च सेवकविशेषाः, कलाश्च चन्द्रलेखा,स्ताभिः शाली । अत्र श्वेतवर्णपदार्थश्चन्द्रः शोभते इति सर्वत्र योज्यम् । तथा परमश्चेत् तादृक् निश्चन्द्रोऽश्ववारवत् । परमा चासौ श्वेतता च, तस्या आदृतिरादरो यस्य स तथा । पक्षे परं केवलं अश्वेतता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org