SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः तथा रहोरंह आदीनामग्रे अहंयुः हसाद्या योज्याः । तत्र रहः एकान्तः, रंहो वेगः, अंहः पापं, हेरिकः हेरू इति प्रसिद्धः । तथा गहादीनामग्रे आहारहालाद्या योज्याः । तत्र-गुहादरी, विदेहा सीतामाता, हाला सुरा ।। तथा अहिप्रभृतीनामग्रे हिंगप्रमुखा: शब्दा योज्या: । तत्र अहितः शत्रुः, आहितः न्यस्तः । तथा महीवाही अग्रे हीनहीनवादीशब्दौ योज्यौ । तथा राहुप्रमुखाणामग्रे हुताद्या योज्याः । तथा गुह्यादीनामग्रे ह्यस्तनशब्दो योज्यः । तथा मोक्षादीनामग्रे क्षप्रक्षयाद्याः शब्दा योज्याः । तत्र प्लक्षः वटः, वैकक्षः उत्तरासङ्गः, वलक्ष: श्वेतः, क्षमः समर्थः, उक्षा वृषभः । तथा रक्षादीनामग्रे क्षाराद्या शब्दा योज्याः । तथा पक्षिप्रमुखाणामग्रे क्षितिप्रमुखा योज्याः । तथा रक्षोवक्षोऽग्रे क्षोदक्षोभितौ शब्दौ योज्यौ । तथा भिक्षप्रमुखाणामग्रे क्षुद्राद्या योज्याः । तथा पक्ष्मादीनामग्रे क्षमाशब्दो योज्यः । इति ककारान्तककारादिप्रभतिशब्दानां हकारान्तहकारादिपर्यन्तानां व्यञ्जनक्रमः । एवमन्योऽपि च श्लेषसाधनाय बोध्यः । अथ स्वरादिशब्दक्रमो यथा अनिरुद्ध अनल इत्यादि ॥छ।। इतिश्री तपागच्छाधिनायकपातसाहि श्री अकब्बर प्रतिबोधदायक श्री शत्रुञ्जयादितीर्थकरमुक्तिकारक भट्टारक श्री ४ श्री हीरविजयसूरीश्वर शिष्य पण्डित श्री शुभविजयगणिविरचिते काव्यकल्पलतावत्तिमकरन्दे श्लेषसिद्धिप्रतानप्राप्तश्लेषव्युत्पादनस्तबकोद्योतक: प्रथमः प्रसरः ॥छ।।१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy