________________
१००
काव्यकल्पलतावृत्तिः
तुङग स्वर्ग रङ्ग मङ्ग मङ्ग वङ्ग पूग खग छग छाग राग याग वेग रोग उरग नाग भोग युग पुरोग तडाग तरङ्ग पन्नग रथाङग भुजङग चतुरङग अङगराग शताङग अनुग।
म. टी. अथ वर्णाकर्षणेन--
श्लेषप्रकारो यथा-अकार्का इति अस्मिन् श्लोके पविशतिशब्दा: सन्ति । द्वितीयश्लोके पञ्चविंशतिशब्दाः सन्ति। तृतीयश्लोके द्वाविशतिशब्दाः सन्ति । प्रथमश्लोके अणिः अग्रविभागः, अण: सूक्ष्मः । द्वितीयश्लोके अमासहार्थे अर्यः स्वामिवैश्ययोः । तृतीयश्लोके विजितविहीनशब्दावपि वर्णाकर्षणहेतू ज्ञेयौ । उदाहरणानि यथा--अककमलशाली ग्रीष्मतडागो मनिवत । के पानीयं, कमलं पद्मं, ताभ्यां शालने इत्येवंशील: कमलशाली, न ककमलशाली अककमलशाली। पक्षे न विद्यते ककारो यत्र एवंविधः कमलशाली अककमलशाली मलशालीत्यर्थः । तथा अच्छगणशालीछ गोष्टानप्रदेशः ईश्वरवत। अच्छानि यानि छगणानि तैः शाली । पक्षे न विद्यते छकारो यत्र एवंविधः छगणशाली गणशालीत्यर्थः । तथा अलं क्लेशयुक्तः क्रोधी मस्तकवत् / अलं अत्यर्थ, क्लेशयुक्तः । पक्षे अलं लवजितं यथा स्यात् तथा । क्लेशयुक्तः केशयुक्त इत्यर्थः, इत्यादि ।
अथ प्रकारान्तरेण श्लेषसाधकशब्दा यथा--नाकः स्वर्ग १. निष्कः सुवर्ण २. पिक: कोकिल: ३. काकशुकबकपङका: प्रसिद्धार्थाः ७. भेकः दर्दरः ८. घृकः काकारिः ९. स्तोकः अल्पः १०. अलिक: ललाटं ११. पुलक: रोमाञ्चः १२. नरक १३. कलङक १४. नन्दक १५. नारकाः प्रसिद्धार्थाः १६. करक: धनोपल: १७. गुह्यक: यक्षः १८. विपाक: सिद्धान्तभेदः १९. अलीकं मृषावाद: २०. कटक: केयूरं २१. स्थानकं प्रसिद्धं २२. स्तबक: गुच्छकः २३. बन्धूकः मध्याह्नविकासी वक्षविशेषः २४. गण्डक : प्रसिद्धः २५. जाहक: सेहलु इति जीव: २६. चन्द्रक: कर्परः २७. तर्णकः वत्स: २८. व्यलीक विप्रतारणं २९. विटङक: कपोतपाली ३०. जालक: क्षारकः ३१. स्वस्तिक: ३२. मणिक: अलिञ्जर: गढं इति प्रसिद्धिः द्धः] ३३. पथिकः ३४. हतक: व्यापादितः ३५. लग्नकः प्रतिभूः ३६. नाविकः खलासीओ इति प्रसिद्धः ३७. गणक: जोसी ३८. कविकः खलिनं ३९. समीकं संग्राम: ४०. अनीकं कटकं ४१. पथकः बालक: ४२. दारुक: काष्ठं ४३. जनकः ४४. अम्बकं नेत्र ४५. अलकः कुटिलकेश: ४६. तिलक ४७. गर्भकः केशमध्यगतं माल्यं ४८. ताडङकः ताडपत्रं ४९. हंसकः नूपुरं ५०. कृषिक: हालिकः ५१. कर्षक: करसु इति मानविशेष: ५२. कौतुकं ५३. श्यामाकः धान्यविशेषः सामु इति प्रसिद्धिःद्ध] ५४. मालिक: वनमाली ५५. रजकः ५६. जालिक: जालकारकः ५७. लुब्धकः धीवरः ५८. स्फोटकः गण्ड: ५९. आर्द्रकः शृङ्गवेरं ६०. माक्षिकं माक्षिक मधु ६१. पातक ६२. तलक ६३. उदक ६४. अधिक ६५. मस्तक ६६. वनौकः । ओकशब्द अकारान्तोऽप्यस्ति तेन वनौको वानरः ६७. अंगारक: अंगारु इति प्रसिद्धिः[द्धः]६८. अपवरक ओरडु इति प्रसिद्धः ६९. उच्छीर्षक: ओसीसु इति प्रसिद्धः ७०. प्राघर्णकः ७१. वनीपक: याचक: ७२. दौवारिकः प्रतीहारः ७३. आरालिक: सूपकारः ७४. प्रबोधकः मागधः ७५. विशेषक: तिलक ७६. भयानको रसविशेषः ७७. रणरणकः । औत्सुक्यं ७८. वैकटिकः मणिकार: ७९. । एतेषां शब्दानामग्रे आकरकरकलप्रभृतिशब्दा योज्याः। तत्र करी गजः, कसा चर्मवस्त्री नाडीदि प्रसिद्धिः, करजस्तु नक्तमाल:, कवचः सन्नाहः, कदनं विनाशः, करणं इन्द्रियं, कबन्धः मृतकं, कमठ: कच्छपः, कदम्बो वृक्षः, करवीरः हयमारो वृक्षः, कवचनः उत्तमः, करवालः खड़गः, कर्णधारः नाविकः, कण्डः खर्जुः, कन्दुरिति पाठे कढाईओ इति प्रसिद्धिः । कंकालः अस्थिपञ्जरः, ककरः सन्नाहः, कोयष्टि: पक्षिविशेषः, के कौ]पीनं वस्त्रं कच्छोट 5 इति प्रसिद्धिरित्यादि । उदाहरणानि यथा-सुनाका करसंशोभी श्रेष्ठी देवगणवत् । अत्र के सुखं, अकरः कराभावोऽदण्ड इति यावत् । कंचा करश्च काकरौ, ताभ्यां संशोभते इत्येवंशीलः काकरसंशोभीः । कथम्भतः सुनाशोभन पुरुष इत्यर्थः । पक्षे सुशोभनो नाकः स्वर्गः, स एवाकर उत्पत्तिस्थानं, तेन संशोभी। तथा निष्कारणसुखशाली सिद्धो धनिकवदत्र निष्कारणं निर्हेतुकं, शाश्वतं यत्सुखं तत्र शालते इत्येवंशीलः निष्कारणसुखशाली। पक्षे निष्कं सुवर्ण, अरणसुखमक्लेशसुखं, ताभ्यां शाली। तथा सदापि कलसत्थोभी वसन्तः सज्जनवत् । सदा निरन्तरं, पिर्लसन पिकलसन, शोभते इत्वेवंशील: शोभी; पिकलसंश्चासौ शोभी च पिकलसच्छोभी । पक्षे सदापि कला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org